मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 414, कुल 448 में से
संदर्भ में पढ़ें२० मृगेन्द्रतन्त्रे । [ १११
हस्तेन जानुमण्डलपरिश्रमणं यावत्या का-
लमात्रया क्रियते तावतीभिर्द्वादशभिस्ताला-
ख्यः कालांशो ज्ञेयः । तैश्च तालैर्द्वादशभिः
कनिष्ठः प्राणायामः, चतुर्विंशत्या मध्यमः,
अष्टाचत्वारिंशता श्रेष्ठः । तथोक्तं श्रीसर्वज्ञा-
नोत्तरे
'तालद्वादशको ज्ञेयः प्राणायामस्तु कन्यसः ।
मध्यश्चतुर्भिर्विंशत्या श्रेष्ठस्तद्विगुणो भवेत् ॥'
इति ॥
इत्थं प्रतिनियत¹प्राणरेचकपूरककुम्भकस-
मुदायरूपो यः प्राणायामः
सोऽपि ध्यानजपोपेतः
सगर्भोऽन्यस्तदुज्झितः ॥ २८ ॥
यथा सगर्भः स्थैर्याय
मनसो न तथेतरः ।
सोऽप्ययं प्राणायामो ध्यानेन जपेन च युक्तः
सगर्भाख्यया ज्ञेयः । यस्तु विनैव ध्यानजपा-
भ्यां क्रियते स निर्गर्भः । यथा च मनसः
स्थैर्यहेतुत्वं सगर्भस्य न तथा निर्गर्भस्य–इति
१ 'नियम' क. ।