सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 405, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 405

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ११
न तमीष्टे नरः कश्चित्
रक्षोदानवमानवाः ।
रोरुचानमतीत्यैतान्
दृक्क्रियाप्राणरोचिषा ॥ ११ ॥
एषु प्राणायामादिष्वङ्गेषु समस्तेष्वसमस्तेषु
वा कृताभ्यासस्य योगिनः सर्वाः शक्तयो विव-
स्वत इव दीप्तयो विश्वं व्याप्य भान्ति भ्राजन्ते,
सर्वकार्येष्वयमव्याहतसामर्थ्यः स्यादित्यर्थः ।
तथो हि नैनमत्युग्रतेजस्त्वाद्देदीप्यमानं सन्तं
राक्षसदानवत्रिदशमनुजेभ्यः कश्चिदप्याक्रा-
मति । प्रकृष्टैर्ज्ञानक्रियावीर्यतेजोभिरेतान् दा-
नवादीनतीत्यातिक्रम्य स्थितत्वादिति, रोरु-
चानमिति२ विशेषणद्वारेण हेतुः ॥ ११ ॥
अत्र मुनिः प्रश्रयति
निवृत्तेर्मनसो हेतुः
संसर्गात्प्राणखेदनम् ।
निवृत्तिर्धारणादीनां
मूलं सर्वस्य तत्ततः ॥ १२ ॥
१ 'नच तं' क. । २ 'नत्वादिति' ख. ।