मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 413, कुल 448 में से
संदर्भ में पढ़ेंश्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १९
वामनाड्यवस्थिते मरुति कुम्भकपूरकौ स्व-
पुष्ट्यर्थमात्मन आप्यायनार्थं मृत्युजयार्थं च
कालवञ्चनाय, आदिग्रहणाच्छान्तिकादिसिद्ध्यै
च कुर्यात्। परस्य पुष्ट्याद्यर्थं वा वामस्थं रेचकं
भजेत् । यदा त्वनग्निज्वलनवृक्षशोषणनिर्वी-
जीकरणस्तोभोन्मादविषोद्दीपनप्रमुखकार्याणि
कर्तुमिष्टानि तदानीं सौरमार्गस्थेन चारेण
रेचकं कुर्यात् । स्तोभः स्वल्पस्य विषज्वालादेर्ब-
हुलीकरणम्। शाङ्कर इति सौषुम्नमार्गस्थं विषु-
वति कर्तव्यतयोक्तं यत्तद्ध्यानार्चनजपादि
कार्यं, उत्क्रान्तिर्वा तद्विषये, दीक्षासंस्थापने
कुम्भकरेचकाविष्टौ । संस्थापनं प्रतिष्ठानम् ॥
अथैषां रेचकादीनामभ्यासाय कालपरिमा-
णं प्रति नियमं वक्तुमाह
यवीयान् मध्यमो ज्येष्ठः
स तालैर्द्वादशादिभिः ॥ २७ ॥
तालो द्वादशभिर्जानु-
परिणाहपरिभ्रमैः ।
१ 'शिवाश्रयसौषुम्णमार्गस्थवि' क. । २ 'परिणामप्रतिनि' ख. ।