सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

१२२ मृगेन्द्रतन्त्रे । [१।४
भवतीति प्रक्षीणकार्मामायीयबन्धानां विज्ञा-
नकेवलानामञ्जनपरिपाकाद्यनुसारेण तत्पद-
योग्यानामष्टकं मन्त्रकोटिसप्तकपरिवारं वामा-
दिशक्तिनवकयुक्तं च करोति ॥ २ ॥
अन्येषामपि सप्तकोटिसंख्यातानां मन्त्रा-
णामनन्तेशादय एवाष्टावीशितार इति वक्तुमा-
रभते
तेषामनन्तः सूक्ष्मश्च
तथा चैव शिवोत्तमः ।
एकनेत्रैकरुद्रौ च
त्रिमूर्तिश्चामितद्युतिः ॥ ३ ॥
श्रीकण्ठश्च शिखण्डी च
राजराजेश्वरेश्वराः ।
राजानो लोकेशा इन्द्रादयः, तेषां राजानः
शतरुद्राः, तदीश्वराणां मण्डलिप्रभृतीनामप्येत
ईश्वराः प्रभवः विद्यामहेश्वरा इति यावत् ॥
एते च
ईषदप्राप्तयोगत्वा-
न्नियोज्याः परमेष्ठिनः ॥ ४ ॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १२३
अधिकारमलांशावशेषात्किंचिदनवाप्तपरमे-
श्वरसाम्या इत्यस्यैते प्रेर्याः ॥ ४ ॥
अथैषामष्टानमपि सर्वज्ञत्वसर्वकर्तृत्वसंभ-
वात्किंस्विद्भिन्नरूपत्वमुत कश्चिद्विशेष इत्याह
सर्वज्ञत्वादियोगेऽपि
नियोज्यत्वं मलांशतः ।
परस्परं विशिष्यन्ते
मन्त्राश्चैवमधःस्थिताः ॥ ५ ॥
यद्यपि सर्वे सर्वार्थदृक्क्रियाः, तथाप्येकैकस्य
स्वस्वाधोवर्तिनो नियोज्या इति प्रेर्यतालक्षण-
मलांशावशेषादधोवस्थितानामेषामूर्ध्वस्थमवे-
क्ष्य कलया कर्तृत्वस्य न्यूनत्वमिति परस्पर-
विशेषः । तदुक्तं
‘यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्वमिष्यते।’
( मा० वि० २।६० )
इति । न केवलमेत एव विशिष्यन्ते या-
वत्तदधोवर्तिनो मन्त्रा अप्येवमेव परस्पर-
विशेषभाजः ॥ ५ ॥

१२४ मृगेन्द्रतन्त्रे । [ १४
तानेव मन्त्रान्विशिनष्टि
ते च मन्त्रेश्वरव्यक्त-
शिवशक्तिप्रचोदिताः ।
कुर्वन्त्यनुग्रहं पुंसां
यदा येषां स युज्यते ॥ ६ ॥
ते च मन्त्राः परापरमन्त्रेश्वरव्यक्तया शिव-
शक्त्या व्यापारिता योग्यतानुरूप्येण कदाचि-
त्केषांचिदनुग्रहं कुर्वन्ति, नतु योग्यतानपेक्ष-
मतिप्रसङ्गात् ॥ ६ ॥
प्रयोक्तृदेहसापेक्षं
तदर्धमखिलेऽध्वनि ।
कृत्वाधिकारं स्थित्यन्ते
शिवं विशति सेश्वरम् ॥ ७ ॥
तेषां सप्तकोटिसंख्यातानां मन्त्राणामर्धं
प्रयोक्तृणामनुग्रहीतॄणां देहं शरीरमाश्रयत्वेना-
पेक्षमाणमीश्वरमपेक्षत इति तत्सापेक्षमाचा-
र्याधिकरणेश्वरापेक्षमखिले मायीयेऽध्वनि स्वम-
धिकारमनुग्राह्यानुग्रहलक्षणं निर्वर्त्य, स्थिति-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १२५
कालस्यान्ते मायीयस्याध्वनोऽप्युपरमसमये,
सेश्वरमिति मन्त्रेश्वरैः सहितं शिवसायुज्यं
गच्छति ॥ ७ ॥
अपरस्यार्धस्य का वार्तेत्याह
विनाधिकरणेनान्य-
त्प्रधानविकृतेरधः ।
कृत्वाधिकारमीशेष्ट-
मपैति स्वाध्वसंहतौ ॥ ८ ॥
अन्यदपरमर्धमीशेष्टमिति यत्र यत्र परमे-
श्वरस्यानुग्रहेच्छा तत्र तत्र तदिच्छयैव, वि-
नाधिकरणेनेत्याचार्यलक्षणमधिकरणमनपेक्ष्यैव
प्रधाना चासौ विकृतिश्चेति प्रधानविकृतिः
शुद्धविद्या, अस्या अधः सर्वत्र मायीये चाध्वनि
स्वमधिकारं कृत्वा स्वस्याध्वनोऽनुग्रहमार्गस्य सं-
हृतौ समाप्तौ अपैति अपवृज्यते । तदुक्तं
तत्रभवद्भिः सद्योज्योतिःपादैः
'जगति कृते तत्रार्थं मन्त्राणां शिवसमाहृतान्पुंसः ।
अनुगृह्य याति हि विना दैशिकमूर्तिं प्रयुक्तमीशेन ॥'
( तत्त्वसं० ३३ )
इति ॥ ८ ॥

१२६ मृगेन्द्रतन्त्रे । [ २।४
इत्थं मन्त्रानुक्त्वा मन्त्रेश्वरान्वक्तुमाह
ततोऽनन्ताद्यभिव्यक्तः
पतीनां ग्रन्थितत्त्वतः ।
कलाद्यारब्धदेहानां
करोत्यष्टादशं शतम् ॥ ९ ॥
'तच्च सात्मकमाक्रम्य विश्वमायावतिष्ठते ।'
इति अन्तर्विश्रान्ताणुसंघातं मायातत्त्वं
वक्ष्यमाणं, तस्माद्ग्रन्थितत्त्वतस्तद्गर्भाधिकारिणां
कलाद्यारब्धशरीराणां मण्डल्यादीनां पतीनाम-
ष्टादशाधिकं शतमनन्तेशाद्यभिव्यक्तः पर-
मेश्वरः करोति कलाद्यारब्धदेहत्वमेषां करो-
तीत्यर्थः । ननु च
'अष्टादशाधिकं चान्यच्छतं मायाधिकारिणाम् ।
विद्येश्वराणाम् .................... ॥'
इत्यादिना साक्षात्परमेश्वरानुगृहीतत्वमेषामु-
क्

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १२७
मेश्वरस्य
'शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः ।'
इति श्रुतेः । स तु कलादियोगिनो भोगभु-
जस्तान् साक्षादनुगृह्णातीति न कश्चिद्दोषः ॥९॥
तेऽप्यन्येषां विनियोक्तार इत्याह
तानप्याविश्य भगवा-
न्साञ्जनान् भुवनाधिपान् ।
येभ्यः सर्वमिदं येषां
शक्तिः कर्मनिबन्धना ॥ १० ॥
तानपि मण्डलिप्रभृतीन्नष्टावधिष्ठाय स
परमेश्वरोऽन्यानपि ब्रह्मप्रभृतीन् समलान्भु-
वनेशानुत्तेजितदृक्क्रियाशक्तीन् करोतीति पूर्वे-
णैव संबन्धः । किंविधानित्याह—येभ्यः सर्व-
मिदं जगत्स्थावरजङ्गमलक्षणमाविर्भवतीति
शेषः । येषां शक्तिः कर्मनिबन्धना कर्मपाशो
येषामुपरोधकत्वान्न निवृत्तः, सकलानामेवैषां
परमेश्वरादनुग्रहो यतः ॥ १० ॥

१२८ मृगेन्द्रतन्त्रे । [ १४ .
न परमेतानेव करोति, यावत्
प्रणेतॄन्पशुशास्त्राणां
पशूंस्तदनुवर्तकान् ।
स्वसाध्यकारकोपेता-
न्कालधामावधिस्थितान् ॥ ११॥
पशुशास्त्राणामार्हतसांख्यपाञ्चरात्रादीनां
प्रणेतॄनर्हत्कपिलप्रभृतींस्तदनुष्ठातॄंश्च पशून् स्व-
साध्येन तत्तच्छास्त्रोपदिष्टेन फलेन तत्साधन-
हेतुभिः कारकैश्च युक्तान् कालाग्निभुवनान्तं
यावत्करोतीति पूर्वेणैव संबन्धः ॥ ११ ॥
अथैतान्सृष्ट्वा देवः किं करोतीत्याह
स्थितौ सकारकानेता-
न्समाक्रम्य स्वतेजसा ।
युनक्ति स्वार्थसिद्ध्यर्थं
भूतैरनभिलक्षितः ॥ १२ ॥
एतान् कारकैर्भोगसाधनैस्तत्त्वभावभुवना-
दिभिर्युक्तान्, स्वतेजसा निजेच्छाशक्त्या, सम्य-
गधिष्ठाय स्वार्थसिद्ध्यर्थमित्यात्मीयस्य व्यापा-

पा. ३] श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १३९
रस्य संपत्तये, यद्वा स्वैरात्मभिरर्थ्यत इत्यर्थो
भोगापवर्गलक्षणः पुरुषार्थः तस्य निष्पत्त्यर्थं,
नियोजयति, नतून्मत्तवत्, नाप्यप्रयोजनं
प्रयोजनानुद्देशेन मन्दस्याप्यप्रवृत्तेः, नच क्री-
डार्थं रागादिविरहिणस्तदसंभवात्, नाप्यात्म-
निमित्तं परिपूर्णत्वात् । भूतैः प्राणिभिरविद्याव-
शादविदिततद्दृक्रियः ॥ १२ ॥
तदियता सृष्टिस्थिती उक्त्वा संहारं वक्तुमाह
भोगसाधनमाक्षिप्य
कृत्वा कारणसंश्रयम् ।
तच्च सात्मकमाक्रम्य
विश्रामायावतिष्ठते ॥ १३ ॥
भविनां भवखिन्नानां
सर्वभूतहितो यतः ।
स्थित्यन्ते भोगसाधनं तनुकरणभुवनादि
उपसंहृत्य, कारणे मायाख्ये लीनं कृत्वा, तच्च
मायाख्यं कारणमन्तर्निहितात्मव्रातमधिष्ठाय
संसारिणां भवाध्वभ्रमणश्रान्तानां विश्रमार्थम्,
१७

१३० मृगेन्द्रतन्त्रे । [१४
वतिष्ठते निरुद्धव्यापारांस्तांस्तान्करोतीत्यर्थः ।
कुत इत्याह सर्वभूतहितो यतः, यस्मात् सर्वेषां
भूतानां हिताय प्रवृत्तः परमेश्वरः खेदापनोदाय
विश्रान्तिं स्वापलक्षणामेषां करोति ॥
ततस्तु
स्वापावसानमासाद्य
पुनः प्राग्वत्प्रवर्तते ॥ १४ ॥
वक्ष्यमाणकालपरिमाणस्य स्वापस्यान्ते भूयः
पूर्ववदहर्मुखे परमेश्वरश्चेष्टते ॥ १४ ॥
तत्स्वापेऽपि क्रियादिशक्तयस्तत्तत्कार्यनिष्पा-
दनोद्युक्ता भवन्तीत्याह
स्वापेऽप्यास्ते बोधयन्बोधयोग्यान्
रोध्यान्रुन्धन्पाचयन्कर्मिकर्म ।
मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन्
पश्यन्सर्वं यद्यथा वस्तुजातम् ॥१५
जाग्रदवस्थायामिव स्वापावस्थायामपि म-
लपरिपाकतारतम्यापेक्षया बोधनार्हान् बोध-
यन्, रोधनार्हान् रोधनशक्त्या रुन्धन्, कर्मिणां

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १३१
कर्माणि परिणामयन्, मायाशक्तीश्च प्रसवा-
भिमुखीः कुर्वन्, सर्वं चिदचित्तत्त्वभावभूतभु-
वनात्मकं यथावदवलोकयन्नास्ते । यद्यथेति न-
त्वस्मदादिवत् अयथावस्त्ववभासोऽप्यस्य भ-
वतीति वक्ष्यामः । तदियता जगत्सृष्टिस्थिति-
ध्वंसलक्षणं कृत्यत्रयमिहोक्तमिति प्रकरणोप-
संहारः ॥ १५ ॥
इति श्रीभट्टविद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ चतुर्थं प्रकरणम् ॥ ४ ॥

१६९
अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( पञ्चमः पटलः )
अथ मूलसूत्रोपात्तसर्वकृत्पदाक्षिप्तपतिपदा-
र्थस्यानुग्रहतिरोभावाख्यकर्मद्वयमवशिष्टमभि-
धातुं प्रकरणान्तरम् । अस्य च सौत्रः पादार्थि-
कश्च संबन्धौ स्पष्टौ, प्राकरणिकस्तु विद्यापा-
दाख्येन प्रकरणेन ज्ञेयः, वाक्यात्मकोऽपि
'जगत्सृष्टिस्थितिध्वंसतिरोभावविमुक्तयः । कृ-
त्यम्' ( १।२।३ ) इत्यादिभिर्वाक्यैः, पाटलिकः
पुनः 'बोधयन्बोधयोग्यान्' इति पूर्वपटल
एवोपक्रान्तः ।
तमःशक्त्यधिकारस्य
निवृत्तेस्तत्परिच्युतौ ।
व्यनक्ति दृक्रियानन्त्यं
जगद्वन्धुरणोः शिवः ॥ १ ॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १३३
तमसो मलस्य शक्तेश्च भगवत्संबन्धिन्या
वामाख्याया योऽसावधिकारो न्यग्भावनव्यापृ-
तत्वं, तस्य निवृत्तेर्विरामात् यासौ परिच्युतिः
कैवल्याभिमुखीभावः, तथाचोक्तं श्रीमत्स्वायं-
भुवे
'क्षीणे तस्मिन्यथा सा स्यात्परं निःश्रेयसं प्रति ।'
इति, तस्यां तत्परिच्युतौ सत्यां जगदुद्धरण-
प्रवणः परमेश्वरो दृक्क्रियानन्त्यमणोरात्मनः
प्रकटीकरोति । सत्योरेवानन्तयोर्दृक्क्रिययोर्मला-
वच्छन्नत्वादावृतानन्त्ययोस्तत्परिणतेरावरणाप-
गमादभिव्यक्तिः क्रियते, नत्वपूर्वोत्पाद इ-
त्युक्तं, वक्ष्यामश्च सत्कार्यवादे ॥ १ ॥
यान्विमोचयति स्वापे
शिवाः सद्यो भवन्ति ते

१३४ मृगेन्द्रतन्त्रे । [ १५
र्यत्वेन शिवत्वयोगात् तदानीं चाधिकारिणाम-
नुपयोगात् । किंच संहारे सृष्टौ वा यान्विमोच-
यति, तेऽपि सद्य एव शिवाः संपद्यन्ते, न
व्यतिरेकेण । अथवेति अनयोः सृष्टिसंहारका-
लयोरञ्जनपरिपाकवैलक्षण्यतस्तत्क्षणं शिवत्व-
व्यक्त्या निरधिकारमूर्तिभाजः साधिकाराः
पतित्वयोगिनो वा आत्मानो भवन्तीत्यर्थः ।
तत्र संहारे येषामधिकारवाननुग्रहस्ते तदानीं
रुद्राणवः सृष्टौ त्वधिकारिणो भवितारः,
सर्गारम्भे तु साधिकारानुग्रहानुगृहीताः पतय
इति परापरविद्येश्वराद्यधिकारभाजो भव-
न्तीति । अथ सृष्टिसंहारकालयोरश्रुतमपि
कथमनुग्राह्याणां शिवत्वं लभ्यत इति चेत्
लभ्यत एव मलपरिपाकस्य परमेश्वरानुग्रहस्य
चानियतकालत्वात् ॥ २ ॥
अथैवं सर्गसंहारस्वापकालेषु अनुगृहीतानां
मुक्तिविशेषमुक्त्वा, स्थितिकालानुगृहीतानां
तद्विशेषमाह
रुद्रमन्त्रपतीशान-
पदभाजो भवन्ति ते ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १३५
स्थितौ याननुगृह्णाति
गुरुमास्थाय चिद्गतः ॥ ३ ॥
गुर्वधिकरणः परमेश्वरः स्थितिकाले चिद्गत
इति तदनुध्यानवशात्परापरनिःश्रेयसविषयया
प्रशस्तया चिता युक्तान्यानणूननुगृह्णाति, ते म-
न्दतीव्रादिशक्तिसंपातवैलक्षण्यात्पञ्चाष्टकादिरु-
द्राणां, सप्तकोटिसंख्यातानां मन्त्राणां, तत्प-
तीनां च विद्येश्वराणामीशानस्य चेश्वरसदा-
शिवान्तलक्षणस्य संबन्धि पदं भजन्त इति
तत्पदभाजस्तत्सालोक्यादिपदयोगिनो भव-
न्तीत्यर्थः ॥ ३ ॥
ननु शक्तिपातविशेषात्तत्तत्पदभाक्त्वं चेत्तर्हि
तद्विशेषः कथं ज्ञेयः इत्याह
येषां शरीरिणां शक्तिः
पतत्यपि निवृत्तये ।
तेषां तल्लिङ्गमौत्सुक्यं
मुक्तौ द्वेषो भवस्थितौ ॥ ४ ॥
भक्तिश्च शिवभक्तेषु
श्रद्धा तच्छासके विधौ ।

१३६ मृगेन्द्रतन्त्रे । [ १५
अनेनानुमितिः शिष्ट-
हेतोः स्थूलधियामपि ॥ ५ ॥
अशरीरिणां तावद्दुरुर्भिः शक्तिपातस्य दुर्ल-
क्ष्यत्वाच्छरीरवतां येषां पारमेश्वरी शक्तिरपुने-
राविर्भावाय पतति, तेषां तत्पाते मुक्त्युत्कण्ठा,
संसारद्वेषः, परमेश्वरभक्तिपरेषु भक्तिः, तच्छा-
सके शास्त्रे श्रद्धा चेति लिङ्गं चिह्नम् । अनेनैव
चिह्नेनाप्रकर्षवता अवशिष्टस्य संसारस्थितिहेतोः
पाशजालस्यासूक्ष्मबुद्धीनामप्यनुमानम् । पूर्वो-
क्तानां चिह्नानामेव मन्दत्वे सति पशोः पाश-
शैथिल्यमान्द्यं मन्दमतयोऽप्यनुमिन्वन्ति इति
भावः ॥ ५ ॥
ननु किमनेनात्यन्तापूर्वेण शक्तिपातनिश्च-
येन, सकलदर्शनप्रसिद्धं तावदिदं कैवल्यप्रा-
प्तिकारणं लिङ्गत्वेन किं न निश्चीयते । यदुक्तं
‘न हृष्यत्युपकारेण नापकारेण कुप्यति ।
यः समः सर्वभूतेषु जीवन्मुक्त

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १३७
ज्येष्ठादिफलयोग्यानां
साधिकारासु मुक्तिषु ॥ ६ ॥
उपायादरवैशिष्ट्या-
न्मृग्यते तन्त्रयं पुनः ।
पशुदृग्भिः पाशवैर्ज्ञानैस्तदुक्तेन च पतञ्ज-
लिप्रभृतिप्रणीतेन योगेन ये सिद्धाः सत्त्वगुण-
प्रसादान्माध्यस्थ्यं प्राप्तास्तेषां यत् कर्मभ्यामुप-
कारापकाररूपाभ्यां चेष्टाभ्यां प्रसादक्रोधलक्षणं
व्यक्तिद्वयं सममिति नापकारिणि क्रोधव्यक्ति-
र्नाप्युपकारिणि प्रीतिव्यक्तिर्माध्यस्थ्यादेवैतद्भ-
वतु, नास्माभिर्निषिध्यते । इह पुनरयं विशेषः
यदधिकारवतीषु मुक्तिषु विषयेषूपायस्य दी-
क्षादेः
‘लोकधर्ममयी दीक्षा शिवधर्ममयी तथा ।’
इत्यादिना वक्ष्यमाणाद्वैशिष्ट्यादादरस्य च तत्त-
त्पदप्राप्तिप्रीतिश्रद्धात्मनो वैलक्षण्यात्, यथोक्तं
श्रीमत्सूक्ष्मस्वायम्भुवे
‘यो यत्राभिलषेदभोगान्स तत्रैव नियोजितः ।
सिद्धिभाग्भावसामर्थ्यात्.........॥’
१८

१३८ मृगेन्द्रतन्त्रे । [ १५
इति, तस्मादुपायादरवैलक्षण्यान्मन्त्रमहेश्वरा-
दिपदप्राप्तिलक्षणज्येष्ठफलयोग्यतां मन्त्रेश्वरप-
दशक्त्यात्मकफलार्हत्वं पञ्चाष्टकाद्यपराधिकारि-
पदयोजनायोग्यतां च निश्चेतुं कर्मव्यक्तित्रयं
मृग्यते अन्विष्यते । भक्तिश्रद्धाभिव्यक्तितार-
तम्यादुत्कृष्टमध्यमापकृष्टरूपसाधिकारापवर्ग-
पदभाज इत्यनुग्राह्या भवन्तीत्याशयः ॥
यच्चैतत्साधिकारमुक्तित्रयं दर्शितम्, ततः
द्वयोर्व्यक्तिकरः कश्चि-
च्च्युतिसिद्धिविलक्षितः ॥ ७ ॥
मध्यमापकृष्टयोर्मुक्त्योरुपर्यधोवर्तिनः पदस्य
प्राप्यतया स्वस्मात् पदात् च्युतिसंभवेन च क-
श्चिद्व्यक्तिकरोऽन्तरायः, नत्वनन्तरमेवापवर्गस्य
प्राप्तिः । तृतीयस्यां तु तत्पदाधिकारसमाप्तिस-
मनन्तरेणैव तल्लाभः ॥ ७ ॥
अथ किंनिमित्तमेतच्चिह्नवैचित्र्यं यद्वशा-
त्त्रित्वं साधिकाराया मुक्तेरित्याह
ईषदर्थनिवृत्ते तु
रोधकत्वे तमःपतेः ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १३९
भवन्त्येतानि लिङ्गानि
किंचिच्छिष्टे च देहिनाम् ॥ ८॥
तमःपतेः क्रियादृङ्निरोधुर्वामदेवनाथस्य
यद्रोधकत्वं, तस्मिन् किंचिन्निवृत्ते मनागवशिष्टे
च सति एतच्चिह्णतारतम्यं शरीरिणां भवति ॥
अत एव
योग्यतात्रयमप्येत-
त्समतीत्य महेश्वरः ।
स्वापेऽणुमनुगृह्णाति
साधिकारमिदं यतः ॥ ९ ॥
एतद्योग्यतात्रयमनपेक्ष्यैव स्वापेऽणुमनुगृ-
ह्णाति, अणुमिति जातावेकवचनम्, योग्यता-
वैचित्र्येणानुग्रहवैचित्र्यमणूनां तदानीं न करो-
तीति भावः । अत्रैव हेतुमाह ‘साधिकारमिदं
यतः’ यस्माद्योग्यतात्रयमधिकारापेक्षम् । नच
तदानीमधिकारोपयोगः, तस्मान्नापेक्षते ॥ ९ ॥
सर्गमूले तृतीयायां
स्वापवद्भूतसंहतौ ।

१४० मृगेन्द्रतन्त्रे । [ १५
भविष्यति सर्गारम्भे संहारोपान्ते वक्ष्य-
माणलक्षणायां तृतीयस्यां च भूतसंहतौ या-
ननुगृह्णाति, ते शिवाः संपद्यन्ते स्वापावस्था-
नुगृहीताणुवत् ॥
स्वापेऽणुमनुगृह्णातीति यत्प्रागुक्तं, ततोऽणु-
शब्दं लक्षयितुमाह
स यद्यपास्य क्रियते
तद्विधो योऽणुरुच्यते ॥१०॥
स इत्यनन्तरोक्तः सर्गादौ तृतीये च भूत-
संहारे स्वापे च योऽनुग्राह्यः । यो यद्यपास्याप-
नीय तादृग्विधः क्रियते अभिव्यक्तशिवभावः
संपद्यते, सोऽणुशब्दवाच्यो ज्ञेयः अणुः सन्नप-
वृज्यत इति यावत् ॥ १० ॥
तदेवं 'बोधयन्बोधयोग्यान्' इति यत्प्रा-
गुप्तं, तदृक्रियानन्त्यव्यक्त्या प्रदर्शितम् । य-
[L1

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १४१
तथा बीजं शरीरादेः
पाचयत्यानिवेशनात् ।
भगवतः शक्तयः सर्वकार्येषु प्रसृताः ।
ताभिः शरीरेन्द्रियजात्यायुर्भोगकारणं कर्म
देहभाजां तत्स्वापे पाचयति फलदानोन्मुख-
मापादयति ॥
यस्मात्
न योग्यताङ्गमभज-
त्सद्यः स्यादौषधादिवत् ॥११॥
योग्यताया अर्हत्वस्याङ्गं संपादकं पाकाख्यं
संस्कारमभजदनासेव्यमानं तत् कर्म सद्यस्त-
त्क्षणं हरीतक्याद्यौषधमिव न स्यान्न भवेत्फ-
लदमिति शेषः । यदाहुः-अप्राप्तपाकं हरीत-
क्यादिद्रव्यं सदपि स्वकार्यसंपादनाशक्तं यो-
ग्यताङ्गस्य पाकस्यानासादनादिति ॥ ११ ॥
एवं सदपि कर्मापक्वं तत्फलदानांशक्तं,
अतः पाकापेक्षं, पाकश्चास्य न स्वतः संभवती-
त्याह