मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 164, कुल 448 में से
संदर्भ में पढ़ें१३४ मृगेन्द्रतन्त्रे । [ १५
र्यत्वेन शिवत्वयोगात् तदानीं चाधिकारिणाम-
नुपयोगात् । किंच संहारे सृष्टौ वा यान्विमोच-
यति, तेऽपि सद्य एव शिवाः संपद्यन्ते, न
व्यतिरेकेण । अथवेति अनयोः सृष्टिसंहारका-
लयोरञ्जनपरिपाकवैलक्षण्यतस्तत्क्षणं शिवत्व-
व्यक्त्या निरधिकारमूर्तिभाजः साधिकाराः
पतित्वयोगिनो वा आत्मानो भवन्तीत्यर्थः ।
तत्र संहारे येषामधिकारवाननुग्रहस्ते तदानीं
रुद्राणवः सृष्टौ त्वधिकारिणो भवितारः,
सर्गारम्भे तु साधिकारानुग्रहानुगृहीताः पतय
इति परापरविद्येश्वराद्यधिकारभाजो भव-
न्तीति । अथ सृष्टिसंहारकालयोरश्रुतमपि
कथमनुग्राह्याणां शिवत्वं लभ्यत इति चेत्
लभ्यत एव मलपरिपाकस्य परमेश्वरानुग्रहस्य
चानियतकालत्वात् ॥ २ ॥
अथैवं सर्गसंहारस्वापकालेषु अनुगृहीतानां
मुक्तिविशेषमुक्त्वा, स्थितिकालानुगृहीतानां
तद्विशेषमाह
रुद्रमन्त्रपतीशान-
पदभाजो भवन्ति ते ।