मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 159, कुल 448 में से
संदर्भ में पढ़ेंपा. ३] श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १३९
रस्य संपत्तये, यद्वा स्वैरात्मभिरर्थ्यत इत्यर्थो
भोगापवर्गलक्षणः पुरुषार्थः तस्य निष्पत्त्यर्थं,
नियोजयति, नतून्मत्तवत्, नाप्यप्रयोजनं
प्रयोजनानुद्देशेन मन्दस्याप्यप्रवृत्तेः, नच क्री-
डार्थं रागादिविरहिणस्तदसंभवात्, नाप्यात्म-
निमित्तं परिपूर्णत्वात् । भूतैः प्राणिभिरविद्याव-
शादविदिततद्दृक्रियः ॥ १२ ॥
तदियता सृष्टिस्थिती उक्त्वा संहारं वक्तुमाह
भोगसाधनमाक्षिप्य
कृत्वा कारणसंश्रयम् ।
तच्च सात्मकमाक्रम्य
विश्रामायावतिष्ठते ॥ १३ ॥
भविनां भवखिन्नानां
सर्वभूतहितो यतः ।
स्थित्यन्ते भोगसाधनं तनुकरणभुवनादि
उपसंहृत्य, कारणे मायाख्ये लीनं कृत्वा, तच्च
मायाख्यं कारणमन्तर्निहितात्मव्रातमधिष्ठाय
संसारिणां भवाध्वभ्रमणश्रान्तानां विश्रमार्थम्,
१७