मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 166, कुल 448 में से
संदर्भ में पढ़ें१३६ मृगेन्द्रतन्त्रे । [ १५
अनेनानुमितिः शिष्ट-
हेतोः स्थूलधियामपि ॥ ५ ॥
अशरीरिणां तावद्दुरुर्भिः शक्तिपातस्य दुर्ल-
क्ष्यत्वाच्छरीरवतां येषां पारमेश्वरी शक्तिरपुने-
राविर्भावाय पतति, तेषां तत्पाते मुक्त्युत्कण्ठा,
संसारद्वेषः, परमेश्वरभक्तिपरेषु भक्तिः, तच्छा-
सके शास्त्रे श्रद्धा चेति लिङ्गं चिह्नम् । अनेनैव
चिह्नेनाप्रकर्षवता अवशिष्टस्य संसारस्थितिहेतोः
पाशजालस्यासूक्ष्मबुद्धीनामप्यनुमानम् । पूर्वो-
क्तानां चिह्नानामेव मन्दत्वे सति पशोः पाश-
शैथिल्यमान्द्यं मन्दमतयोऽप्यनुमिन्वन्ति इति
भावः ॥ ५ ॥
ननु किमनेनात्यन्तापूर्वेण शक्तिपातनिश्च-
येन, सकलदर्शनप्रसिद्धं तावदिदं कैवल्यप्रा-
प्तिकारणं लिङ्गत्वेन किं न निश्चीयते । यदुक्तं
‘न हृष्यत्युपकारेण नापकारेण कुप्यति ।
यः समः सर्वभूतेषु जीवन्मुक्त