मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 165, कुल 448 में से
संदर्भ में पढ़ेंश्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १३५
स्थितौ याननुगृह्णाति
गुरुमास्थाय चिद्गतः ॥ ३ ॥
गुर्वधिकरणः परमेश्वरः स्थितिकाले चिद्गत
इति तदनुध्यानवशात्परापरनिःश्रेयसविषयया
प्रशस्तया चिता युक्तान्यानणूननुगृह्णाति, ते म-
न्दतीव्रादिशक्तिसंपातवैलक्षण्यात्पञ्चाष्टकादिरु-
द्राणां, सप्तकोटिसंख्यातानां मन्त्राणां, तत्प-
तीनां च विद्येश्वराणामीशानस्य चेश्वरसदा-
शिवान्तलक्षणस्य संबन्धि पदं भजन्त इति
तत्पदभाजस्तत्सालोक्यादिपदयोगिनो भव-
न्तीत्यर्थः ॥ ३ ॥
ननु शक्तिपातविशेषात्तत्तत्पदभाक्त्वं चेत्तर्हि
तद्विशेषः कथं ज्ञेयः इत्याह
येषां शरीरिणां शक्तिः
पतत्यपि निवृत्तये ।
तेषां तल्लिङ्गमौत्सुक्यं
मुक्तौ द्वेषो भवस्थितौ ॥ ४ ॥
भक्तिश्च शिवभक्तेषु
श्रद्धा तच्छासके विधौ ।