मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 153, कुल 448 में से
संदर्भ में पढ़ेंश्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १२३
अधिकारमलांशावशेषात्किंचिदनवाप्तपरमे-
श्वरसाम्या इत्यस्यैते प्रेर्याः ॥ ४ ॥
अथैषामष्टानमपि सर्वज्ञत्वसर्वकर्तृत्वसंभ-
वात्किंस्विद्भिन्नरूपत्वमुत कश्चिद्विशेष इत्याह
सर्वज्ञत्वादियोगेऽपि
नियोज्यत्वं मलांशतः ।
परस्परं विशिष्यन्ते
मन्त्राश्चैवमधःस्थिताः ॥ ५ ॥
यद्यपि सर्वे सर्वार्थदृक्क्रियाः, तथाप्येकैकस्य
स्वस्वाधोवर्तिनो नियोज्या इति प्रेर्यतालक्षण-
मलांशावशेषादधोवस्थितानामेषामूर्ध्वस्थमवे-
क्ष्य कलया कर्तृत्वस्य न्यूनत्वमिति परस्पर-
विशेषः । तदुक्तं
‘यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्वमिष्यते।’
( मा० वि० २।६० )
इति । न केवलमेत एव विशिष्यन्ते या-
वत्तदधोवर्तिनो मन्त्रा अप्येवमेव परस्पर-
विशेषभाजः ॥ ५ ॥