सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १११
नन्वस्य स्थितिजन्मादेः कार्यस्याविनाभाव-
लक्षणसंबन्धो यदि कदाचिज्जगत्कर्त्रा सह
केनचिदपि गृहीतः स्यात्तदैतदनुमानं सिध्येत्
संबन्धस्यैव तु अग्रहणात् कथं नास्य बाधेति
यदि कस्यचिन्मतं स्यात्, तदिदमप्यसौ प्रत्यनु-
योज्य इत्याह
सा परस्यापि धूमोऽन्यो
गिरौ माहानसायतः ।
सैषा बाधा सर्वस्याप्यनुमानवादिनः प्र-
सक्ता । तथाहि महानसादिगतानां विशिष्ट-
देशकालाकाराणामेव धूमाग्निव्यक्तीनां संबन्ध-
ग्रहणे धूममात्राच्च पर्वतादौ वह्निमात्रानुमा-
नमित्यगृहीतसंबन्धैव धूमव्यक्तिः कथं तथा-
विधवह्निव्यक्तिं गमयेदिति संबन्धग्रहपर्यनु-
योगः समानः । ततश्च
'यत्र स्यादुभयोर्दोषः परिहारश्च वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविनिश्चये ॥'
इति नैतदस्माकमेव चोद्यम् । अथ धूममात्र-
स्यैव वह्निमात्राविनाभावलक्षणः संबन्धो गृ-
हीतः, तदिहापि कार्यमात्रात् कर्तृमात्रानुमान-

मदुष्टम्। अन्यथा सर्वानुमानोच्छेद एव स्यात्।
तदुक्तं
'साध्यसाधनसामान्येनाविनाभावनिश्चयात् ।
प्रवृत्तिरनुमानस्य तद्भावस्तदन्यथा ॥'
इति । इत्थं च विचित्रतत्तत्कर्माशयाधिवा-
सितभोक्तृभोगतत्साधनतदुपादानादिविशेषज्ञः
कर्ता अनुमानान्तरेणानुमीयत इति न कश्चि-
द्दोषः । तदिदमुक्तं तत्रभवद्बृहस्पतिपादैः
'भवभोक्तृभोगसाधनतदुपादानादि यो विजानाति ।
तमृते भवेन्नहीदं पुंस्कर्माशयविपाकज्ञम् ॥'
इति ॥
अस्तु तर्हि ईश्वरः कर्ता, सतु न तावद्-
शरीरः प्रत्येतव्यः
'कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् ।'
इत्यादिना देहविरहिणः कर्तृत्वायोगास्योक्त-
त्वात् । तथाहि
लोके वपुष्मतो दृष्टं
कृत्यं
घटपटादि कार्यं शरीरवतैव क्रियमाणं दृष्टं
नाशरीरेणेति ॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ११३
किंचातः
सोऽप्यस्मदादिवत् ॥ ७ ॥
एवं च सति अस्मदादिवत्क्लेशादियुक्तोऽस-
र्वज्ञः परिमितशक्तिर्देशाद्यवच्छिन्नः सोऽपीश्वरः
शरीरित्वात्प्राप्नोतीति पूर्वः पक्षः ॥ ७ ॥
सिद्धान्तस्तु
मूलाद्यसंभवाच्छाक्तं
वपुर्नो तादृशं प्रभोः ।
अशरीरस्यापि तावत् स्वदेहस्पन्दादौ क-
र्तृत्वं दृष्टमिति । 'कार्यं शरीरयुक्तेन कर्त्रा व्या-
प्तम्' इत्युक्तमभ्युपगम्यापि ब्रूमः शरीरवत्त्वेऽपि
भगवतो न प्रागुक्तदोषप्रसङ्गः । कुत इत्याह
मूलाद्यसंभवादिति मूलं मलः सर्वानर्थमूल-
त्वात्, अविद्यावृतिरुग्ग्लानिपापमूलक्षयादिभिः
पर्यायैर्वक्ष्यमाणत्वाच्च, आदिग्रहणात्कर्माणि
रोधशक्तिश्च, तदसंभवात् । नहि परमेश्वरस्य
मलकर्मादि पाशजालं संभवति यन्निमित्तं प्रा-
कृतं वपुः कल्प्यते, अपितु शाक्तमिति शक्ति-
स्वरूपैः सद्योजातादिभिः पञ्चभिर्मन्त्रैः स्वेच्छा-
१५

११४ मृगेन्द्रतन्त्रे। [ ११३
विनिर्मितमपरिमितसामर्थ्यमदिग्देशकालाका-
रव्यवच्छिन्नमनुपममहिम तच्छरीरं, नत्वस्म-
दादिशरीरसदृशम्॥
अत एव हि
तद्वपुः पञ्चभिर्मन्त्रैः
पञ्चकृत्योपयोगिभिः॥ ८॥
ईशतत्पुरुषाघोर-
वामाजैर्मस्तकादिकम्।
यथाक्रममनुग्रहतिरोभावादानरक्षणोत्पत्ति-
लक्षणकृत्यपञ्चकेऽवश्यमुपयोगो येषां तैरीशा-
नादिभिः पञ्चभिर्मन्त्रैस्तत् मूर्धादि वपुः ‘देव-
स्योच्यते’ इत्यध्याहारः। वरैः पुष्णाति ध्यायिनः
इति वपुःशब्दस्यान्वर्थता, भक्तानुग्रहणाय त-
त्तदाकारग्रहणस्यागमेषूपदिष्टत्वात्। तथाचोक्तं
श्रीमत्पौष्करे
‘साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम्।’
इति॥

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ११५
अथ कथं भगवत ईशानमूर्धत्वमित्याह
ईष्टे येन जगत्सर्वं
गुणेनोपरिवर्तिना ॥ ९ ॥
स मूर्धसमदेशत्वा-
न्मूर्धा नावयवस्तनोः ।
येन गुणेन मन्त्रेण सर्वस्रोतोऽनुस्रोतसा-
मूर्ध्वस्थितत्वात् सर्वानुग्रहहेतुत्वाद्वा उपरिव-
र्तिना जगच्चिदचिदात्मकं विश्वमीष्टे, स उत्त-
माङ्गवत्सर्वोर्ध्वस्थितत्वान्मूर्धेव मूर्धा, न परमा-
र्थतो देहावयवः ॥
तत्पुरुषवक्त्रं व्याचष्टे
तस्य तस्य तनुर्या पू-
स्तस्यामुषति येन सः ॥ १० ॥
तत्राणाद्व्यञ्जनाच्चापि
स तत्पुरुषवक्त्रकः ।
तस्य तस्य अमरनरादेर्या पूः पुरी तनु-
स्तस्यां पुरि यजमानस्वरूपेणाधिष्ठानभावेनो-
षितस्तत्पुरुषः । तदुक्तं

११६ मृगेन्द्रतन्त्रे । [ १।३
'स्वात्मैवायं वसति सकलप्राणिनामीश्वरोऽन्तः ।'
(ई० सि० ५६)
इति । तत्पुरुष इति यस्माद्व्यनक्ति ज्ञानक्रिये,
त्रायते जन्मादिभयात्ततस्तत्पुरुषवक्त्रः
'व्यञ्जनत्राणरूपत्वाद्वक्त्रमित्यभिधीयते ।'
इति श्रुतेः ॥
अघोरहृदयत्वं वक्तुमाह
हृदयं बोधपर्यायः
सोऽस्य घोरः शिवो यतः ॥ ११ ॥
परिग्रहस्य घोरत्वा-
द्घोरोक्तिरुपचारतः ।
हृदयमाशयो बोध इति पर्यायः । शिवो
बोधो यस्माद्भगवतस्तस्मादघोरहृदयः । ननु
घोरमश्रेयोरूपं यदुच्यते तद्घोररूपता कथं
देवस्येत्याह परिग्रहस्य घोरत्वादिति । येयं पर-
मेश्वरस्य घोररूपोक्तिः सा न वास्तवी, किंतु
परिग्रहस्य स्वशक्त्युत्तेजितसामर्थ्यस्याशुद्धाध्वा-

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ११७
धिकारिनिकुरम्बस्य घोरत्वाद्घोरशक्तिरेव उप-
चारादुच्यते । तथाचोक्तं
‘विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् ।
रुद्राणून्याः समालिङ्ग्य घोरतर्योऽपरास्तु ताः ॥’
( मा० वि० ३।३१ )
इति ॥
वामदेवगुह्यत्वमभिधत्ते
वामस्त्रिवर्गवामत्वा-
द्रहस्यश्च स्वभावतः ॥ १२ ॥
वामं धाम परं गुह्यं
यस्यासौ वामगुह्यकः ।
धर्मार्थकामलक्षणेन त्रिवर्गेण प्रलोभ्य व-
मति अधो निक्षिपतीति वामः। स्वभावेन रह-
स्यो गुह्यो भावः कथ्यते । इत्थं पृथगनयोः
पदयोरर्थं प्रदर्श्य विग्रहं करोति वामं धामेति ।
दिवेर्धातोर्द्युत्यर्थत्वाद्देवशब्देन तेजोऽभिमतम् ।
तेन वाममधस्तनेऽध्वनि वमनशीलं यत्तेज-
स्तद्गुह्यमप्रकटमस्येति वामदेवगुह्यः परमेश्वरः॥

११८ मृगेन्द्रतन्त्रे । [ १३
सद्योजातमूर्तित्वं निरूपयति
सद्योऽणूनां मूर्तयः संभवन्ति
यस्येच्छातस्तेन सद्योऽभिधानः ।
सद्यो मूर्तीयोगिनां वा विधत्ते
सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः ॥
पत्युरिच्छया हि कर्मप्रक्षयाय क्षिप्रमेवा-
त्मनां तास्ता मूर्तयो जाता इति सद्योजात-
मूर्तिर्देवः । यद्वक्ष्यति दीक्षाप्रकरणे
'सद्येन जनयेत्सद्यो नानानिष्पन्नविग्रहम् ।'
इति । यद्वा योगिनां तत्तत्समाधिभाजां सद्य-
स्तत्क्षणं मूर्तीर्विधत्ते प्रोक्तवन्मन्त्रमयस्वमूर्तिस-
दृशीं तनुं संपादयतीति अचिरात्स्वसमताभि-
व्यञ्जकत्वात्सद्योमूर्तित्वं, नतु शीघ्रसंजातस्व-
देहत्वादित्यर्थः ॥ १३ ॥
एतदेव द्रढयति
इत्थं शक्तिः कुर्वती देहकृत्यं
देहाभावादुच्यते देहशब्दैः ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ११९
तस्या भेदा येऽपि वामादयः स्यु-
स्तेऽपि प्रोक्ताः कृत्यभेदेन सद्भिः॥
परमार्थतः परमेश्वरस्याशरीरत्वाच्छक्तिरेव
देहकार्यं कुर्वती देहाख्ययोक्ता । तस्याश्चैकस्या
अपि कृत्यभेदाद्वामादिभेदभिन्नत्वम् । यथा व-
ह्निशक्तेर्दाह्यप्रकाश्यर्थविषये दाहप्रकाशप्रकर-
णाद्गौणमनेकत्वं वस्तुत एकत्वात्तस्याः ॥ १४ ॥
इति श्रीमद्विद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ तृतीयं प्रकरणम् ॥ ३ ॥

अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
(चतुर्थः पटलः)
तदेवमन्वयव्यतिरेकाभ्यां पतिपदार्थं प्र-
साध्य, तत्स्वरूपनिरूपणाय मूलसूत्रोपक्रान्तं
सर्वकृत्पदं तावत्प्रपञ्चयितुं पटलान्तरमारभते ।
तस्य चानन्तरपटलान्तसूचितकृत्यनिरूपणार्थ-
त्वाद्विद्यापादाख्यप्रकरणानुषङ्गाच्च पाटलिकप्रा-
करणिकौ संबन्धौ ज्ञेयौ । पदार्थादिसंबन्धास्तु
प्राग्वदनुसन्धेयाः ।
स इत्थंविग्रहोऽनेन
करणेनाहतौजसा ।
करोति सर्वदा कृत्यं
यदा यदुपपद्यते ॥ १ ॥
इत्थमित्यनेनोक्तप्रकारेण मन्त्रात्मको वि-

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १२१
ग्रहो यस्य स भगवानित्थंविग्रहः । अनेनेति
'करणं च न शक्त्यन्यत्..................' ( १।३।४)
इति प्रागुक्तेनात्मना अप्रतिहतसामर्थ्येन क-
रणेन स्थित्यादि कार्यजातं सर्वकालं सर्वं निर्व-
र्तयति । न परं युगपत्करोति, यावद्यदा यदुपप-
द्यते, तत्तदा करोति क्रमेणापि सर्वं कार्यं क-
रोतीत्यर्थः । तदुक्तं प्राक्
'क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् ।' ( १।३।३ )
इति ॥ १ ॥
अथ प्रथमतः परमेश्वरः किं करोतीत्याह
तत्रादौ केवलाणूनां
योग्यानां कुरुतेऽष्टकम्।
वामादिशक्तिभिर्युक्तं
सप्तकोटिपरिच्छदम् ॥ २ ॥
तत्रेत्येवंस्थिते सति इत्यर्थः । एकस्या एव
शक्तेर्वामादिकृत्यवशाद्वामादिभेदभिन्नत्वमित्यु-
क्तम् । सा च शक्तिः सर्वज्ञानक्रियारूपा शिव-
वत् सर्वाणूनां विद्यत एव, तेषां चानाद्यवि-
द्यारुद्धत्वाच्छिवानुग्रहं विना न तत्समाना
१६

१२२ मृगेन्द्रतन्त्रे । [१।४
भवतीति प्रक्षीणकार्मामायीयबन्धानां विज्ञा-
नकेवलानामञ्जनपरिपाकाद्यनुसारेण तत्पद-
योग्यानामष्टकं मन्त्रकोटिसप्तकपरिवारं वामा-
दिशक्तिनवकयुक्तं च करोति ॥ २ ॥
अन्येषामपि सप्तकोटिसंख्यातानां मन्त्रा-
णामनन्तेशादय एवाष्टावीशितार इति वक्तुमा-
रभते
तेषामनन्तः सूक्ष्मश्च
तथा चैव शिवोत्तमः ।
एकनेत्रैकरुद्रौ च
त्रिमूर्तिश्चामितद्युतिः ॥ ३ ॥
श्रीकण्ठश्च शिखण्डी च
राजराजेश्वरेश्वराः ।
राजानो लोकेशा इन्द्रादयः, तेषां राजानः
शतरुद्राः, तदीश्वराणां मण्डलिप्रभृतीनामप्येत
ईश्वराः प्रभवः विद्यामहेश्वरा इति यावत् ॥
एते च
ईषदप्राप्तयोगत्वा-
न्नियोज्याः परमेष्ठिनः ॥ ४ ॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १२३
अधिकारमलांशावशेषात्किंचिदनवाप्तपरमे-
श्वरसाम्या इत्यस्यैते प्रेर्याः ॥ ४ ॥
अथैषामष्टानमपि सर्वज्ञत्वसर्वकर्तृत्वसंभ-
वात्किंस्विद्भिन्नरूपत्वमुत कश्चिद्विशेष इत्याह
सर्वज्ञत्वादियोगेऽपि
नियोज्यत्वं मलांशतः ।
परस्परं विशिष्यन्ते
मन्त्राश्चैवमधःस्थिताः ॥ ५ ॥
यद्यपि सर्वे सर्वार्थदृक्क्रियाः, तथाप्येकैकस्य
स्वस्वाधोवर्तिनो नियोज्या इति प्रेर्यतालक्षण-
मलांशावशेषादधोवस्थितानामेषामूर्ध्वस्थमवे-
क्ष्य कलया कर्तृत्वस्य न्यूनत्वमिति परस्पर-
विशेषः । तदुक्तं
‘यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्वमिष्यते।’
( मा० वि० २।६० )
इति । न केवलमेत एव विशिष्यन्ते या-
वत्तदधोवर्तिनो मन्त्रा अप्येवमेव परस्पर-
विशेषभाजः ॥ ५ ॥

१२४ मृगेन्द्रतन्त्रे । [ १४
तानेव मन्त्रान्विशिनष्टि
ते च मन्त्रेश्वरव्यक्त-
शिवशक्तिप्रचोदिताः ।
कुर्वन्त्यनुग्रहं पुंसां
यदा येषां स युज्यते ॥ ६ ॥
ते च मन्त्राः परापरमन्त्रेश्वरव्यक्तया शिव-
शक्त्या व्यापारिता योग्यतानुरूप्येण कदाचि-
त्केषांचिदनुग्रहं कुर्वन्ति, नतु योग्यतानपेक्ष-
मतिप्रसङ्गात् ॥ ६ ॥
प्रयोक्तृदेहसापेक्षं
तदर्धमखिलेऽध्वनि ।
कृत्वाधिकारं स्थित्यन्ते
शिवं विशति सेश्वरम् ॥ ७ ॥
तेषां सप्तकोटिसंख्यातानां मन्त्राणामर्धं
प्रयोक्तृणामनुग्रहीतॄणां देहं शरीरमाश्रयत्वेना-
पेक्षमाणमीश्वरमपेक्षत इति तत्सापेक्षमाचा-
र्याधिकरणेश्वरापेक्षमखिले मायीयेऽध्वनि स्वम-
धिकारमनुग्राह्यानुग्रहलक्षणं निर्वर्त्य, स्थिति-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १२५
कालस्यान्ते मायीयस्याध्वनोऽप्युपरमसमये,
सेश्वरमिति मन्त्रेश्वरैः सहितं शिवसायुज्यं
गच्छति ॥ ७ ॥
अपरस्यार्धस्य का वार्तेत्याह
विनाधिकरणेनान्य-
त्प्रधानविकृतेरधः ।
कृत्वाधिकारमीशेष्ट-
मपैति स्वाध्वसंहतौ ॥ ८ ॥
अन्यदपरमर्धमीशेष्टमिति यत्र यत्र परमे-
श्वरस्यानुग्रहेच्छा तत्र तत्र तदिच्छयैव, वि-
नाधिकरणेनेत्याचार्यलक्षणमधिकरणमनपेक्ष्यैव
प्रधाना चासौ विकृतिश्चेति प्रधानविकृतिः
शुद्धविद्या, अस्या अधः सर्वत्र मायीये चाध्वनि
स्वमधिकारं कृत्वा स्वस्याध्वनोऽनुग्रहमार्गस्य सं-
हृतौ समाप्तौ अपैति अपवृज्यते । तदुक्तं
तत्रभवद्भिः सद्योज्योतिःपादैः
'जगति कृते तत्रार्थं मन्त्राणां शिवसमाहृतान्पुंसः ।
अनुगृह्य याति हि विना दैशिकमूर्तिं प्रयुक्तमीशेन ॥'
( तत्त्वसं० ३३ )
इति ॥ ८ ॥

१२६ मृगेन्द्रतन्त्रे । [ २।४
इत्थं मन्त्रानुक्त्वा मन्त्रेश्वरान्वक्तुमाह
ततोऽनन्ताद्यभिव्यक्तः
पतीनां ग्रन्थितत्त्वतः ।
कलाद्यारब्धदेहानां
करोत्यष्टादशं शतम् ॥ ९ ॥
'तच्च सात्मकमाक्रम्य विश्वमायावतिष्ठते ।'
इति अन्तर्विश्रान्ताणुसंघातं मायातत्त्वं
वक्ष्यमाणं, तस्माद्ग्रन्थितत्त्वतस्तद्गर्भाधिकारिणां
कलाद्यारब्धशरीराणां मण्डल्यादीनां पतीनाम-
ष्टादशाधिकं शतमनन्तेशाद्यभिव्यक्तः पर-
मेश्वरः करोति कलाद्यारब्धदेहत्वमेषां करो-
तीत्यर्थः । ननु च
'अष्टादशाधिकं चान्यच्छतं मायाधिकारिणाम् ।
विद्येश्वराणाम् .................... ॥'
इत्यादिना साक्षात्परमेश्वरानुगृहीतत्वमेषामु-
क्

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १२७
मेश्वरस्य
'शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः ।'
इति श्रुतेः । स तु कलादियोगिनो भोगभु-
जस्तान् साक्षादनुगृह्णातीति न कश्चिद्दोषः ॥९॥
तेऽप्यन्येषां विनियोक्तार इत्याह
तानप्याविश्य भगवा-
न्साञ्जनान् भुवनाधिपान् ।
येभ्यः सर्वमिदं येषां
शक्तिः कर्मनिबन्धना ॥ १० ॥
तानपि मण्डलिप्रभृतीन्नष्टावधिष्ठाय स
परमेश्वरोऽन्यानपि ब्रह्मप्रभृतीन् समलान्भु-
वनेशानुत्तेजितदृक्क्रियाशक्तीन् करोतीति पूर्वे-
णैव संबन्धः । किंविधानित्याह—येभ्यः सर्व-
मिदं जगत्स्थावरजङ्गमलक्षणमाविर्भवतीति
शेषः । येषां शक्तिः कर्मनिबन्धना कर्मपाशो
येषामुपरोधकत्वान्न निवृत्तः, सकलानामेवैषां
परमेश्वरादनुग्रहो यतः ॥ १० ॥

१२८ मृगेन्द्रतन्त्रे । [ १४ .
न परमेतानेव करोति, यावत्
प्रणेतॄन्पशुशास्त्राणां
पशूंस्तदनुवर्तकान् ।
स्वसाध्यकारकोपेता-
न्कालधामावधिस्थितान् ॥ ११॥
पशुशास्त्राणामार्हतसांख्यपाञ्चरात्रादीनां
प्रणेतॄनर्हत्कपिलप्रभृतींस्तदनुष्ठातॄंश्च पशून् स्व-
साध्येन तत्तच्छास्त्रोपदिष्टेन फलेन तत्साधन-
हेतुभिः कारकैश्च युक्तान् कालाग्निभुवनान्तं
यावत्करोतीति पूर्वेणैव संबन्धः ॥ ११ ॥
अथैतान्सृष्ट्वा देवः किं करोतीत्याह
स्थितौ सकारकानेता-
न्समाक्रम्य स्वतेजसा ।
युनक्ति स्वार्थसिद्ध्यर्थं
भूतैरनभिलक्षितः ॥ १२ ॥
एतान् कारकैर्भोगसाधनैस्तत्त्वभावभुवना-
दिभिर्युक्तान्, स्वतेजसा निजेच्छाशक्त्या, सम्य-
गधिष्ठाय स्वार्थसिद्ध्यर्थमित्यात्मीयस्य व्यापा-

पा. ३] श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १३९
रस्य संपत्तये, यद्वा स्वैरात्मभिरर्थ्यत इत्यर्थो
भोगापवर्गलक्षणः पुरुषार्थः तस्य निष्पत्त्यर्थं,
नियोजयति, नतून्मत्तवत्, नाप्यप्रयोजनं
प्रयोजनानुद्देशेन मन्दस्याप्यप्रवृत्तेः, नच क्री-
डार्थं रागादिविरहिणस्तदसंभवात्, नाप्यात्म-
निमित्तं परिपूर्णत्वात् । भूतैः प्राणिभिरविद्याव-
शादविदिततद्दृक्रियः ॥ १२ ॥
तदियता सृष्टिस्थिती उक्त्वा संहारं वक्तुमाह
भोगसाधनमाक्षिप्य
कृत्वा कारणसंश्रयम् ।
तच्च सात्मकमाक्रम्य
विश्रामायावतिष्ठते ॥ १३ ॥
भविनां भवखिन्नानां
सर्वभूतहितो यतः ।
स्थित्यन्ते भोगसाधनं तनुकरणभुवनादि
उपसंहृत्य, कारणे मायाख्ये लीनं कृत्वा, तच्च
मायाख्यं कारणमन्तर्निहितात्मव्रातमधिष्ठाय
संसारिणां भवाध्वभ्रमणश्रान्तानां विश्रमार्थम्,
१७

१३० मृगेन्द्रतन्त्रे । [१४
वतिष्ठते निरुद्धव्यापारांस्तांस्तान्करोतीत्यर्थः ।
कुत इत्याह सर्वभूतहितो यतः, यस्मात् सर्वेषां
भूतानां हिताय प्रवृत्तः परमेश्वरः खेदापनोदाय
विश्रान्तिं स्वापलक्षणामेषां करोति ॥
ततस्तु
स्वापावसानमासाद्य
पुनः प्राग्वत्प्रवर्तते ॥ १४ ॥
वक्ष्यमाणकालपरिमाणस्य स्वापस्यान्ते भूयः
पूर्ववदहर्मुखे परमेश्वरश्चेष्टते ॥ १४ ॥
तत्स्वापेऽपि क्रियादिशक्तयस्तत्तत्कार्यनिष्पा-
दनोद्युक्ता भवन्तीत्याह
स्वापेऽप्यास्ते बोधयन्बोधयोग्यान्
रोध्यान्रुन्धन्पाचयन्कर्मिकर्म ।
मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन्
पश्यन्सर्वं यद्यथा वस्तुजातम् ॥१५
जाग्रदवस्थायामिव स्वापावस्थायामपि म-
लपरिपाकतारतम्यापेक्षया बोधनार्हान् बोध-
यन्, रोधनार्हान् रोधनशक्त्या रुन्धन्, कर्मिणां