सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

शक्तिलक्षणम्
शक्तीनां चित्र(ङ्क)वर्णादिलक्षणं वक्ष्यतेऽधुना ।
सरस्वती च सावित्री लक्ष्मीश्च मही तथा ॥ १ ॥
मनोन्म(न उन्मादि)नी सप्तमातृश्च दुर्गा चैव यथाक्रमम् ।
पूर्वोक्तद्रव्यसर्वैर्वा(र्वैश्च) सर्वशक्ति प्रकारयेत् ॥ २ ॥ 4
पद्मापीठेोपरि स्थाप्य(पयित्वा) देवीं पद्मासनासनाम् ।
शुद्धस्फटिकसंकाशं मुक्ताभरणभूषशाम् ॥ ३ ॥
चतुर्बाहुं द्विनेत्रं(त्रां) च केशबन्धं(न्धां) च मौलिनीम् ।
शुद्धश्वेताङ्गुलोपेतां ग्राहकुण्डलभूषणाम् ॥ ४ ॥ 8
ललाटे भ्रमरकं स्यान्मौक्तिका(क)पट्टमेव वा ।
कर्णपुष्पैश्च मौक्त्येन कर्णदामै(मभि)रलंकृतम् ॥ ५ ॥
हारोपग्रीवसंयुक्तं(क्तां) मुक्कारत्नावळी(ळीं) तथा ।
कुचबन्धनसंयुक्ता बाहुमालाविभूषणी ॥ ६ ॥ 12
केयूरकटकैर्युक्तं(क्तां) प्रकोष्ठवलयं(यां) तथा ।
मणिबन्धकटकं(कां) वा मौक्तिका(क)पौर(पूर)मेव च ॥ ७ ॥
मध्याङ्गुष्ठं विना सर्वे मौलिक(मूलतो) रत्नाङ्गुलीयकैः ।
नीवीं च लम्बनं चैव मौक्तिका(क)पट्ट्युक्तिका ॥ ८ ॥ 16
पादजालां भुजङ्गानां गुल्फस्योपरि भूषणीम् ।
पादनूपुरसंयुक्तं(क्तां) पादरत्नाङ्गुलीयकैः ॥ ६ ॥
मौक्तिकोत्तरीयसंयुक्तां सर्वालङ्कारभूष(णी)म् ।
पुरतः सव्य(व्ये) संदर्श पुस्तकं वामहस्तके ॥ १० ॥ 20
दक्षिणे परहस्ते तु चाक्षमालावधारिणीम् ।
कुण्डिका वामहस्तै(स्ते) च धारयेत्तु सरस्वती ॥ ११ ॥
अथवा द्विभुजं कुर्यात्कुन्तलं मकुटं भवेत् ।
दक्षिाणं वरदं हस्तं वामहस्ते च पद्मकम् ॥ १२ ॥ 24

३५६ मानमारे [अध्यायः करण्डमकुटं वापि हेमवर्णाङ्गशोभितम् ।
पीताम्बरं यथारत्नं मुक्ताभरणमेव च ॥ १३ ॥ कर्णयोः स्वर्णताटङ्कं सूत्रयुक्तं (क्त) सुमङ्गलाम् ।
द्विनेत्रीं प्रसन्नवदनां सर्वाभरणभूषणीम् ॥ १४ ॥ 28 पितामहस्य पार्श्वे तु स्थानकं चासनं तु वा ।
वामभागे तु सावित्रीं श्वेतरक्त(क्ता) मथापि वा ॥ १५ ॥ श्यामाङ्गवर्णमेवं वा द्विभुजं च द्विनेत्रकम् ।
स्थानकं चासनं वापि करण्डमकुटान्वितम् ॥ १६ ॥ 32 अथवा केशबन्धं वा कर्णौ मकरकुण्डलम् ।
दुकूलाम्बरधरं वापि पीताम्बरमथापि वा ॥ १७ ॥ सर्वाभरणसंयुक्तां वरदं वामहस्तके ।
दक्षिणे चोत्पलं कुर्याच्छेषं प्रागुक्तवन्नयेत् ॥ १८ ॥ 36 सरस्वतीं च सावित्रीं दशतालेन कारयेत् ।
रक्ताब्जं पीठतश्चोर्ध्वे देवी पद्मासना भवेत् ॥ १९ ॥ चतुर्भुजं त्रिनेत्रं च मकुटं कुन्तलं भवेत् ।
प्रसन्नवदनां देवीं शुद्धकाञ्चनसन्निभाम् ॥ २० ॥ 40 पीताम्बरधरां रक्तां [मं] शुकपेताम् (भरथीम्) ।
विशालाक्षमयतं कुर्यादपाङ्गकोणे सिताननाम् ॥ २१ ॥ दक्षिणे त्वभयं पूर्वं दिण्डिमं वामहस्तके ।
अपरे दक्षिणे पद्मं चाक्षमाला मथापि वा ॥ २२ ॥ 44 वामे नीलोत्पलं वापि रक्तपद्मो (द्ममु) द्धृतं तु वा ।
पीनोन्नतस्तनतटां फाले भ्रमरकान्विताम् ॥ २३ ॥ अथवा रत्नपट्टं स्यात्स्वर्णताटङ्कं कर्णयोः ।
मकरं कुण्डलं वापि कर्णयोः स्वर्णदामयुक् ॥ २४ ॥ 48 हारोपग्रीवसंयुक्तां ससुत्रैश्च सुमङ्गलीम् ।
कुचपटैश्च केकै (रत्नै)श्च हेमपट्टविभूषिणीम् ॥ २५ ॥ रत्नानि चन्द्र (छन्न) वीरं स्यात्स्वर्णरत्नोत्तरीययुक् ।
`` केयूरकटकस्वर्णरत्नपूरिमसंयुत(ता)म् ॥ २६ ॥ 52

५४] शक्तिलक्षणम् ३५७
प्रकोष्ठवलयं रत्नैः कटकं मणिबन्धकैः ।
रत्नेन कटिसूत्रं स्याद्रत्नदामादिभूषितीम् ॥ २७ ॥
रत्नहेमं(म्ना) च वस्त्रेण कुर्यान्नीव्यं च लम्बयेत् ।
नलकान्तं द्वि(त्रि)लम्बं स्यात्सर्वरत्नानि(न्न)शोभिताम् ॥ २८ ॥ 56
भुजङ्गाङ्गवलयं पादौ(द्वयोश्चो)र्ध्वाधो रत्नबन्धनम् ।
पादनूपुरसंयुक्तामङ्गुलीरङ्गुलीयक(का)म् ॥ २६ ॥
बाहुमूलादि संभूष्य सर्वाभरणभूषितीम् ।
अथवा द्विभुजं चैव वामहस्ते च सन्धिमत्(डिण्डिमम्) ॥ ३० ॥ 60
दक्षिणे रत्नपद्मं स्याच्छेषं प्रागुक्तवन्नयेत् ।
एवं प्रोक्तं(क्तां) महालक्ष्मीं स्थापयेत्सर्वहर्म्यके ॥ ३१ ॥
सामान्यं(न्यां) लक्ष्मीं कुर्याद् द्विभुजं(जां) च द्विनेत्रके(काम्) ।
रक्तपद्मोद्धृतं(तौ) हस्तौ सर्वाभरणभूषितीम् ॥ ३२ ॥ 64
शेषं तु पूर्ववत्कुर्याद् देवों(वी)पार्श्वे विशेषतः ।
ऐरावतद्वयोश(यं) चैव कुर्यादाराद(ध)येत्सुधीः ॥ ३३ ॥
सर्वास(र्वेषा)मालये द्वारे मध्यरङ्गे तु पूजयेत् ।
अथवा विष्णुपार्श्वे तु लक्ष्मीलक्षणमुच्यते ॥ ३४ ॥ 68
द्विभुजां च द्विनेत्रां च करण्डमकुटान्विताम् ।
अथवा केशबन्धं स्याद्वामहस्तोद्धृताब्जकम् ॥ ३५ ॥
दक्षिणं हस्तं वरदं च अ(चा)थवा लम्बनं भवेत् ।
स्थानकं चासनं वापि स्थापयेद् विष्णुदक्षिणे ॥ ३६ ॥ 72
कुर्यात्तु सर्वलक्ष्मीनां मध्यमं(म)दशतालके ।
सर्वाभरणसंयुक्तां हेमवर्णाङ्गशोभिताम् ॥ ३७ ॥
एतेषाम्(एषाः) इ(चे)न्दिराः प्रोक्ताः(क्तास्तु) महि(ही)शक्तिमि(रि)होच्यते ।
द्विभुजं(जां) च द्विनेत्रं(त्रां) च करण्डमकुटान्वित(ता)म् ॥ ३८ ॥ 76
दुकूलवसनोपेतां मकुटं कुन्तलं तु वा ।
स्थानकं चासनं वापि विष्णुमूर्त्या(तैर)पसव्यके ॥ ३६॥
दक्षिणे चोत्पलं धृत्वा वामभागं तु लम्बनम् ।
अथवा वरदं वामे श्यामवर्णाङ्गशोभिताम् ॥ ४० ॥ 80

३५८ मानसांरे [अध्यायः
मानयेद् दशतालेन सर्वं शेषं तु पूर्ववत् ।
मकरकुण्डलसंयुक्तां सर्वाभरणभूषितीम् ॥ ४१ ॥
भूशक्तिलक्षणं प्रोक्तं गौरीलक्षणमुच्यते ।
द्विभुजं(जां) च द्विनेत्रं(त्रां) च कुर्यादासनं(ने) स्थानकं(के) तु वा ॥ ४२ ॥ 84
करण्डं केशबन्धं वा कुन्तलं मकुटं भवेत् ।
दक्षिणे चोत्पलं वामे वरदं स्थानमेव वा ॥ ४३ ॥
अथवा लम्बहस्तं स्याद् गोवालाकारवद् भवेत् ।
दुकूलवसनोपेतां पीताम्बरधरामेव वा ॥ ४४ ॥ 88
दीर्घबाहुं विशालाक्षीं श्यामवर्णां महोदराम् ।
सानतटोत्तुङ्ग(ङ्गां) विस्तीर्णश्रोनि(णि)देशोद्भवा भवेत् ॥ ४५ ॥
कटि चोरु विशालं स्यान्मध्यकञ्चीनलम्बवत् ।
विशालास्य(लमास्यं) सुग्रीवं तुङ्गतुण्डं स्मिताननम् ॥ ४६ ॥ 92
चन्द्ररेखावतंसं स्याद् भ्रमरावृतमालिकम् ।
अथवा फालपट्टं स्यात्कर्णयोर्ग्राहकुण्डली ॥ ४७ ॥
कर्णपुष्पैश्च दामं(म) स्याद्धेमसूत्रं सुमह्नली ।
हारोपग्रीवसंयुक्तां बाहुमालाविभूषिणीम् ॥ ४८ ॥ 96
कटकं कटिसूत्रं स्यात्केयूरपुरिमान्वितम् ।
रक्तांशुकोत्तरीयं स्यान्मौक्तिकोत्तरीयमेव च ॥ ४९ ॥
प्रकोष्ठवलयं चैव वलयैर्मणिबन्धकैः ।
भुजङ्गकटकाङ्घ्रिकौ पादनूपुरसंयुतम् ॥ ५० ॥ 100
सर्वाङ्गुलो(ल्य)कवञ्ज्ञात्वा कुर्याद्रक्ताङ्गुलीयकैः ।
दक्षिणे कुञ्चितं पादं वामपादं तु लम्बितम् ॥ ५१ ॥
पुष्पं च वरदं स्थाने हस्तं वामेऽथ चासने ।
दक्षिणं स्वस्तिकं पादं वामादन्तकरान्तकम् ॥ ५२ ॥ 104
कुञ्चितं वामपादं स्याद् दक्षिणं कुञ्चितं तु वा ।
पुष्पधृक् लम्बहस्तं स्यात्स्थानकं च त्रिभागिकम् ॥ ५३ ॥
मानयेदङ्गमानं च मध्यमं दशतालके ।
लिङ्गस्य वामपार्श्वे तु विग्रहार्धा तु वामके ॥ ५४ ॥ 108

५४] शक्तिलक्षणम् ३५६

स्थापयेत्स्थावरे गौरीं तथा जङ्गममेव च ।
गौरीं च पार्वतीं चैव मनोमन्था(न उन्मादिनी)मथ वक्ष्यते ॥ ५५ ॥
चतुर्भुजां त्रिनेत्रां च जटामकुटमण्डिताम् ।
समपदस्थानकं(कां) देवीं दशतालेन मानयेत् ॥ ५६ ॥ 112
दक्षिणे चाभयं पूर्वे वरदं वामहस्तके ।
अपरे दक्षिणे चाब्जं वामहस्ते तु चोत्पलम् ॥ ५७ ॥
श्वेतरक्तं च वर्णं वा श्यामवर्णाङ्गशोभित(ता)म् ।
केचित्तु कुन्तलनिभं तुङ्गं मकुटं कुन्तलं तु वा ॥ ५८ ॥ 116
वामे बालशशिं(शिनं) कुर्याद्वामे तुरगा(गम)न्वितम् ।
दुकूलवसनोपेतं(तां) सर्वाभरणभूषित(ता)म् ॥ ५९ ॥
तदेव वृषमाश्रित्य पृष्ठे देवीं त्रिभागिकम् ।
दक्षिणं स्वस्तिकं पादं वामपादं च कुञ्चितम् ॥ ६० ॥ 120
पुरतो वामहस्ताग्रं(ग्रे) शिरस्यो(स ऽ)परि विन्यसेत् ।
शेषं तु पूर्व[वद्]देवीं च चोत्पलं वासनाभयम् ॥ ६१ ॥
तदेव परहस्तौ च वामे रक्ताब्जधारिणीम् ।
दक्षिणे चाक्षमाला(लां) च कुर्यात्प्रोक्तं पुरातनैः ॥ ६२ ॥ 124
एवं मनो(न ऽ)न्मनीं शक्त्या(क्तिं) स्थापयेच्छिद्वहर्म्यके ।
वाराही चैव कौमारी चामुण्डी भैरवी तथा ॥ ६३ ॥
माहेन्द्री वैष्णवी चैव ब्रह्माणी सप्तमातरः ।
एतेषां(तासां) सर्वशक्तीनां नवतालेन कारयेत् ॥ ६४ ॥ 128
भद्रपीठोपरि स्थाप्यमा(प्या चा)सने सप्तमातरः ।
शयने दक्षिणे पादान् वामपादान्प्रलम्बयेत् ॥ ६५ ॥
चतुर्भुजं(जां) त्रिनेत्रैश्च सर्वाभरणभूषिताम् ।
चामुण्डी चैव रुद्राणी तानि(सा च) शक्तिः त्रि(स्त्रि)लोचनी ॥ ६६ ॥ 132
ब्रह्माणी चैव रुद्राणी जटामकुटमण्डितौ(ते) ।
वाराही पोत्रवक्त्री स्यात् किरीटमकुटान्वित(ता)म् ॥ ६७ ॥
कौमारी करण्डमौलो च किरीटी(टिनी) वैष्णवी तथा(च) ।
चामुण्डी ज्वाल(जटा)मौली च भैरवी पिङ्गलालका[म्] ॥ ६८ ॥ 136

३६०मानमारे[अध्यायः

शूलं मरु[द्]गशं चैव पूर्वं चापरदक्षिणे ।
कपालं पूर्वहस्ते च पाशं चापरहस्तकै(के) ॥ ६६॥
एवं तु वान(ण)मुद्‌धृत्य चामुण्डी भैरवी ङ(चो)मौ(मै) । 140
चामुण्डी श्यामवर्णाभा भैरवी रक्तवर्णिनी ॥ ७० ॥
केचित्तु भैरवी पूर्वे वरदाभयहस्तकौ ।
शूलं डमरुकं चैव सव्यवामकेऽपरे [तु] ॥ ७१ ॥
रक्ताम्बरप(ध)रा पार्श्वे कुचाभौ रक्तकञ्चुलौ ।
चामुण्डी च शिरोमाला सर्वाभरणभूषिणी ॥ ७२ ॥ 144
कृष्णाम्बरधरी(रा) कृष्णालम्बकूर्चासभैरवी ।
वैष्णवी चैव वाराही श्यामवर्णा विशोभिनी ॥ ७३ ॥
चक्रं च दक्षिणे हस्ते शङ्खं वामकरेऽपरे ।
पूर्वे च वरदं वामे दक्षिणे त्वभयमुभौ ॥ ७४ ॥ 148
पीताम्बरं च संरक्तां सर्वाभरणभूषिणीम् ।
एवं तु वैष्णवी प्रोक्ता वाराही दक्षिणे हलम् ॥ ७५ ॥
वामहस्तोपरि(स्ते परे) पाशं दक्षिणेत्वथ करे ।
वरदं वामहस्ते तु सर्वाभरणभूषिणीम् ॥ ७६ ॥ 152
पीताम्बरधरं(रा) चैव कौमारी रक्तवर्णिनी ।
वरदं चाभयं पूर्वे वामे तु द्वारहस्तकौ ॥ ७७ ॥
दक्षिणे च [कपालं] स्यात् श(च्छ)क्तिं च वामहस्तकौ ।
श्यामवर्णाम्बरं(रा) चैव सर्वाभरणभूषिणीम् ॥ ७८ ॥ 156
कौमारीलक्षणं प्रोक्तं ब्रह्माणी च चतुर्मुखी ।
वरदाभयहस्तौ च कुण्डिकासाक्षमालाधृक् ॥ ७९ ॥
वामेत्ववामपूर्वे तु चा[क्षमाला] यथाक्रमम् ।
शुद्धवस्त्रा(रक्ता)म्बरयुक्तां सर्वाभरणाभूषिणीम् ॥ ८० ॥ 160
एवमुक्तं(क्ता) तथा ब्राह्मी रुद्राणी श्वेतवर्णिनी ।
वरदाभयहस्तौ च पूर्वे च वामदक्षिणे ॥ ८१ ॥
वामे च हरिणं सव्ये परशुं परहस्तके ।
चर्माम्बरधरायुक्ता सर्वाभरणभूषिणी ॥ ८२ ॥ 164

वामे तु शङ्खपत्रं स्याद्वामे कर(र्णे)कुण्डलम् ।
रुद्राणीलक्षणं प्रोक्तं चामुण्डी वामकर्णके ॥ ८३ ॥
शङ्खपत्रं च(वा)वामे तु शङ्खकुण्डलसंयुत(ता)म् ।
अन्यथा(न्यासां) सर्वशक्तीनां ग्राहकुण्डलभूषिणी(ष्या)म् ॥ ८४ ॥ 168
हारोपग्रीवसंयुक्तां केयूरकटकान्विताम् ।
मणिबन्धनवलयादिसर्वरत्नाङ्गुलीयकैः ॥ ८५ ॥
बाहुमाल्यादिसंभूष्य(ष्यां) साकं चुल्कान्विताम् ।
उक्तानां सर्वशक्तीनां सर्वाभरणभूषितैः(ष्यम्) ॥ ८६ ॥ 172
भद्रपीठोपरि देशे महिष्य(षो) हतः(त)शिरः (राः) ।
तदूर्ध्वं तारकां देवीं स्थानकां ऋजुं भावयेत् ॥ ८७ ॥
चतुर्भुजं(जां) द्विनेत्रं(त्रां) च श्यामवर्णाङ्गशोभिताम् ।
किरीटमकुटोपेतां सर्वाभरणभूषिणीम् ॥ ८८ ॥ 176
पूर्वऽभयं करे सव्ये चक्रं चापरदक्षिणे ।
ऊरुमूलाश्वितं वामवरदं वा करपूर्वकै ॥ ८९ ॥
वामे चान्यकरे शङ्खं पीताम्बरधरं भवेत् ।
एवं कात्यायनीं(नी) प्रोक्तं(क्ता) शेषं प्रागुक्तवन्नयेत् ॥ ९० ॥ 180
मूर्ध्नि च मध्ये ललाटमध्ये
नासाग्रमध्ये चन्द्रदेशनाभेः ।
ऊर्ध्वाधो(धः) पादद्वयमध्यगुल्फे
कुर्यात्तु सूत्रं तु सुखासने च ॥ ९१ ॥ 184
तदेव सूत्रं त्वथ कायदेशे
चोरुद्वयोर्मध्यमके च सूत्रम् ।
जानुद्वयोर्मध्यमपादयोस्तम्
मध्ये च सूत्रमृजुस्थानके तत् ॥ ९२ ॥ 188
भङ्गद्वये मूर्ध्नि ललाटसव्ये
नासापुटे सव्यकचचुर्मध्ये ।
नाभेञ्च सव्ये स्थितपादवामे
सूत्रं हि तिष्ठेत्तु कुरु(र्या)द्धासने च ॥ ९३ ॥ 192
इति मानधारे वास्तुशास्त्रे शक्तिलक्षणविधानं नाम चतुष्पञ्चाशदध्यायः ॥
45

सुगतजैनकादीनां लक्षणं मानपूर्वकम् ।
संक्षिप्य लक्ष्यतेऽधुना मानसारस्य संग्रहम् ॥ १ ॥
मानं चापि प्रमाणं च परिमाणं लम्बमानकम् ।
उन्मानमुपमानं च मानं पद्मं समीरितम् ॥ २ ॥
पादाङ्गुष्ठिससीमान्तं मानं चापि प्रकथ्यते ।
प्रमाणं विस्तृतं प्रोक्तं परितः परिमायकम् ॥ ३ ॥
तत्सूत्राल्लम्बमानं स्यान्निम्नमुन्मानमुच्यते ।
अन्तरे ऽ(चो)पमानं स्याद्विम्बोष्ठ्यादि सर्वशः ॥ ४ ॥
मानमेवं तु षड्भेदं मानेनाङ्गानि मानयेत् ।
आदिमानविधिं(धिः) सम्यग्लक्षणं च इ(यां तु चे) द्वोल्यते ॥ ५ ॥
हर्म्यंतारवशान्मानं गर्भगेहवशोदयम् ।
द्वारमानवशात्तुङ्गमधिष्ठानवशोदयम् ॥ ६ ॥
हस्तमानवशान्मानं तालमानवशोदयम् ।
अङ्गुलेनाभि(न तु) चोत्तु

५५] Jainalakṣaṇam / जैनलक्षणम् ३६३
हर्म्यतारं(र)नवांशेन चैकैकं बेरतुङ्गकम् ।
स्थावरं जङ्गमं चैव कन्यसादि त्रयं त्रयम् ॥ १२ ॥ 24
गर्भगृहसमं श्रेष्ठं नवांशैकांशं कन्यसम् ।
द्वारतुङ्गविशाले तु नवमानं तु पूर्ववत् ॥ १३ ॥
अधिष्ठानसमं श्रेष्ठं कन्यसान्तं नवोदयम् ।
हस्तादि नवहस्तान्तं कन्यसादि त्रयं त्रयम् ॥ १४ ॥ 28
एकतालं समारभ्य नवतालावसानकम् ।
कन्यसाद्युत्तमान्तं स्यान्नवमानोदयं परम् ॥ १५ ॥
केशान्तं नासिकामान्तं हन्वन्तं बाहुसीमकम् ।
स्तनान्तं हृद‌यान्तं च नाभ्यन्तं मेढ्रसीमकम् ॥ १६ ॥ 32
नवधा कन्यसान्तं स्यात्स्थावरं(र)जङ्गमोदयम् ।
मूलबेरवशं मानमुत्सवाद्यमीरितम् ॥ १७ ॥
मूलबेरोदयं श्रेष्ठं त्रिपादं मध्यमं भवेत् ।
तुङ्गाधं कन्यसं प्रोक्तं त्रिविधं चोत्सवोदयम् ॥ १८ ॥ 36
अथवा तेन मानेन षोडशांशं(शे) विभाजिते ।
एकैकांशकं तस्मात्पञ्चविंशांशकान्तकम् ॥ १९ ॥
कन्यसाद्युत्तमान्तं स्यान्नवमानमुत्सवोदयम् ।
अथवा मूलबेरस्य केशान्तं तु भ्रुवान्तकम् ॥ २० ॥ 40
नेत्रान्तं नासिकाग्रान्तं हन्वन्तं बाहुसीमकम् ।
स्तनान्तं हृद‌यान्तं च नाभ्यन्तं च नवोदयम् ॥ २१ ॥
कन्यसाद्युत्तमान्तं स्यान्नव तदुत्सवोदयम् ।
उत्सवे चा(त्सवस्या)र्धमानेन कौतुकोदयमीरितम् ॥ २२ ॥ 44
तन्मानं चाष्ट(नव)भागैकं नवभागावसानकम् ।
कन्यसाद्युत्तमान्तं स्यान्नवमानं कौतुकोदयम् ॥ २३ ॥
हर्म्यादि चाष्ट(नव)धा मानमायाद्यर्थांशं कारयेत् ।
यथासंग्रहमानैश्च शतभागं(गे) विभाजिते ॥ २४ ॥ 48
एकैकांशाधिकं त्रिंशच्छ्रवभागावसानकम् ।
स्थावरजङ्गमादीनां शुभायादिसंभवम् ॥ २५ ॥

२६४ मानसारे [अध्यायः
तदूर्ध्वं जात्यष्टं(त्यं)शसंयुक्तं [कुर्याद्] विधिवद् बुधः ।
मूलबेराङ्गुलं चैव मानाङ्गुलमेव वा ॥ २६ ॥ 52
मात्राङ्गुलं ततः प्रोक्तमङ्गुलं त्रिविधं भवेत् ।
चतुर्विंशच्चतुर्भागं मूलबेरोदयं भवेत् ॥ २७ ॥
मूलबेराङ्गुलं(लेन) चैव(च) मानयेदुत्सवोदयम् ।
यवताराष्टमात्रं स्यान्मानाङ्गुलमिति स्मृतम् ॥ २८ ॥ 56
कर्तुर्द्दक्षिणहस्तस्य मध्यमाङ्गुलमध्यमे ।
पर्वदीर्घं तत(त्त)न्नाहं मात्राङ्गुलमुदीरितम् ॥ २६ ॥
एवं त्रिविधमुत्कृष्टं मध्यमष्टांशहीनकम् ।
त्रिपादं कन्यसं प्रोक्तं नवभेदाङ्गुलं भवेत् ॥ ३० ॥ 60
स्थावरं जङ्गमं मानं मानाङ्गुलेन मानयेत् ।
मात्राङ्गुलेन चात्मार्थं बेरमानं प्रकल्पयेत् ॥ ३१ ॥
एकादशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ।
त्रयोविंशच्छतान्तं स्याद् देहलब्धाङ्गुलेन वा ॥ ३२ ॥ 64
नवाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
त्रयोविंशच्छतान्तं स्यान्मानाङ्गुलेन मानयेत् ॥ ३३ ॥
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
त्रयोदशशतान्तं स्यान्माना(त्रा)ङ्गुलेन मानयेत् ॥ ३४ ॥ 68
अङ्गुलानां तु सर्वेषां जात्यंशकं विवर्जयेत् ।
कुर्यादायादिखड्गवर्गमुक्तवच्छिल्पिव(ल्पवि)त्तमः ॥ ३५ ॥
स्थावरं जङ्गमं चैव लक्षणं वक्ष्यतेऽधुना ।
द्विभुजं च द्विनेत्रं च मुण्डतारं च शीर्षकम् ॥ ३६ ॥ 72
ऋजुस्थानकसंयुक्तं तथा चासनमेव च ।
समाङ्घ्रि ऋजु(ज्वा)कारं स्याल्लम्बहस्तद्वयं तथा ॥ ३७ ॥
आसनं च द्विपादौ च पद्मासनं तु संयुतम् ।
ऋजुकं च ऋजो(जु)भावं योगं तत्परमान्त(त्म)कम् ॥ ३८ ॥ 76
सव्यापसव्यहस्तं च मूलोर्ध्वोर्ध्वमुखं करौ ।
स्थानकं चासनं वापि सिंहासनेोपरि न्यसेत् ॥ ३६ ॥

५५] जैनलक्षणम् ३६५
अ(ड)परे तु निर्यूहं कुर्यान्मकरतोरणं [भवेत्] ।
तदूर्ध्वं कल्पवृक्षं (चः) स्यात्सह(ग) जेन्द्रखरैः(परैः) सह ॥ ४० ॥ 80
नारदादि(दीन्) ऋषीन्देवान्देवाङ्गनाभिः सह सेवितान् ।
यक्षविद्याधराद्यैश्च चक्रमन्यत्र भूपतिम्(तीन्) ॥ ४१ ॥
न(ना)गेन्द्रादि(दीन्) च दिक्पालान्यक्षैश्च सहसेवितान् ।
यक्षयक्षेश्वरौ पार्श्वे चामरोद्धृतसेवितान् ॥ ४२ ॥ 84
चतुस्त्रि(स्त्रिं)शान्तरि(री)क्षे तु तस्याधो जिनदेवतान् ।
स्फटिकश्वेतरक्तं च पीतश्यामनिभं तथा ॥ ४३ ॥
सिद्धादिश्च सुगन्धश्च ज(जि)नं चाह(हं) तुपार्श्वकम् ।
एतत्पञ्चपरमेष्ठी(वर्या) पञ्चवेरं यथाक्रमम् ॥ ४४ ॥ 88
उत्तमं(म)दशतालेन देवाङ्गैः सह मानयेत् ।
चतुर्विंशतितीर्थानां(न्) दशतालेन कारयेत् ॥ ४५ ॥
निराभरणसर्वाङ्गं निर्वस्त्राङ्गं मनोहरम् ।
सम(र्व)वक्षःस्थले हेमवर्णं श्रीवत्सलाव्छनम् ॥ ४६ ॥ 92
द्वारे चण्ड(ण्डं) महाचण्डं कुर्यात्सव्योपसव्यके ।
एवं तु जिनमित्युक्तं शेषमागमतो (त ड)क्तवत् ॥ ४७ ॥
इति मानमारे वास्तुशास्त्रे जैनलक्षणविधानं नाम पञ्चपञ्चाशदध्यायः ॥

बौद्धलक्षणम्
बौद्धस्य लक्षणं वक्ष्ये सम्यक् च विधिनाधुना ।
ज(जि)नदेवा(वम)स्थिरं युक्तं बौद्धस्य च विशेषतः ॥ १ ॥
स्थानकं चासनं वापि सिंहासनादिसंयुतम् ।
अश्वत्थवृक्षसंयुक्तं कल्पवृक्षं तथा न्यसेत् ॥ २ ॥
शुद्धश्वेतवर्णं स्याद् विशालाननसंयुतम् ।
लम्बकर्णा(र्णमा)यताक्षं स्यात्तुङ्गको(घो)णां स्मिताननम् ॥ ३ ॥
दीर्घबाहु विशाला(लं) च वक्षःस्थलं च सुन्दरम् ।
मांसलाङ्गं सुसम्पूर्ण लम्बोदरपूर्णाकृत ॥ ४ ॥
समपादस्थानकं कुर्याल्लम्बहस्तं सुखासनम् ।
द्विभुजं च द्विनेत्रं च चोष्णीषोज्ज्वलमौलिकम् ॥ ५ ॥
एवं तु स्थानकं कुर्यादासनादि यथाक्रमम् ।
पीताम्बरधरं कुर्यात्स्थानके चासनेऽपि च ॥ ६ ॥
पीतं वामभुजोर्ध्वे तु चार्धकं तु सदना(साधना) ।
स्थावरं जङ्गमं वापि दारु शैलं च लोहजम् ॥ ७ ॥
चित्रं वा चार्धचित्रं च चित्राभासमथापि वा ।
पट्टे वा भित्तिके वापि कुर्यान्मृत्तिकाशर्करा[भ्याम्] ॥ ८ ॥
उत्तमं(म)दशतालेन कारयेत्तदङ्गमानकम् ।
शेषं प्रागुक्तवत्कुर्यात्तत्तदागमवद् बुधः ॥ ६ ॥
इति मानसार वास्तुशास्त्रे बौद्धलक्षणविधानं नाम षट्पञ्चाशदध्यायः ॥

मुनिलक्षणम्
ऋषीणां लक्षणं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
अगस्त्यः काश्यपश्चैव भृगुर्वा(र्व)सिष्ठो भार्गवः ॥ १ ॥
विश्वामित्रस्तथा भारद्वाजः सप्तर्षयः क्रमात् ।
अगस्त्यं सप्ततालेन मानयेल्लङ्गमानकम् ॥ २ ॥ 4
काश्यपं चाष्टतालेन मानयेदपि च भृगुम् ।
अन्येषां ऋषिसर्वेषां(र्वाण्) नवतालेन कारयेत् ॥ ३ ॥
श्यामवर्गामगस्त्यं च काश्यपं पीतवर्णकम् ।
भृगुं [च] कृष्णवर्णं स्या(कुर्या)द् वसिष्ठं रक्तवर्णकम् ॥ ४ ॥ 8
भार्गवं पिङ्गलाभं स्याद् विश्वामित्रं च रक्तकम् ।
भरद्वाजं च हारिद्रं वर्णमेवं क्रमाद् विदुः ॥ ५ ॥
द्विभुजं च द्विनेत्रं च जटाजूटेन मण्डितम् ।
पीताम्बरधरं चैव सर्वेषामपि मुनीनाम् ॥ ६ ॥ 12
कुब्जाकारं बृहत्कुक्षिं कपायं पूर्णशोभितम् ।
अगस्त्यं चमि(चैवे)ति प्रोक्तमन्यं चमि(चैवे)ति पौरुषम् ॥ ७ ॥
सर्वेषामपि मुनीनां यज्ञसूत्रोत्तरीयकैः ।
दण्डं च सव्यहस्तेन वामहस्तेन पुस्तकम् ॥ ८ ॥ 16
अथवा यष्टिं बिना सव्ये हस्तौ सदृश(शौ) मुनीनाम् ।
अथवाऽराध्यवत्कुर्यादासनानान्तु(नं स्यान)कं तु वा ॥ ९ ॥
वेदांशाक्यं(त्यं)शकं(के) तुङ्गे मूर्ध्निस्तुङ्गं गुह्यांशकम् ।
दशांशं वक्त्रतुङ्गं स्याद् गुणांशं ग्रीवतुङ्गकम् ॥ १० ॥ 20
दशांशं हृदयान्तं स्यान्नाभ्यन्तं च दशाङ्गुलम् ।
भूतांशं मेढ्रसीमान्तं पीठांशं शुर(श्रोणि)गायतम् ॥ ११ ॥

तुङ्गंorमूर्ध्नि तुङ्गं`!

Let's check line 14 with this knowledge of the meter!
Meter: Anushtubh (8 syllables per quarter):
Line 14:
Pada 1:
प्रकोष्ठ- ...
In Ashta-tala:
प्रकोष्ठतारं ... मणिबन्धे कलांशकम् ॥ १८ ॥
Wait, Pada 2 is: "मणिबन्धे कलां(गुणां)शकम् ॥ १८ ॥" (8 syllables: म-णि-ब-न्धे क-लां-श-कम्)
Now Pada 1:
What are the 8 syllables?
प्र-को-ष्ठ-ता-र- ...
If it has variant:
Look at:
प्रकोष्ठतारा(रस)र्धंश्चां(न्त्वं)शं ->
Wait! Could it be:
प्रकोष्ठतारा(रस)र्धं -> wait, is it तारा or तारे or तारार्धं?
Wait, look at line 14:
प्रकोष्ठतारा(रस) - wait, inside parenthesis is (रस)!
Then after (रस):
Is it र्धं?
Wait, if text has: तारा then (रस) then र्धं?
Wait, तारा + र्धं = `तार

५७] मुनिलक्षणम् ३६१
प्रकोष्ठाद्यर्धवक्त्रं स्याद् वक्त्रायामस मं तल्लम् ।
अष्टतालमितिप्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ २६ ॥ 52
नवतालोदयेत्वष्टभागाधिक्यं शतांशकम् ।
शिरस्तुङ्गं गलं जानु पादतुङ्गं गुणांशकम् ॥ २७ ॥
मुखं वक्षश्च कुक्षिश्च कटिदीर्घं (दैर्घ्यं) द्वादशांशकम् ।
ऊरुजङ्घायतं बाहुदीर्घ(दैर्घ्यं) षट्चतुरंशकम् ॥ २८ ॥ 56
प्रकोष्ठमष्टदशांशं स्यात्तस्मान्मध्याङ्गुलान्तकम् ।
मुखायामसमं कुर्यादङ्गुष्ठं पाष्णिकान्तकम् ॥ २९ ॥
पञ्चा(च्छा)दशाङ्गुलं पाददीर्घ(दैर्घ्यं) प्रागुक्तवन्नयेत् ।
मुनीनां लक्षणं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ ३० ॥ 60
इति मान सारे वास्तुशास्त्रे मुनिलक्षणविधानं नाम सप्तपञ्चाशदध्यायः ॥
46

यक्षविद्याधरादिलक्षणम्
यक्षविद्याधरादीनां लक्षणं वक्ष्यतेऽधुना ।
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ॥ १ ॥
चरणाम्बरसंयुक्तं राक्षसाकारवद् भवेत् ।
श्यामवर्णं च पीतं च यक्षाणां वर्णमेव च ॥ २ ॥ 4
श्यामरक्तं च पीतं च वर्णं विद्याधरं(रस्य) तथा ।
यक्षविद्याधरादीनां नवतालेन कारयेत् ॥ ३ ॥
देवस्यानुचरैः(रा) यक्षा विद्याधराश्च पा(भा)रगाः ।
गान(नादि)योग्या[दि] गन्धर्वा देवाङ्गुल्यांस(वगुल्मान)नार्थकम् ॥ ४ ॥ 8
निग्रह्वा राक्षसा प्रोक्ताः चै(श्चै)व यक्षे तु भेदकम् ।
यक्षैश्च चामराद्यैश्च सुराणां चिह्नधारिणः ॥ ५ ॥
स्थानकं चासनं चैव यक्षविद्याधरादिभिः(दीनाम्) ।
दक्षिणा(णं) स्वस्तिकं पादं वामपादं तु कुञ्चितम् ॥ ६ ॥ 12
चामराद्यैर्वृतं हस्तं तं चोर्ध्वा(र्व्यां)श्रितमेव वा ।
एवं तु यक्षरूपं स्याद् विद्याधरा(रमा)सनान्वितम् ॥ ७ ॥
पुरतः पृष्ठपादौ च लाङ्गलाकारमे(रैर्ये)व च ।
जान्वाश्रितौ हस्तौ गोपुरोद्धतहस्तकौ ॥ ८ ॥ 16
एवं विद्याधराः प्रोक्ताः सर्वाभरणभूषिताः ।
नृत्तं वा वैष्णा(ष्ण)वं वापि वैशाख(खं) स्थानकं तु वा ॥ ९ ॥
गीतवीणाविधानैश्च गन्धर्वमि(र्वांश्चे)ति कथ्यते ।
चरणा(णं) पशुसमानं चोर्ध्वकार्यं [तु] नराभम् ॥ १० ॥ 20
वदनं गरुडभावं बाहुकौ [च] पक्षयुक्तौ ।
मकुट(टं) कमलयुक्तं पुष्पसञ्छाय(यं) वर्णम् ॥ ११ ॥
परित(तः) करुणवीणां किन्नरस्य [तु] स्वरूपम् ॥ १२ ॥
इति मानसार वास्तुशास्त्रे यक्षविद्याधरविधानं नाम षष्टपञ्चाशदध्यायः ॥

भक्तलक्षणम्
अधुना वक्ष्यते सर्वभक्तानां लक्षणं क्रमात् ।
पादं चतुर्विधं प्रोक्तं तद्वशान्मानं गृह्यते ॥ १ ॥
प्रथमं सालोक्यमथ द्वितीयं सामीप्यमुच्यते ।
सारूप्यं च तृतीयं स्यात्सायुज्यं तु चतुर्थकम् ॥ २ ॥ 4
भक्तिज्ञानं च वैराग्यं(ग्य)युक्तं सालोक्यमीरितम् ।
ज्ञानं वैराग्यसंयुक्तं सामीप्यमिति कथ्यते ॥ ३ ॥
केवलं ध्यानसंयुक्तं सारूप्यमिति निश्चयम् ।
शुद्धज्ञानसमायुक्तं सायुज्यं परमार्थवित् ॥ ४ ॥ 8
उत्तमं(म) नवतालेन सालोक्याङ्गं प्रमीयते ।
अधमं(म) दशतालेन सामीप्याङ्गल(ङ्गं च) निर्मितम् ॥ ५ ॥
मध्यमं(म) दशतालेन सारूप्यं मानयेत्सुधीः ।
उत्तमं(म) दशतालेन सायुज्यं कथितं बुधैः ॥ ६ ॥ 12
एवं क्रमेण भक्तानां तालमानं प्रवक्ष्यते ।
उष्णीषात्पादपर्यन्तं भावोत्तराशतांशकम् ॥ ७ ॥
उष्णीषं तु चतुर्मात्रं नेत्रान्तं तु युगाङ्गुलम् ।
पुटान्तं वेदमात्रं स्यात्तत्समं हनुसीमकम् ॥ ८ ॥ 16
कर्णो(ण्ठो)वं वेदमात्रं स्याद् भद्रकाद्धृदयान्तकम् ।
हृदयं(यान्)नाभिसौमान्तं नाभेर्मेढ्रं तु सीमकम् ॥ ९ ॥
तत्समं भानुभागं स्याथोरुदीर्घ(दैर्ध्यं) मुखद्वयम् ।
जानु कर्ण(ण्ठ)समं कुर्याज्जङ्घा चोरुतुल्यकम् ॥ १० ॥ 20
पादं जानुसमोच्चं स्यादेवमुत्तुङ्गं मापयेत् ।
अङ्गुष्ठात्पार्ष्णिपर्यन्तं तलं षोडशमात्रकम् ॥ ११ ॥

३७२ मानसार [अध्यायः
चतुर्विंशतिमात्रं स्याद्बाहुदीर्घं (दैर्घ्यं) प्रशस्यते ।
कूर्परं च द्विमात्रं स्यात्प्रकोष्ठा(ष्ठम) द्वादशाङ्गुलम् ॥ १२ ॥ 24
मध्याङ्गुल्यप्रसीमान्तं तलं द्वादशमात्रकम् ।
रुद्रांशं मुखतारं स्याद् गलतारं युगद्वयम् ॥ १३ ॥
तत्समं बाहुमूलं स्याज्जानुविस्तारं तत्समम् ।
बाहुपृ ˜न्तविस्तारं षट्त्रिंशाङ्गुलकं तथा ॥ १४ ॥ 28
कक्षयोरन्तरं तारं विंशमात्रं प्रशस्यते ।
मध्योदरतारं च पञ्चा(ञ्च)दशाङ्गुलं भवेत् ॥ १५ ॥
श्रोणिदेशविशालं स्यात्सप्ता(प्त)दशाङ्गुलं भवेत् ।
नवाधिक्यं दशाङ्गुल्यं कटिदेशविशालकम् ॥ १६ ॥ 32
ऊरुमूलविशालं तु सार्धं(र्ध) द्वादशाङ्गुलं भवेत् ।
जङ्घामूलविशालं तु सार्धसप्ताङ्गुलं तथा ॥ १७ ॥
जङ्घामध्यं षडङ्गुल्यं विस्तारं तु युगाङ्गुलम् ।
नलकागुल्फविस्तारं सत्रिपादाङ्घ्रिमात्रकम् ॥ १८ ॥ 36
सार्धवेदाङ्गुलं पार्ष्णीविस्तारं परिकीर्तितम् ।
षड्भागिकं च पञ्चांशं प्रपदं विस्तृतं भवेत् ॥ १९ ॥
तला(ल)तारं शराङ्गुल्यं वेदांशमङ्गुष्ठदीर्घकम् ।
द्विमात्रं तत्रविस्तारं तारार्धं नखविस्तृतम् ॥ २० ॥ 40
तर्जन्या(न्य)ङ्गुष्ठतुल्यं दीर्घं (दैर्घ्यं) विस्तारमंशकम् ।
त्र्यङ्गुलं सार्धपञ्चांशं ह्यङ्गुलं च क्रमेण वै ॥ २१ ॥
मध्यमादिं कनिष्ठान्तं दीर्घं (दैर्घ्यं) मेवं प्रशस्यते ।
विस्तारं सप्तषट्पञ्चयवमानमुदीरितम् ॥ २२ ॥ 44
तदर्धं च तदर्धं च नखविस्तारमुच्यते ।
बाहुमध्यविशालं तु सप्तांशं कूर्परं तथा ॥ २३ ॥
वेदाङ्गुलं प्रकोष्ठं च मणिबन्धं त्रिय(त्रया)ङ्गुलम् ।
षडंशं तलमूलं चाग्रं तारं युगाङ्गुलम् ॥ २४ ॥ 48
तलदीर्घं (दैर्घ्यं) षडङ्गुल्यं शेषांशं मध्यमाङ्गुलम् ।
सार्धपञ्चाङ्गुलं दीर्घं तर्जन्यनामिकाद्वयम् ॥ २५ ॥

५९] भक्तलक्षणम् ३७३
सार्धवह्यङ्गुलं दीर्घं (दैर्घ्यं) कनिष्ठाङ्गुष्ठयोस्तथा ।
अंशकं षड्यवं सप्त षड्यवं [च] तुर्यवं भवेत् ॥ २६ ॥ 52
अङ्गुष्ठादिकनिष्ठान्तं विस्तारं परिकीर्तितम् ।
स्थूलमूल (लं) कृशाग्रं तु व (चो) क्तमानेन योजयेत् ॥ २७ ॥
अग्रे च त्रित्रिभागेन नखतारं प्रशस्यते ।
त्रिचतुर्भागाधिक्यं नखायाममुदाहृतम् ॥ २८ ॥ 56
एकद्वित्रियवं वापि नखाग्रं कारयेत्सुधीः ।
अङ्गुष्ठे च द्विपर्व (र्वं) स्यात्त्रिपर्व (वं) चान्यथाङ्गुलैः (लेषु) ॥ २९ ॥
ज्ञानरेखादिरेखे (खा) श्च कुर्यात्तु तलमध्यमे ।
केशान्तं (न्ता) दक्षसूत्रान्तं द्वयोर्मध्ये ध्रुवः स्थितिः ॥ ३० ॥ 60
अक्षायामं (मं) द्व्यङ्गुलं स्यात्तदर्

३७४ मानधारे [अध्यायः ५९]
मध्याङ्गुल्यग्रसीमान्तं सार्धभान्वंशकं तलम् ।
सार्धरुद्रांशं वक्त्रं च(क्रस्य) विस्तारं परिकीर्तितम् ॥ ४० ॥ 80
गलतारं सार्धमष्टांशं बाहुजानु च तत्समम् ।
षट्पट्‌सार्धैकभागं स्याद्बाहुपर्यन्तविस्तृतम् ॥ ४१ ॥
सार्धविंशतिमात्रं स्यात्कच्छान्तरमुदाहृतम् ।
सार्धपञ्चा(च्छा)दशाङ्गुल्य(लं) मध्योदरविशालकम् ॥ ४२ ॥ 84
सार्धमष्टादशाङ्गुल्यं(लं) श्रोणिदेष(श) विशालकम् ।
एकोनविंशतिभागं कटिविस्तारमिष्यते ॥ ४३ ॥
सार्धद्वादशमात्रं स्यादूरूमूलविशालकम् ।
जङ्घामध्ये तु विस्तारं सार्धषडङ्गुलं भवेत् ॥ ४४ ॥ 88
नलकान्तर(कतारं) युगाङ्गुलं गुल्फतारं शराङ्गुलम् ।
प्रपदं तु षडङ्गुल्यं(लं) वेदांशमङ्गुष्ठदीर्घकम् ॥ ४५ ॥
तत्समं तर्जनीदीर्घ(दैर्घ्यं) मर्धाङ्गुलविहीनकम् ।
अन्याङ्गुली च(नां) दीर्घ(दैर्घ्यं) स्याद् विस्तारं तत्समूह्यताम् ॥ ४६ ॥ 92
कूर्परस्य तु विस्तारं सार्धषडङ्गुलं भवेत् ।
प्रकोष्ठतारं शराङ्गुल्यं मणिबन्धं युगाङ्गुलम् ॥ ४७ ॥
तलतारं शराङ्गुल्यं तलदीर्घ(दैर्घ्यं) सप्तमात्रकम् ।
मध्याङ्गुलायतं सार्धपञ्चमात्रं प्रशस्यते ॥ ४८ ॥ 96
तर्जन्यायामदीर्घ(दैर्घ्यं) स्याद्भागांशं तत्प्रकल्पयेत् ।
सार्धवेदा(ह्य)ङ्गुलं दीर्घ(दैर्घ्यं) कनिष्ठाङ्गुष्ठयोस्तथा ॥ ४९ ॥
श्रोत्रदीर्घ(दैर्घ्यं) युगाङ्गुल्यं नालालम्बनं तत्समम् ।
अन्यान्यनुक्तसर्वाङ्गम(ङ्गान्यनु)शमं(म)दशतालवत् ॥ ५० ॥ 100
कारयेच्छिल्पिभिः कुर्यात्तत्र दोषो न विद्यते ॥ ५१ ॥
इति मानधारे वास्तुशास्त्रे भकललक्षणविधानं नाम एकोनषष्टितमोऽध्यायः ॥