मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 405, कुल 856 में से
संदर्भ में पढ़ेंयक्षविद्याधरादिलक्षणम्
यक्षविद्याधरादीनां लक्षणं वक्ष्यतेऽधुना ।
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ॥ १ ॥
चरणाम्बरसंयुक्तं राक्षसाकारवद् भवेत् ।
श्यामवर्णं च पीतं च यक्षाणां वर्णमेव च ॥ २ ॥ 4
श्यामरक्तं च पीतं च वर्णं विद्याधरं(रस्य) तथा ।
यक्षविद्याधरादीनां नवतालेन कारयेत् ॥ ३ ॥
देवस्यानुचरैः(रा) यक्षा विद्याधराश्च पा(भा)रगाः ।
गान(नादि)योग्या[दि] गन्धर्वा देवाङ्गुल्यांस(वगुल्मान)नार्थकम् ॥ ४ ॥ 8
निग्रह्वा राक्षसा प्रोक्ताः चै(श्चै)व यक्षे तु भेदकम् ।
यक्षैश्च चामराद्यैश्च सुराणां चिह्नधारिणः ॥ ५ ॥
स्थानकं चासनं चैव यक्षविद्याधरादिभिः(दीनाम्) ।
दक्षिणा(णं) स्वस्तिकं पादं वामपादं तु कुञ्चितम् ॥ ६ ॥ 12
चामराद्यैर्वृतं हस्तं तं चोर्ध्वा(र्व्यां)श्रितमेव वा ।
एवं तु यक्षरूपं स्याद् विद्याधरा(रमा)सनान्वितम् ॥ ७ ॥
पुरतः पृष्ठपादौ च लाङ्गलाकारमे(रैर्ये)व च ।
जान्वाश्रितौ हस्तौ गोपुरोद्धतहस्तकौ ॥ ८ ॥ 16
एवं विद्याधराः प्रोक्ताः सर्वाभरणभूषिताः ।
नृत्तं वा वैष्णा(ष्ण)वं वापि वैशाख(खं) स्थानकं तु वा ॥ ९ ॥
गीतवीणाविधानैश्च गन्धर्वमि(र्वांश्चे)ति कथ्यते ।
चरणा(णं) पशुसमानं चोर्ध्वकार्यं [तु] नराभम् ॥ १० ॥ 20
वदनं गरुडभावं बाहुकौ [च] पक्षयुक्तौ ।
मकुट(टं) कमलयुक्तं पुष्पसञ्छाय(यं) वर्णम् ॥ ११ ॥
परित(तः) करुणवीणां किन्नरस्य [तु] स्वरूपम् ॥ १२ ॥
इति मानसार वास्तुशास्त्रे यक्षविद्याधरविधानं नाम षष्टपञ्चाशदध्यायः ॥