मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 406, कुल 856 में से
संदर्भ में पढ़ेंभक्तलक्षणम्
अधुना वक्ष्यते सर्वभक्तानां लक्षणं क्रमात् ।
पादं चतुर्विधं प्रोक्तं तद्वशान्मानं गृह्यते ॥ १ ॥
प्रथमं सालोक्यमथ द्वितीयं सामीप्यमुच्यते ।
सारूप्यं च तृतीयं स्यात्सायुज्यं तु चतुर्थकम् ॥ २ ॥ 4
भक्तिज्ञानं च वैराग्यं(ग्य)युक्तं सालोक्यमीरितम् ।
ज्ञानं वैराग्यसंयुक्तं सामीप्यमिति कथ्यते ॥ ३ ॥
केवलं ध्यानसंयुक्तं सारूप्यमिति निश्चयम् ।
शुद्धज्ञानसमायुक्तं सायुज्यं परमार्थवित् ॥ ४ ॥ 8
उत्तमं(म) नवतालेन सालोक्याङ्गं प्रमीयते ।
अधमं(म) दशतालेन सामीप्याङ्गल(ङ्गं च) निर्मितम् ॥ ५ ॥
मध्यमं(म) दशतालेन सारूप्यं मानयेत्सुधीः ।
उत्तमं(म) दशतालेन सायुज्यं कथितं बुधैः ॥ ६ ॥ 12
एवं क्रमेण भक्तानां तालमानं प्रवक्ष्यते ।
उष्णीषात्पादपर्यन्तं भावोत्तराशतांशकम् ॥ ७ ॥
उष्णीषं तु चतुर्मात्रं नेत्रान्तं तु युगाङ्गुलम् ।
पुटान्तं वेदमात्रं स्यात्तत्समं हनुसीमकम् ॥ ८ ॥ 16
कर्णो(ण्ठो)वं वेदमात्रं स्याद् भद्रकाद्धृदयान्तकम् ।
हृदयं(यान्)नाभिसौमान्तं नाभेर्मेढ्रं तु सीमकम् ॥ ९ ॥
तत्समं भानुभागं स्याथोरुदीर्घ(दैर्ध्यं) मुखद्वयम् ।
जानु कर्ण(ण्ठ)समं कुर्याज्जङ्घा चोरुतुल्यकम् ॥ १० ॥ 20
पादं जानुसमोच्चं स्यादेवमुत्तुङ्गं मापयेत् ।
अङ्गुष्ठात्पार्ष्णिपर्यन्तं तलं षोडशमात्रकम् ॥ ११ ॥