मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 391, कुल 856 में से
संदर्भ में पढ़ें३५६ मानमारे [अध्यायः करण्डमकुटं वापि हेमवर्णाङ्गशोभितम् ।
पीताम्बरं यथारत्नं मुक्ताभरणमेव च ॥ १३ ॥ कर्णयोः स्वर्णताटङ्कं सूत्रयुक्तं (क्त) सुमङ्गलाम् ।
द्विनेत्रीं प्रसन्नवदनां सर्वाभरणभूषणीम् ॥ १४ ॥ 28 पितामहस्य पार्श्वे तु स्थानकं चासनं तु वा ।
वामभागे तु सावित्रीं श्वेतरक्त(क्ता) मथापि वा ॥ १५ ॥ श्यामाङ्गवर्णमेवं वा द्विभुजं च द्विनेत्रकम् ।
स्थानकं चासनं वापि करण्डमकुटान्वितम् ॥ १६ ॥ 32 अथवा केशबन्धं वा कर्णौ मकरकुण्डलम् ।
दुकूलाम्बरधरं वापि पीताम्बरमथापि वा ॥ १७ ॥ सर्वाभरणसंयुक्तां वरदं वामहस्तके ।
दक्षिणे चोत्पलं कुर्याच्छेषं प्रागुक्तवन्नयेत् ॥ १८ ॥ 36 सरस्वतीं च सावित्रीं दशतालेन कारयेत् ।
रक्ताब्जं पीठतश्चोर्ध्वे देवी पद्मासना भवेत् ॥ १९ ॥ चतुर्भुजं त्रिनेत्रं च मकुटं कुन्तलं भवेत् ।
प्रसन्नवदनां देवीं शुद्धकाञ्चनसन्निभाम् ॥ २० ॥ 40 पीताम्बरधरां रक्तां [मं] शुकपेताम् (भरथीम्) ।
विशालाक्षमयतं कुर्यादपाङ्गकोणे सिताननाम् ॥ २१ ॥ दक्षिणे त्वभयं पूर्वं दिण्डिमं वामहस्तके ।
अपरे दक्षिणे पद्मं चाक्षमाला मथापि वा ॥ २२ ॥ 44 वामे नीलोत्पलं वापि रक्तपद्मो (द्ममु) द्धृतं तु वा ।
पीनोन्नतस्तनतटां फाले भ्रमरकान्विताम् ॥ २३ ॥ अथवा रत्नपट्टं स्यात्स्वर्णताटङ्कं कर्णयोः ।
मकरं कुण्डलं वापि कर्णयोः स्वर्णदामयुक् ॥ २४ ॥ 48 हारोपग्रीवसंयुक्तां ससुत्रैश्च सुमङ्गलीम् ।
कुचपटैश्च केकै (रत्नै)श्च हेमपट्टविभूषिणीम् ॥ २५ ॥ रत्नानि चन्द्र (छन्न) वीरं स्यात्स्वर्णरत्नोत्तरीययुक् ।
`` केयूरकटकस्वर्णरत्नपूरिमसंयुत(ता)म् ॥ २६ ॥ 52