मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 402, कुल 856 में से
संदर्भ में पढ़ेंमुनिलक्षणम्
ऋषीणां लक्षणं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
अगस्त्यः काश्यपश्चैव भृगुर्वा(र्व)सिष्ठो भार्गवः ॥ १ ॥
विश्वामित्रस्तथा भारद्वाजः सप्तर्षयः क्रमात् ।
अगस्त्यं सप्ततालेन मानयेल्लङ्गमानकम् ॥ २ ॥ 4
काश्यपं चाष्टतालेन मानयेदपि च भृगुम् ।
अन्येषां ऋषिसर्वेषां(र्वाण्) नवतालेन कारयेत् ॥ ३ ॥
श्यामवर्गामगस्त्यं च काश्यपं पीतवर्णकम् ।
भृगुं [च] कृष्णवर्णं स्या(कुर्या)द् वसिष्ठं रक्तवर्णकम् ॥ ४ ॥ 8
भार्गवं पिङ्गलाभं स्याद् विश्वामित्रं च रक्तकम् ।
भरद्वाजं च हारिद्रं वर्णमेवं क्रमाद् विदुः ॥ ५ ॥
द्विभुजं च द्विनेत्रं च जटाजूटेन मण्डितम् ।
पीताम्बरधरं चैव सर्वेषामपि मुनीनाम् ॥ ६ ॥ 12
कुब्जाकारं बृहत्कुक्षिं कपायं पूर्णशोभितम् ।
अगस्त्यं चमि(चैवे)ति प्रोक्तमन्यं चमि(चैवे)ति पौरुषम् ॥ ७ ॥
सर्वेषामपि मुनीनां यज्ञसूत्रोत्तरीयकैः ।
दण्डं च सव्यहस्तेन वामहस्तेन पुस्तकम् ॥ ८ ॥ 16
अथवा यष्टिं बिना सव्ये हस्तौ सदृश(शौ) मुनीनाम् ।
अथवाऽराध्यवत्कुर्यादासनानान्तु(नं स्यान)कं तु वा ॥ ९ ॥
वेदांशाक्यं(त्यं)शकं(के) तुङ्गे मूर्ध्निस्तुङ्गं गुह्यांशकम् ।
दशांशं वक्त्रतुङ्गं स्याद् गुणांशं ग्रीवतुङ्गकम् ॥ १० ॥ 20
दशांशं हृदयान्तं स्यान्नाभ्यन्तं च दशाङ्गुलम् ।
भूतांशं मेढ्रसीमान्तं पीठांशं शुर(श्रोणि)गायतम् ॥ ११ ॥