सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 409, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 409

३७४ मानधारे [अध्यायः ५९]
मध्याङ्गुल्यग्रसीमान्तं सार्धभान्वंशकं तलम् ।
सार्धरुद्रांशं वक्त्रं च(क्रस्य) विस्तारं परिकीर्तितम् ॥ ४० ॥ 80
गलतारं सार्धमष्टांशं बाहुजानु च तत्समम् ।
षट्पट्‌सार्धैकभागं स्याद्बाहुपर्यन्तविस्तृतम् ॥ ४१ ॥
सार्धविंशतिमात्रं स्यात्कच्छान्तरमुदाहृतम् ।
सार्धपञ्चा(च्छा)दशाङ्गुल्य(लं) मध्योदरविशालकम् ॥ ४२ ॥ 84
सार्धमष्टादशाङ्गुल्यं(लं) श्रोणिदेष(श) विशालकम् ।
एकोनविंशतिभागं कटिविस्तारमिष्यते ॥ ४३ ॥
सार्धद्वादशमात्रं स्यादूरूमूलविशालकम् ।
जङ्घामध्ये तु विस्तारं सार्धषडङ्गुलं भवेत् ॥ ४४ ॥ 88
नलकान्तर(कतारं) युगाङ्गुलं गुल्फतारं शराङ्गुलम् ।
प्रपदं तु षडङ्गुल्यं(लं) वेदांशमङ्गुष्ठदीर्घकम् ॥ ४५ ॥
तत्समं तर्जनीदीर्घ(दैर्घ्यं) मर्धाङ्गुलविहीनकम् ।
अन्याङ्गुली च(नां) दीर्घ(दैर्घ्यं) स्याद् विस्तारं तत्समूह्यताम् ॥ ४६ ॥ 92
कूर्परस्य तु विस्तारं सार्धषडङ्गुलं भवेत् ।
प्रकोष्ठतारं शराङ्गुल्यं मणिबन्धं युगाङ्गुलम् ॥ ४७ ॥
तलतारं शराङ्गुल्यं तलदीर्घ(दैर्घ्यं) सप्तमात्रकम् ।
मध्याङ्गुलायतं सार्धपञ्चमात्रं प्रशस्यते ॥ ४८ ॥ 96
तर्जन्यायामदीर्घ(दैर्घ्यं) स्याद्भागांशं तत्प्रकल्पयेत् ।
सार्धवेदा(ह्य)ङ्गुलं दीर्घ(दैर्घ्यं) कनिष्ठाङ्गुष्ठयोस्तथा ॥ ४९ ॥
श्रोत्रदीर्घ(दैर्घ्यं) युगाङ्गुल्यं नालालम्बनं तत्समम् ।
अन्यान्यनुक्तसर्वाङ्गम(ङ्गान्यनु)शमं(म)दशतालवत् ॥ ५० ॥ 100
कारयेच्छिल्पिभिः कुर्यात्तत्र दोषो न विद्यते ॥ ५१ ॥
इति मानधारे वास्तुशास्त्रे भकललक्षणविधानं नाम एकोनषष्टितमोऽध्यायः ॥