सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

244 मानमेयरहस्यश्लोकवार्तिके

तत्र क्वचिद्ब्राह्मणादिशब्दानां गुणवाचिताम् ।
वृत्तादिवाचितां चापि मन्वते तत्त्वदर्शिनः ॥
नञ्सूत्रेऽतो महाभाष्ये गुणसंदोहवर्तिनः ।
ब्राह्मणाया अमी शब्दाः क्वचिदंशेष्वितीरितम् ॥
जात्यनभ्युपगन्तारः व्यवहारस्य गोचरम् ।
विदुश्शुद्धकुलोत्पत्तिं जातिजन्मादिशब्दिताम् ॥
सैव संततिसंतानकुलशब्दादिशब्दिता ।
सर्ववर्णेषु तुल्यास्वित्यादिस्मृतिवचोबलात् ॥
तमश्शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्कटम् ।
इत्याश्वमेधिकस्मृत्या सत्त्वाद्यं केचिदभ्यधुः ॥
सन्निवेशसमानत्वेऽप्यारणेयादिवह्निषु ।
क्षीरभेदादिकेऽप्यस्ति शक्तिभेदास्तथाऽत्र हि ॥
परेऽदृष्टविशेषं तमात्मस्थमनुजानते ।
तदभिव्यञ्जिकां शुद्धकुलोत्पत्तिं प्रचक्षते ॥
ब्राह्मणो जायते ह्येष यो यज्ञाज्जायते त्विति ।
ब्राह्मणत्वं कर्मरूपमिति शातपथी श्रुतिः ॥
यथैव दीक्षणीयेष्ट्या जायन्ते ब्राह्मणादयः ।
इति पाद्मे पाञ्चरात्रे तन्निमित्तमनूदितम् ॥
मुखबाहूरुपज्जत्वं पुंसूक्तोक्तं विदुः परे ।
तत्र प्रभानुरोधेन तद्रूपणमितीतरे ॥

जातिवादः
मनूनां सर्गमकरोन्मुखबाहूरुपादतः ।
एते सावर्ण्यनामानः विष्वक्सेनागमोदिताः ॥
महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा ।
इत्यत्र मनवस्तादृक्सावर्ण्या इति भाषितम् ॥
10 प्रत्यक्षं ब्राह्मणत्वादि सहकारिव्यपेक्षया ।
घृतत्वादिवदित्युक्तं मीमांसातन्त्रवार्तिके ॥
सहकार्यत्रोपदेशः स पारम्परिको मतः ।
समूहलेख्यानि परंपराऽविस्मृतिकारणम् ॥
नहि तत्करणं लोके वेदे वा किंचिदीदृशम् ।
इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥
तथाच संततिस्मृत्याऽनुगृहीतेन चक्षुषा ।
विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥
तथाच दृश्यते नानासहकारिव्यपेक्षया ।
चक्षुषो जातिविज्ञानजनकत्वं यथोदितम् ॥
सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् ।
तैलाद्धृतं विलीनं च गन्धेन तु रसेन वा ॥
भस्मप्रच्छादितो वह्निः स्पर्शनेनोपलभ्यते ।
अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥
संस्थानेन घटत्वादि ब्राह्मणत्वादि योनितः ।
क्वचिदाचारतश्चापि सम्यगाज्ञाऽनुपालितात् ॥

246 मानमेयरहस्यश्लोकवार्तिके
यत्समानवयोवेषपिण्डद्वयविलोकने ।
तत्क्षणादक्षतो भेदो नावभातीति भाषितम् ॥
नैतावता विभागस्य प्रत्यक्षत्वं निवर्तते ।
सादृश्यदोषात्तत्र स्याद्विभागस्यानवग्रहः ॥
समानरूपसंस्थानशुक्तिकाकलधौतयोः ।
विवेकस्सहसा नाभादिति कालान्तरेऽपि किम्
विश्वामित्रे च कर्माधिकारमात्रस्य संभवः ।
न विप्रतादेः सांकर्यादिति कौस्तुभकृन्मतम् ॥
यामुनाचार्यहेमाद्रिमाधवप्रमुखा बुधाः ।
पन्थानमनुरुन्धाना अमुमेवेति निर्णयः ॥
11 नाध्यक्षगम्या जातिस्सा किंतु स्मरणलक्षणा ।
इति मेधातिथेः विज्ञानेश्वरस्य च निर्णयः ॥
तथा सेश्वरमीमांसातत्त्वटीकादिकारिणः ।
औपदेशिकसिद्धान्तं स्थापयामासुरुर्जितम् ॥
तदन्वयविशेषेषु संभवो विप्रतादिकम् ।
अन्वयव्यतिरेकाभ्यां यथालोकं प्रतीयते ॥
संभवोऽपिच साङ्ख्याः स्यान्मातुरेवानुभाविकः ।
द्रव्यादीनां धर्मतावदन्येषां त्वौपदेशिकम् ॥
ते सन्ततिविशेषास्स्युः वृद्धा येषु प्रयुञ्जते ।
विप्रादिशब्दं येषां तु गोत्रार्षेयाद्यविस्मृतिः ॥

जातिवादः. 247
पक्षे त्वस्मिन् विप्रताद्यं व्यवहारनिबन्धनम् ।
अनादिर्व्यवहारोऽयं वारादिव्यवहारवत् ॥
या चोत्कर्षापकर्षाभ्यां सप्तमे पञ्चमेऽपिवा ।
वर्णान्तरापत्तिरुक्ता पर्यायाच्छुद्धिरेव सा ॥
संभवः तदभिव्यङ्ग्या जातिर्वा विप्रता यदि ।
मुखबाहूरुजातानां मानसानां कथंनु सा ॥
द्रौपद्यगस्त्यवाल्मीकिदृष्टद्युम्नादिधीमताम् ।
पौराणिकानामन्येषां कथं सा व्यवतिष्ठते ॥
तयोनिजायोनिजादिक्रोडीकरणनिर्मलम् ।
ब्राह्मण्यमभिनिर्वाच्यं तद्धि सत्त्वादिलक्षणम् ॥
सत्त्वादयो गुणा एव स्वभावप्रभवा गुणाः ।
तद्धेतुभूतं प्राचीनं कर्म स्वो भाव उच्यते ॥
प्रजापतेः ऋषीणां च प्रत्यक्षं तत्तु मादृशाम् ।
गोत्रप्रवरसंबन्धपारंपर्यौपदेशिकम् ॥
सवर्णान्येन संयोगे सांकर्यं नैव संभवि ।
महर्षिषु प्रमादोऽपि तपोभिरनुपप्लुतः ॥
12 तद्ब्राह्मण्यं द्विधा प्रोक्तं शारीरं मानसं त्विति ।
सत्त्वादिरूपं शारीरं मानसं तु शमादिकम् ॥
शरीरसत्तापर्यन्तं शारीरनियमः स्थितः ।
मानसं सर्वपूज्यं स्यात् मनोवृत्तिनिबन्धनम् ॥

248 मानमेयरत्नश्लोकवार्तिके
ब्राह्मण्यमासीत्प्रथमं ततः क्षत्रादि वैभवम् ।
इतिच ब्रह्म वेत्यादि बृहदारण्यके श्रुतम् ॥
आदौ कृतयुगे शूद्राद्यभावो भारतादिषु ।
प्रपञ्चितस्सच्चरित्ररक्षायामप्यनूदितः ॥
बीजप्राधान्यतो जातिव्यवस्थाऽदावभूत्ततः ।
क्षेत्रप्राधान्यत इति चाधुना ज्ञायते गतिः ॥
ब्राह्मणानां पुनः बीजं क्षत्राणां क्षेत्रमित्यपि ।
मेधातिथेरभिप्रायः ज्ञायते दशमे मनोः ॥
पुराणादिषु चान्येषु विविधा ज्ञायते गतिः ।
सर्वे सर्वानुग्रहाय मुखभेदा इति स्थितिः ॥
(52) असंबद्धवादः.
1 सम्बन्धस्य च संबन्धे तस्यापीत्यनवस्थितिः ।
ततस्तस्य परित्यागे स्वरूपे पर्यवस्यति ॥
एवं विशेषे सामान्ये कारणे धर्मधर्मिणोः ।
आधारेऽवयवे शक्तौ शेषिण्यङ्गे च संविदि ॥
अनवस्थाप्रसङ्गेन व्यवहारः स्वरूपतः ।
वरमित्याहुरपरे संबन्धोऽत्र कुतः कयोः ॥
2 अथ संबन्धतत्त्वापलापिनामिह कारिका ।
प्रमेयाम्बुजमार्तण्डोदाहृतैषाऽवधार्यताम् ॥

[Header] असंबन्धवादः 249

पारतन्त्र्यं हि संबन्धः सिद्धे का परतन्त्रता ।
तस्मात्सर्वस्य भावस्य संबन्धो नास्ति तत्त्वतः ॥
रूपश्लेषो हि संबन्धः द्वित्वे स च कथं भवेत् ।
तस्मात्प्रकृतिभिन्नानां संबन्धो नास्ति तत्त्वतः ॥
द्वयोरेकाभिसंबन्धात्संबन्धो यदि तद्द्वयोः ।
कस्संबन्धोऽनवस्था च, न संबन्धमतिस्ततः ॥
तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः ।
इत्यमिश्राः स्वयं भावाः तान्मिश्रयति कल्पना ॥
तामेवचानुरुन्धानैः क्रियाकारकवाचिनः ।
भावभेदप्रतीत्यर्थं संयोज्यन्तेऽभिधायकाः ॥
3 कार्यकारणभावाख्यः संबन्धो न भविष्यति ।
तयोरसहभावेन द्विष्ठस्यास्याप्यसंभवात् ॥
क्रमेण भाव एकत्र वर्तमानोऽन्यनिस्पृहः ।
तद्भावेऽपि तद्भावात् संबन्धो नैकवृत्तिमान् ॥
यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते ।
उपकारी ह्यपेक्ष्यः स्यात् कथं चोपकरोत्यसन् ॥
यद्येकार्थाभिसंबन्धात्कार्यकारणता तयोः ।
प्राप्ता द्वित्वाभिसंबन्धात्सव्येतरविषाणयोः ॥
द्विष्ठो हि कश्चित्संबन्धो नातोऽन्यत्तरस्य लक्षणम् ।
येन चैतस्य संख्यादेः व्यवस्थाप्येत भिन्नता ॥

[Footer] M.R. 32

भावाभावोपाधियोगः कार्यकारणता यदि ।
योगोपाधी न तावेव कार्यकारणताऽत्र किम् ॥
पश्यन्नेकमदृष्टस्य दर्शने तददर्शने ।
अपश्यन् कार्यमन्वेति विनाऽप्याख्यातृभिर्जनैः ॥
दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसंभवात् ।
कार्यादिश्रुतिरप्यत्र लाघवार्थं निवेशिता ॥
तद्भावाभावतः कार्यगतिर्याऽप्यनुवर्ण्यते ।
संकेतविषयाख्या सा सास्नादेर्गौर्गतिर्यथा ॥
भावे भाविनि तद्भावः भाव एवच भाविता ।
प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः ॥
एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः ।
विकल्पा दर्शयन्त्यर्थान्मिथ्यार्थाः घटितानिव ॥
भिन्ने का घटनाऽभिन्ने कार्यकारणताऽपि का ।
भावे ह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥
4 संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् ।
अन्योन्यानुपकाराच्च न संबन्धी च तादृशः ॥
जनने चापि कार्यस्य केनचित्समवायिना ।
समवायि तदा नासौ न ततोऽतिप्रसङ्गतः ॥
तयोरनुपकारेऽपि समवाये परत्र वा ।
संबन्धो यदि विश्वं स्यात्समवायि परस्परम् ॥

संयोगजननेऽप्येतौ नहि संयोगिनौ मतौ ।
कर्मादेर्योगितापत्तौ स्थितिश्च प्रतिवारिता ॥
इत्यादिको विस्तरोऽसौ सर्वशून्यत्ववादिनाम् ।
ग्रन्थेषु तूपलभ्येत प्रायस्ते शिथिला इह ॥
5 एवमादीन् विवादांश्च समादधति केचन ।
तान् शून्याद्वैतसिद्धान्तशुद्धान्तस्तम्भलक्षणान् ॥
अनवस्था द्विधा त्वाद्या सिद्धा स्यात्कारणाश्रया ।
प्रमाणसिद्धा धारेयं न प्रसङ्गमिहार्हति ॥
कल्प्या द्वितीया सैवात्र संसर्गादौ प्रसञ्जिता ।
तत्र स्वपरनिर्वाहः नैरपेक्ष्यमिति द्वयी ॥
गतिरस्ति प्राथमिक्या निर्वाहः प्रकृते भवेत् ।
ज्ञातेन ज्ञानजनने नैरपेक्ष्यात्मिका गतिः ॥
इन्द्रियाण्यथ संस्कारः कारणं हि स्वरूपसत् ।
क्वचित्स्वपरनिर्वाहः स्वस्वभावनिबन्धनः ॥
परश्शतपरिक्षोदात्परस्तादपि वादिभिः ।
उपलब्धबले स्थेयं तदादावेव गृह्यताम् ॥
अतः कृत्स्नैकदेशादिविकल्पानुपपत्तितः ।
संबन्धतत्त्वापलापः शून्यवादस्य चाङ्कुरः ॥
निरंशत्वादथैकत्वात् न विकल्पोऽत्र तादृशः ।
स च सावयवानेकपदार्र्थविषयो मतः ॥

152 मानमेयरहस्यश्लोकवार्तिक

समाप्यवृत्तिः व्यासज्यवृत्तिश्चेति द्विधा स्थितिः ।
केवलैकत्रवृत्तिर्या सा समाप्येति कीर्त्यते ॥
सापेक्षेषु त्वनेकेषु वृत्तिः व्यासज्यपूर्विका ।
प्रथमा जातिरूपादेस्संयोगादेरनन्तरा ॥
(53) संबन्धवादः.
1 अप्राप्तिपूर्विका प्राप्तिस्संयोग इति कीर्त्यते ।
समवायस्तु निष्पत्तिप्राप्तयोः स्यादैककालिकः ॥
प्रतीतिभेदाद्भेदोऽस्ति देशभेदस्तु नेष्यते ।
तेनात्र कल्प्यते वृत्तिः समवायस्स उच्यते ॥
ये चेह वृत्ती स्रक्सूत्रभूतकण्ठगुणादिषु ।
जात्यादीनामनंशत्वात् ताभ्यां वृत्तिर्विलक्षणा ॥
नैयायिकास्तं प्रत्यक्षमाहुर्योगास्त्वतीन्द्रियम् ।
निर्विकल्पैकविषयं तं विदुर्भूषणानुगाः ॥
स निर्विकल्पानपेक्षसविकल्पकगोचरः ।
इति सिद्धान्तयन्त्यत्र त्वाचार्या इति च श्रुतम् ॥
कारणे समवायो हि कार्याणां जन्म कथ्यते ।
सत्तायास्समवायो वाऽथवाऽऽद्यक्षणयोगिता ॥
समवायस्य जन्मत्वे विशेषणविशेष्यताम् ।
जनयन् कारकस्तोमः नित्येऽपि सफलो मतः ॥

सम्बन्धवादः 253
स च व्योमवदेवैकः नित्यस्सर्वगतोऽपिच ।
तस्यानेकत्वमिच्छन्ति चापरे नव्यतार्किकाः ॥
इति तार्किकसिद्धान्तः तत्र कौमारिलाशयः ।
समवायो हि संबन्धान्तराभावेऽपि योजयेत् ॥
स्वभावादेव तावेव यथा संबन्धिनौ तथा ।
विशिष्टव्यवहारं तमातन्वाते स्वभावतः ॥
द्रव्याद्रव्ये च तादात्म्यात्, समवायेन किं फलम्।
त्रैकाल्यं यदि नित्यत्वं कालायोगिनि तत्कथम् ॥
यदि कारणशून्यत्वं यद्वा प्रध्वंसशून्यता ।
नित्यत्वं तत्प्रसज्येत प्रध्वंसप्रागभावयोः ॥
उभयान्तविहीनत्वं नित्यत्वं चेन्निरुच्यते ।
नित्ययोरिव सर्वेषां नित्यताऽत्र प्रसज्यते ॥
विशेषणविशेष्यात्मस्वभावान्नियमो यदि ।
अजागलस्तनसमस्समवायः प्रकल्पितः ॥
प्राभाकराः पुनस्तत्र काश्यपं मतमास्थिताः ।
तयोरेकत्वनित्यत्वाविवादोऽस्ति विशेषतः ॥
समवायाख्यसंबन्धानेकानित्यत्वहेतुतः ।
व्यक्त्यैक्यं सितनीलादेः विभुत्वं चोपपाद्यते ॥
नीलो नष्टस्सितो जातः इत्याद्या अपि बुद्धयः ।
संबन्धमूलास्सिद्ध्यन्ति लाघवं च महत्ततः ॥

254 मानमेयरहस्यश्लोकवार्तिके
इदं सर्वाद्वैतवादप्राग्रूपमिति केचन ।
समवायैक्यपक्षेऽपि तथैवेत्यपरे विदुः ॥
२ अथ संयोगसंबन्धः सौगतैर्नाभ्युपेयते ।
प्रत्यासत्तिः प्रतिघातावसानेति हि तन्मतम् ॥
अर्थान्तरस्य हेतुत्वान्नासौ निह्नवमर्हति ।
शब्दरूपस्पर्शहेतुः कश्चिदागन्तुको ह्यसौ ॥
अमृते गरले तूले चोपले ब्राह्मणे गवि ।
चण्डाले कपिकच्छ्वादौ स्पर्शभेदोऽनुभूयते ॥
संयोगेनान्यथासिद्धिमातिष्ठन्ते विपश्चितः ।
संयोगापह्नवे सर्वो व्यवहारो विरुध्यते ॥
निरन्तरस्थितिः काचित्संयोग इति केचन ।
स्थितिः तद्देशसंयोग एवेत्यन्यैः प्रतीर्यते ॥
संयोगदेशकालाद्यैः प्रसिद्धैश्च ह्युपाधिभिः ।
परिषद्वाशिविपिनयूथसंघातपङ्क्तयः ॥
मण्डलव्यूहसंकीर्णचतुरश्रादिमूर्तयः ।
अबाधितव्यवहृतिविषया निरुपाधिकाः ॥
महत्त्वैकत्वयुक्तत्वप्रमुखा बहवो गुणाः ।
संयुक्तद्रव्यनिष्ठास्तत्संयोगोऽशक्यनिह्नवः ॥
सादृश्यवच्च संयोगः कैश्चिन्मीमांसकैः पुनः ।
अनुयोगिप्रतियोगिभेदाद्भिन्न इतीष्यते ॥

संबन्धवादः 25.
विभूनां चेदसंयोगः सान्तरत्वं प्रसज्यते ।
अतएवाजसंयोगः शब्दश्रवणयोर्मतः ॥
सर्वाधारत्वसिद्ध्यर्थमीश्वरेऽपीष्यते बुधैः ।
गुणवादे च संयोगविस्तरश्चावधार्यताम् ॥
3 एकार्थसमवायादिस्समवायनिबन्धनः ।
तादात्म्यनामकः भाट्टैः भिन्नाभिन्नत्वलक्षणः ॥
समवायस्य च स्थाने संबन्धः पर्यभाष्यत ।
तादात्म्यलक्षणो भेदाभेदो ज्ञातश्चतुर्विधः ॥
जातिव्यक्त्योस्तु तादात्म्यं स्यात्सामान्यविशेषयोः ।
क्रियाक्रियावतोस्तावत् अवस्थातद्वतोर्मतम् ॥
अंशांशिभावस्तार्तीयः स मतो गुणतद्वतोः ।
कार्यकारणतादात्म्यं अवयव्यादिसंश्रितम् ॥
गोत्वं समुद्रो वृक्षश्च मृच्चोदाहरणं क्रमात् ।
व्यक्तिस्तरङ्गः शाखादिः कुम्भश्च प्रतियोगिनः ॥
4 अभावस्यापि वैशिष्ट्यं संबन्धान्तरमिष्यते ।
कौमारिलैस्तार्किकैस्तु गौरवात्सोऽपलप्यते ॥
5 कार्यकारणभावाख्यस्संबन्धोऽन्यत्र विस्तृतः ।
अन्यथा स्वप्रवृत्त्यादेश्शास्त्रादेरप्यनुत्थितिः ॥
6 वाच्यवाचकसंबन्धनिषेधे लोकबाधनम् ।
विरोधश्च स्ववाक्येषु किं कथं प्रतिपाद्यते ॥

256 मानमेयरहस्यश्लोकवार्तिके
औत्पत्तिकस्सामयिक इति वादोऽत्र भिद्यते ।
प्रथमो वैदिकः पक्षः द्वितीयो यौक्तिको मतः ॥
7 विषयत्वाख्यसंबन्धे बह्व्यो विप्रतिपत्तयः ।
संक्षेपतो निदर्श्यन्ते बुधास्सङ्ग्रहबुद्धयः ॥
8 स्वच्छा स्वतो धीस्समनन्तरप्रत्ययलक्षणात् ।
साकारा वासनाभेदात् नियतैवोपजायते ॥
वासना साऽनादिभूता वैचित्र्यं तन्निबन्धनम् ।
ज्ञानार्थयोस्तत्तादात्म्यं संसर्गो ग्राह्यलक्षणः ॥
न संभव्यपरः, नोचेत्सर्वसर्वज्ञता भवेत् ।
इति शून्यख्यातिवादियोगाचारव्यवस्थितिः ॥
9 अत्र सौत्रान्तिकाः प्राहुः ज्ञानाकारार्पणक्षमम् ।
हेतुत्वं, केवलं हेतुः चक्षुराद्यपि विद्यते ॥
10 केचित् ज्ञानार्थयोस्तुल्यावाकारावनुजानते ।
समानाकारता तेषां संसर्गस्स्याद्यथोच्यते ॥
अर्थेन घटयत्येनां न हि मुक्त्वाऽर्थरूपताम् ।
तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥
तत्र दोषं विदुश्चेत्थं योगाचारमतानुगाः ।
एकदेशेन सारूप्ये सर्वस्स्यात्सर्ववेदकः ॥
सर्वात्मना तु सारूप्ये ज्ञानमज्ञानतां व्रजेत् ।
नान्योऽनुभाव्यो बुद्ध्याऽस्ति स्वयं सैव प्रकाशते ॥

संबन्धवादः
11 केचित्त्वादर्शसंकाशे ज्ञाने नीलादिवस्तुनः ।
प्रतिबिम्बं तु संबन्धं विदुस्तद्ग्राह्यलक्षणम् ॥
12 ये त्वर्थमपि विज्ञानं निराकारं विदुस्तयोः ।
योगादाकारनिष्पत्तिं चूर्णहारिद्रयोगवत् ॥
एते हि संसर्गधर्माकारवादिन ईरिताः ।
संसृष्टयोश्चोभयोरप्याकारं तं प्रचक्षते ॥
13 केचिदर्थो निराकारस्सदा तद्योगभेदतः ।
ज्ञानं साकारमिति च प्राहुस्संसर्गवादिनः ॥
14 साधारणोऽसावाकारः स्यादर्थज्ञानयोर्यथा ।
लाक्षा द्युमणिमध्यस्था तथेत्येके विदुर्बुधाः ॥
15 पृथगेवाकारवन्तौ ज्ञानार्थावपरैर्बुधैः ।
सादृश्यादविवेकेन त्वाभासेते इतीष्यते ॥
16 व्यवहारानुगुण्यं तद्विषयत्वं विदुः परे ।
कर्तृकर्मक्रियादीनां साधारणमिदं हि तत् ॥
17 ज्ञानात्मकक्रियाजन्यफलभागित्वलक्षणम् ।
कर्मत्वं विषयत्वं तत् प्राकट्यं भाट्टसम्मतम् ॥
आत्मार्थयोः कर्तृकर्मज्ञातृज्ञेयस्वभावयोः ।
मानसप्रत्यक्षवेद्यः व्याप्यव्याप्तृत्वलक्षणः ॥
संबन्धः स्वस्य करणं कल्पयेत् ज्ञानलक्षणम् ।
ज्ञाततैवाथवाऽध्यक्षा कल्पयत्येव कारणम् ॥
M.R. 33

अनागतमतीतं च विप्रकृष्टं तथेतरम् ।
विषयीकुरुते बुद्धिः प्राकट्येऽपि समो विधिः ॥
अतीतानागतत्वाभ्यां अद्यापि स्तो हि वस्तुनी ।
अतो ज्ञानस्य सम्बन्धानुपपत्तिर्न विद्यते ॥
असतोर्पि सामान्याद्यात्मना वृत्तिसंभवात् ।
प्राकट्याश्रयता भाट्टैरगत्यैवोपपादिता ॥
स्वयंप्रकाशवादेऽपि संबन्धो बोध्यबोधयोः ।
मानसाध्यक्षवेद्यस्स्यात् अन्यथा स न सिद्ध्यति ।
तत्र त्रितयभावेन सर्वसाधारणोऽपरः ।
विषयत्वात्मकः कश्चित्पदार्थस्सेद्धुमर्हति ॥
विषयत्वं व्यवहृतिभाक्त्वं त्विति गुरोर्मतम् ।
अतीतादौ द्वत्वादिसंख्यावदुपपद्यते ॥
स्वरूपलक्षणः कश्चिदन्यैः विषयतात्मकः ।
नैयायिकैरुपगतः ह्युपलम्भानुरोधतः ॥
पदार्थान्तरमित्याहुः विषयत्वं तु केचन ।
नव्यनैयायिकाः तत्तु सर्वदोषप्रशान्तये ॥
18 ज्ञानार्थयोस्तु संयोगमाहुर्धीद्रव्यवादिनः ।
पर्यायवादिनो ये च ये वा विकृतिवादिनः ॥
एवं निरूपिताः प्रायः विषयत्वाभिधेऽधुना ।
संबन्धे ये विकल्पास्स्युः सर्वदर्शनभूमयः ॥

19 प्रकाश्यता विषयता ग्राह्यतेत्येवमादयः ।
सर्वैर्दार्शनिकैः प्रायः समानार्था इतीष्यते ॥
कौमारिलैः पुनस्तत्र विशेषः कल्प्यते यथा ।
अग्न्यादयो घटादीनां प्रसिद्धा ये प्रकाशकाः ॥
न ते प्रकाश्यरूपा हि प्रकाशस्यानपेक्षणात् ।
ग्राह्यत्वं तु यदा तेषां तदाऽक्षं ग्राहकं मतम् ॥
अक्षग्रहणकाले तु ग्राहिका धीर्भविष्यति ।
इत्युक्तेर्ग्राह्यता भिन्ना प्रकाश्यत्वादिति स्थितम् ।
ब्रह्माद्वैतविदस्तत्र विपरीतं विदुर्यथा ।
संविदः स्वप्रकाशत्वाद्यद्यपि स्यात्प्रकाश्यता ॥
विषयत्वात्मिका तत्र नेष्यते त्वनुभाव्यता ।
नोचेदननुभूतित्वमनुभूतेः प्रसज्यते ॥
इति प्राहुस्ततो ग्राह्यताया भिन्ना प्रकाश्यता ।
एवं स्वयंप्रकाशत्वं त्रातुं वेद्यत्वनिह्नवः ॥
प्रकाशनिह्नवो भाट्टैः जाड्यं तस्यैव रक्षितुम् ।
स्वप्रकाशास्वप्रकाशधीविवादफलं त्विदम् ॥
20 एवं कर्तृत्वकर्मत्वविरोधस्तन्निबन्धनः ।
कारकज्ञापकानैक्याविवेकात्सकलं त्विदम् ॥
कर्तृकर्मविरोधस्य रहस्यमिदमीरितम् ।
कर्ता स्वतन्त्रः कर्मादिरुपसर्जनमिष्यते ॥

स्वातन्त्र्यं पारतन्त्र्यं च युगपन्न च युज्यते ।
इत्येकमपरं चापि विद्वद्भिर्निरूपितम् ॥
कर्ता सिद्धः कर्म साध्यं कालभेदस्तयोर्मतः ।
एककालत्वमुभयोः विरुद्धमिति निर्णयः ॥
एष कालविरोधः स्यात् पूर्वो भवति दैशिकः ।
क्रियैव कारकं येषां सौगतानामभीप्सितम् ॥
तेषां कालोऽथवा देशः नास्त्येवहि विरोधकृत् ।
तस्माद्विरोधाविरोधविवादो वासनानुगः ॥
21 समवायस्थले कश्चिदपृथक्सिद्धिलक्षणः ।
संबन्धः स्वीकृतः प्राज्ञैः तत्स्वरूपं निशम्यताम् ॥
सिद्धिर्नाम स्थितिः ज्ञप्तिः उत्पत्तिश्चापि कथ्यते ।
पृथक्स्थित्यादयो यस्य न सन्ति यदपेक्षया ॥
तयोस्स्यादपृथक्सिद्धिः संबन्ध इति गम्यते ।
कार्यादिकारणादीनां सा स्यादयुतसिद्धयोः ॥
अविष्वग्भावनाम्नाऽयं संबन्धः पुनरार्हतैः ।
स्वीकृतः सोऽपि देशानां भेदस्यैव निषेधकृत् ॥
कथंचित्तादात्म्यरूपमिति पातञ्जलादिभिः ।
स्वीकृतं वस्तुतस्तत्र फलभेदो न विद्यते ॥
22 अथापृथक्सिद्धिवादतात्पर्यस्येह संग्रहः ।
क्रियते बुद्धिशुद्धयर्थं यन्मूलं सर्वदर्शनम् ॥

सम्बन्धवादः 26
यच्च वस्तुपरिच्छेदशून्यं ब्रह्माभिधीयते ।
तत्स्यादिदमिदं नेति निर्देशानर्हतात्मकम् ॥
तच्च स्वरूपाभेदात्स्यादपृथक्सिद्धितोऽपिवा ।
जडाजडविभागश्च प्रमाणपरिनिष्ठितः ॥
ततोऽपृथक्सिद्धसत्ताकत्वात्तत्स्यादिति स्थितम् ।
तच्च द्वैधैव घटते न प्रकारान्तरस्थितिः ॥
तत्र चैतत्सत्त्वभिन्नसत्त्वशून्यत्वतोऽथवा ।
यदधीना यस्य सत्ता तत्तदित्येव भण्यते ॥
इति स्मृत्यैतदायत्तसत्ताकत्वाद्भेवेद्वापि ।
तत्राद्यं तु विशेष्याख्यसत्ताशून्यत्वतोऽथच ॥
व्यतिरिक्तस्वरूपस्य विशेषणदलस्य वा ।
अभावात्तत्राद्यपक्षः बाह्याद्वैताभ्युपागतः ॥
अनन्तरस्तु वेदान्ताद्वैताभ्युपगतो मतः ।
विशिष्टाद्वैतसिद्धान्ते तत्सत्तायत्तसत्तया ॥
अपृथक्सिद्धिरुरीकृता तत्र द्वयी गतिः ।
ब्रह्मसत्त्वेनैव सत्त्वं प्रपञ्चस्योपपद्यते ॥
अतिरिक्ता नास्ति सत्ता गुणजातिनयादिति ।
इयमेका रीतिरन्या त्ववधानेन बुद्धयताम् ॥
प्रपञ्चे चापि सत्ताऽस्ति प्रमाणपरिनिष्ठिता ।
सा ब्रह्मसत्तायत्ता स्यादित्येकेषां विनिर्णयः ॥

262 मानमेयरहस्यश्लोकवार्तिके
द्विधाऽपि जगतो नास्ति मिथ्यात्वं तुच्छताऽपिवा
एवं द्वैतादिसिद्धान्ते निर्णीता प्रायशो गतिः ॥
(54) अभाववादः.
1 अथचाभावतत्त्वस्य जिज्ञासाऽत्र प्रवर्तते ।
अभावतत्त्वव्यत्यासाद्विवादाना समुद्भवः ॥
अभावो निस्स्वभावस्स्यान्न कार्यं नापि कारणम् ।
तस्मान्नोत्पद्यते नैवोच्छिद्यते नित्य एव सः ॥
नित्येन प्रागभावेन ध्वंसेनापिच तादृशा ।
ग्रस्तं विश्वं निस्स्वभावं तच्छून्यमिति सौगताः ।
तत्रातिरिक्तमपरे त्वभावं नानुजानते ।
अनुजानन्तोऽपि परे तत्तत्त्वं त्वित्थमूचिरे ॥
2 नास्तीत्याद्यध्यक्षसिद्धो ह्यभावो भूतलादिषु ।
घटादेः, वस्तुभूतोऽसौ नहि निह्नवमर्हति ॥
अभावव्यवहारोऽपि निःशङ्कगमनादिकः ।
तन्मात्रानुभवेनैव ख्यातो निष्कण्टकाध्वसु ॥
यदा यत्र च दृश्यत्वे सत्यप्यनुपलम्भनम् ।
तदभावव्यवहृतिस्तदानीं संप्रवर्तते ॥
ज्ञेयाभावस्य तु ज्ञानाभावरूपत्वकल्पने ।
अभावाख्यपदार्थोऽङ्गीकृत एव भवेन्ननु ॥

अभाववादः 26
दर्शनादर्शनाभ्यां हि सदसत्त्वविनिर्णयः ।
दर्शनादर्शने एव सदसत्त्वे कथं पुनः ॥
अभावो बुद्ध्यभावश्चेत् बुद्धिस्स्यात्प्रतियोगिनी ।
व्यर्थस्त्वियान् प्रयासस्स्यात् जिता विज्ञानवादिनः
अभाववादिनो यत्स्यादभावज्ञानकारणम् ।
तदेव व्यवहारस्य हेतुस्स्यादिति यो वदेत् ॥
घटादिव्यवहाराणामपि तज्ज्ञानकारणात् ।
संसिद्धेस्सोऽपह्नुवीत ज्ञानमात्रं च चारुवाक् ॥
जगतो मिश्ररूपत्वं स्यादभावो नचेदिह ।
क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ॥
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ।
अप्सु गन्धो रसश्चाग्नौ वाय्वादावपि ते गुणाः ॥
प्रागभावादिभेदेन नाभावो भिद्यते यदि ।
नच स्याद्व्यवहारोऽयं कारणादिविभागतः ॥
नचावस्तुन एवैते भेदाः, तेनास्य वस्तुता ।
मेयो यद्वदभावो हि मानमप्येवमिष्यताम् ॥
स चतुर्विध इत्युक्तः प्रागभावादिभेदतः ।
अपेक्षाभावसामर्थ्याभावाभ्यां षड्विदुः परे ॥
क्षीरे दध्यादि यन्नास्ति प्रागभावस्स उच्यते ।
गवि योऽश्वाद्यभावस्स्यात्सोऽन्योन्याभाव ईर्यते ॥