मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 300, कुल 672 में से
संदर्भ में पढ़ेंअनागतमतीतं च विप्रकृष्टं तथेतरम् ।
विषयीकुरुते बुद्धिः प्राकट्येऽपि समो विधिः ॥
अतीतानागतत्वाभ्यां अद्यापि स्तो हि वस्तुनी ।
अतो ज्ञानस्य सम्बन्धानुपपत्तिर्न विद्यते ॥
असतोर्पि सामान्याद्यात्मना वृत्तिसंभवात् ।
प्राकट्याश्रयता भाट्टैरगत्यैवोपपादिता ॥
स्वयंप्रकाशवादेऽपि संबन्धो बोध्यबोधयोः ।
मानसाध्यक्षवेद्यस्स्यात् अन्यथा स न सिद्ध्यति ।
तत्र त्रितयभावेन सर्वसाधारणोऽपरः ।
विषयत्वात्मकः कश्चित्पदार्थस्सेद्धुमर्हति ॥
विषयत्वं व्यवहृतिभाक्त्वं त्विति गुरोर्मतम् ।
अतीतादौ द्वत्वादिसंख्यावदुपपद्यते ॥
स्वरूपलक्षणः कश्चिदन्यैः विषयतात्मकः ।
नैयायिकैरुपगतः ह्युपलम्भानुरोधतः ॥
पदार्थान्तरमित्याहुः विषयत्वं तु केचन ।
नव्यनैयायिकाः तत्तु सर्वदोषप्रशान्तये ॥
18 ज्ञानार्थयोस्तु संयोगमाहुर्धीद्रव्यवादिनः ।
पर्यायवादिनो ये च ये वा विकृतिवादिनः ॥
एवं निरूपिताः प्रायः विषयत्वाभिधेऽधुना ।
संबन्धे ये विकल्पास्स्युः सर्वदर्शनभूमयः ॥