सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 302, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 302

स्वातन्त्र्यं पारतन्त्र्यं च युगपन्न च युज्यते ।
इत्येकमपरं चापि विद्वद्भिर्निरूपितम् ॥
कर्ता सिद्धः कर्म साध्यं कालभेदस्तयोर्मतः ।
एककालत्वमुभयोः विरुद्धमिति निर्णयः ॥
एष कालविरोधः स्यात् पूर्वो भवति दैशिकः ।
क्रियैव कारकं येषां सौगतानामभीप्सितम् ॥
तेषां कालोऽथवा देशः नास्त्येवहि विरोधकृत् ।
तस्माद्विरोधाविरोधविवादो वासनानुगः ॥
21 समवायस्थले कश्चिदपृथक्सिद्धिलक्षणः ।
संबन्धः स्वीकृतः प्राज्ञैः तत्स्वरूपं निशम्यताम् ॥
सिद्धिर्नाम स्थितिः ज्ञप्तिः उत्पत्तिश्चापि कथ्यते ।
पृथक्स्थित्यादयो यस्य न सन्ति यदपेक्षया ॥
तयोस्स्यादपृथक्सिद्धिः संबन्ध इति गम्यते ।
कार्यादिकारणादीनां सा स्यादयुतसिद्धयोः ॥
अविष्वग्भावनाम्नाऽयं संबन्धः पुनरार्हतैः ।
स्वीकृतः सोऽपि देशानां भेदस्यैव निषेधकृत् ॥
कथंचित्तादात्म्यरूपमिति पातञ्जलादिभिः ।
स्वीकृतं वस्तुतस्तत्र फलभेदो न विद्यते ॥
22 अथापृथक्सिद्धिवादतात्पर्यस्येह संग्रहः ।
क्रियते बुद्धिशुद्धयर्थं यन्मूलं सर्वदर्शनम् ॥