मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 292, कुल 672 में से
संदर्भ में पढ़ेंभावाभावोपाधियोगः कार्यकारणता यदि ।
योगोपाधी न तावेव कार्यकारणताऽत्र किम् ॥
पश्यन्नेकमदृष्टस्य दर्शने तददर्शने ।
अपश्यन् कार्यमन्वेति विनाऽप्याख्यातृभिर्जनैः ॥
दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसंभवात् ।
कार्यादिश्रुतिरप्यत्र लाघवार्थं निवेशिता ॥
तद्भावाभावतः कार्यगतिर्याऽप्यनुवर्ण्यते ।
संकेतविषयाख्या सा सास्नादेर्गौर्गतिर्यथा ॥
भावे भाविनि तद्भावः भाव एवच भाविता ।
प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः ॥
एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः ।
विकल्पा दर्शयन्त्यर्थान्मिथ्यार्थाः घटितानिव ॥
भिन्ने का घटनाऽभिन्ने कार्यकारणताऽपि का ।
भावे ह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥
4 संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् ।
अन्योन्यानुपकाराच्च न संबन्धी च तादृशः ॥
जनने चापि कार्यस्य केनचित्समवायिना ।
समवायि तदा नासौ न ततोऽतिप्रसङ्गतः ॥
तयोरनुपकारेऽपि समवाये परत्र वा ।
संबन्धो यदि विश्वं स्यात्समवायि परस्परम् ॥