मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 295, कुल 672 में से
संदर्भ में पढ़ेंसम्बन्धवादः 253
स च व्योमवदेवैकः नित्यस्सर्वगतोऽपिच ।
तस्यानेकत्वमिच्छन्ति चापरे नव्यतार्किकाः ॥
इति तार्किकसिद्धान्तः तत्र कौमारिलाशयः ।
समवायो हि संबन्धान्तराभावेऽपि योजयेत् ॥
स्वभावादेव तावेव यथा संबन्धिनौ तथा ।
विशिष्टव्यवहारं तमातन्वाते स्वभावतः ॥
द्रव्याद्रव्ये च तादात्म्यात्, समवायेन किं फलम्।
त्रैकाल्यं यदि नित्यत्वं कालायोगिनि तत्कथम् ॥
यदि कारणशून्यत्वं यद्वा प्रध्वंसशून्यता ।
नित्यत्वं तत्प्रसज्येत प्रध्वंसप्रागभावयोः ॥
उभयान्तविहीनत्वं नित्यत्वं चेन्निरुच्यते ।
नित्ययोरिव सर्वेषां नित्यताऽत्र प्रसज्यते ॥
विशेषणविशेष्यात्मस्वभावान्नियमो यदि ।
अजागलस्तनसमस्समवायः प्रकल्पितः ॥
प्राभाकराः पुनस्तत्र काश्यपं मतमास्थिताः ।
तयोरेकत्वनित्यत्वाविवादोऽस्ति विशेषतः ॥
समवायाख्यसंबन्धानेकानित्यत्वहेतुतः ।
व्यक्त्यैक्यं सितनीलादेः विभुत्वं चोपपाद्यते ॥
नीलो नष्टस्सितो जातः इत्याद्या अपि बुद्धयः ।
संबन्धमूलास्सिद्ध्यन्ति लाघवं च महत्ततः ॥