मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 288, कुल 672 में से
संदर्भ में पढ़ें246 मानमेयरहस्यश्लोकवार्तिके
यत्समानवयोवेषपिण्डद्वयविलोकने ।
तत्क्षणादक्षतो भेदो नावभातीति भाषितम् ॥
नैतावता विभागस्य प्रत्यक्षत्वं निवर्तते ।
सादृश्यदोषात्तत्र स्याद्विभागस्यानवग्रहः ॥
समानरूपसंस्थानशुक्तिकाकलधौतयोः ।
विवेकस्सहसा नाभादिति कालान्तरेऽपि किम्
विश्वामित्रे च कर्माधिकारमात्रस्य संभवः ।
न विप्रतादेः सांकर्यादिति कौस्तुभकृन्मतम् ॥
यामुनाचार्यहेमाद्रिमाधवप्रमुखा बुधाः ।
पन्थानमनुरुन्धाना अमुमेवेति निर्णयः ॥
11 नाध्यक्षगम्या जातिस्सा किंतु स्मरणलक्षणा ।
इति मेधातिथेः विज्ञानेश्वरस्य च निर्णयः ॥
तथा सेश्वरमीमांसातत्त्वटीकादिकारिणः ।
औपदेशिकसिद्धान्तं स्थापयामासुरुर्जितम् ॥
तदन्वयविशेषेषु संभवो विप्रतादिकम् ।
अन्वयव्यतिरेकाभ्यां यथालोकं प्रतीयते ॥
संभवोऽपिच साङ्ख्याः स्यान्मातुरेवानुभाविकः ।
द्रव्यादीनां धर्मतावदन्येषां त्वौपदेशिकम् ॥
ते सन्ततिविशेषास्स्युः वृद्धा येषु प्रयुञ्जते ।
विप्रादिशब्दं येषां तु गोत्रार्षेयाद्यविस्मृतिः ॥