मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 291, कुल 672 में से
संदर्भ में पढ़ें[Header] असंबन्धवादः 249
पारतन्त्र्यं हि संबन्धः सिद्धे का परतन्त्रता ।
तस्मात्सर्वस्य भावस्य संबन्धो नास्ति तत्त्वतः ॥
रूपश्लेषो हि संबन्धः द्वित्वे स च कथं भवेत् ।
तस्मात्प्रकृतिभिन्नानां संबन्धो नास्ति तत्त्वतः ॥
द्वयोरेकाभिसंबन्धात्संबन्धो यदि तद्द्वयोः ।
कस्संबन्धोऽनवस्था च, न संबन्धमतिस्ततः ॥
तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः ।
इत्यमिश्राः स्वयं भावाः तान्मिश्रयति कल्पना ॥
तामेवचानुरुन्धानैः क्रियाकारकवाचिनः ।
भावभेदप्रतीत्यर्थं संयोज्यन्तेऽभिधायकाः ॥
3 कार्यकारणभावाख्यः संबन्धो न भविष्यति ।
तयोरसहभावेन द्विष्ठस्यास्याप्यसंभवात् ॥
क्रमेण भाव एकत्र वर्तमानोऽन्यनिस्पृहः ।
तद्भावेऽपि तद्भावात् संबन्धो नैकवृत्तिमान् ॥
यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते ।
उपकारी ह्यपेक्ष्यः स्यात् कथं चोपकरोत्यसन् ॥
यद्येकार्थाभिसंबन्धात्कार्यकारणता तयोः ।
प्राप्ता द्वित्वाभिसंबन्धात्सव्येतरविषाणयोः ॥
द्विष्ठो हि कश्चित्संबन्धो नातोऽन्यत्तरस्य लक्षणम् ।
येन चैतस्य संख्यादेः व्यवस्थाप्येत भिन्नता ॥
[Footer] M.R. 32