मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 287, कुल 672 में से
संदर्भ में पढ़ेंजातिवादः
मनूनां सर्गमकरोन्मुखबाहूरुपादतः ।
एते सावर्ण्यनामानः विष्वक्सेनागमोदिताः ॥
महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा ।
इत्यत्र मनवस्तादृक्सावर्ण्या इति भाषितम् ॥
10 प्रत्यक्षं ब्राह्मणत्वादि सहकारिव्यपेक्षया ।
घृतत्वादिवदित्युक्तं मीमांसातन्त्रवार्तिके ॥
सहकार्यत्रोपदेशः स पारम्परिको मतः ।
समूहलेख्यानि परंपराऽविस्मृतिकारणम् ॥
नहि तत्करणं लोके वेदे वा किंचिदीदृशम् ।
इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥
तथाच संततिस्मृत्याऽनुगृहीतेन चक्षुषा ।
विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥
तथाच दृश्यते नानासहकारिव्यपेक्षया ।
चक्षुषो जातिविज्ञानजनकत्वं यथोदितम् ॥
सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् ।
तैलाद्धृतं विलीनं च गन्धेन तु रसेन वा ॥
भस्मप्रच्छादितो वह्निः स्पर्शनेनोपलभ्यते ।
अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥
संस्थानेन घटत्वादि ब्राह्मणत्वादि योनितः ।
क्वचिदाचारतश्चापि सम्यगाज्ञाऽनुपालितात् ॥