सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

Kavyalankara of Acharya Bhamaha with Commentary

आचार्य भामह (सम्पादक: पण्डित देवेन्द्रनाथ शर्मा) द्वारा

DevanagariHindipublished230 पृष्ठ

212 BHĀMAHĀLAṄKĀRA
Page
समाहितं राजमित्रे 134 साधुसाधारणत्वादिः
समुदायाभिधानस्य 119 साध्यधर्मानुगमतः
समुदायार्थशून्यं यत् 167 साध्यसाधनधर्माभ्यां
संस्कृतं प्राकृतं चान्यत् 13 साध्यसाधनयोरुक्तिः
संस्कृतानाकुलश्रव्य 24 साध्येन लिङ्गानुगतिः
संस्कृताऽसंस्कृता चेष्टा 24 साध्यः खगोहेष्विव
सरः शरत्प्रसन्नाम्भो 93 सामान्यगुणनिर्देशात्
सरूपवर्णविन्यासं 54 सालातुरीयमतमेतदनुक्रमेण
सरूपशेषं तु पुमान् 182 सावर्ण्यवज्झयो हस्य
सर्गबन्धोऽभिनेयार्थे 15 सा समासोक्तिरुद्दिष्टा
सर्गबन्धो महाकाव्यं 16 सितासिताक्षी
सर्वथा पदमप्येकं 9 सितासिते पक्ष्मवती
सर्वे सर्वेण सारूप्यं 88 सिद्धो यश्चोपसंख्यानात्
सर्वशास्त्रविरुद्धत्वात् 173 सुखसेव्यो जनानां त्वं
सर्वेभ्यश्च भृशादिभ्यो 182 सुगन्धिकुसुमानम्रा
सर्वैवातिशयोक्तिस्तु 118 सुगन्धि नयनानन्दि
स लोलमालानीलालि 54 सुजनावगमाय भामहेन
ससंदेहं वचः स्तुत्यै 154 सुधियामपि नैवेदं
ससंशयमिति प्राहुः 168 सुपां तिङां च व्युत्पत्तिं
स साम्यमापादयति 82 सूत्रकृत्पदकारेष्ट
सहितं सहितं कर्तुं 58 सूत्रज्ञापकमात्रेण
सहोक्तिपरिवृत्ती च 128 सूत्राम्भसं पदावर्तं
साक्षादरूढं वाच्येऽर्थे 41 सूर्याशुसंमीलितलोचनेषु
साधुना साऽधुना तेन 58 सैषा सर्वैव वक्रोक्तिः
साधु वाऽसाधु वाऽऽगामि 108 सोदाहरणलक्ष्माणो
साधुः संसारात् 59 सौधेषु घनमुक्तानां

FIFTH PARICCHHEDA 177
काशा हरन्ति हृदयममी कुमुमसौरभात् ।
अपामभ्यर्णवर्तित्वादेते ज्ञेयाः शरारयः ॥ ५३ ॥
असौ शुक्लान्तनेत्रत्वाच्चकोर इति गृह्यताम् ।
तुल्यजातावदृष्टत्वात् साधयत्यचकोरताम् ॥ ५४ ॥
उक्तस्यार्थस्य दृष्टान्तः प्रतिबिम्बनिदर्शनम् ।
ननूपमाऽनुमैवास्तु न हेत्वनभिधानतः ॥ ५५ ॥
साध्यसाधनयोरुक्तिरुक्तादन्यत्र नेष्यते ।
मुखं पद्ममिवेत्यत्र किं साध्यं किं च साधनम् ॥ ५६ ॥
इति प्रयोगस्य यथा कलावपि भवानिह ।
श्रेयान् वृद्धानुशिष्टत्वात् पूर्वे कृतयुगे यथा ॥ ५७ ॥
यत्र दृष्टान्तमात्रेण व्यज्येते साध्यसाधने ।
तमाहुः शुद्धदृष्टान्तं तन्मात्राविष्कृतेर्यथा ॥ ५८ ॥
भरतस्त्वं दिलीपस्त्वं त्वमेवैलः पुरूरवाः ।
त्वमेव वीर प्रद्युम्नस्त्वमेव नरवाहनः ॥ ५९ ॥
कथमेकपदेनैव व्यज्येरन्नस्य ते गुणाः ।
इति प्रयुञ्जते सन्तः केचिद्विस्तरभीरवः ॥ ६० ॥
पद्मेकं वरं साधु नार्वाचीननिबन्धनम् ।
वैपरीत्याद्विपर्यासं कीर्तेरपि करोति तत् ॥ ६१ ॥
अहृद्यमसुनिर्भेदं रसवत्त्वेऽप्यपेशलम् ।
काव्यं कपित्थमामं यत् केषांचित्तादृशं यथा ॥ ६२ ॥
प्रजाजनश्रेष्ठवरिष्ठभूभृ-
च्छिरोऽर्चितांघ्रिः पृथुकीर्तिधिष्ण्य ।
12

अहिन्नपद्मस्य जलारिधाम्न-
स्तवैव नान्यस्य सुतस्य वृत्तम् ॥ ६३ ॥
अंशुमद्भिश्च मणिभिः फलनिम्नैश्च शाखिभिः ।
फुल्लैश्च कुसुमैरन्ये वाचोऽलंकुर्वते यथा ॥ ६४ ॥
शुभमरकतपद्मरागचित्रे
सफलसपल्लवभूरिचारुवृक्षे ।
बहुकुसुमविभूषिते स तस्थौ
सुरमुनिसिद्धयुते सुमेरुपृष्ठे ॥ ६५ ॥
तदेभिरङ्गैर्भूष्यन्ते भूषणोपवनस्रजः ।
वाचां वक्रार्थशब्दोक्तिरलंकाराय कल्पते ॥ ६६ ॥
विरुद्धपदमस्वर्थं बहुपूरणमाकुलम् ।
कुर्वन्ति काव्यमपरे व्यायताभीप्सया यथा ॥ ६७ ॥
एलातक्कोलनागस्फुटवकुललता चन्दनस्पन्दनाढ्यो
मुक्ताकर्पूरचक्रागरुकमनाशिलास्थासकव्याततीरः ।
शङ्खव्राताकुलोऽन्तस्तिमितिमकरकुलाकीर्णवीचीप्रतानो
दध्रे यस्याम्बुराशिः शशिकुमुदसुधाक्षीरशुद्धां सुकीर्तिम् ॥
इति निगदितास्तास्ता वाचामलंकृतयो मया
बहुविधकृतीर्दृष्ट्वाऽन्येषां स्वयं परितर्क्य च ।
अथितवचसः सन्तोऽभिज्ञाः प्रमाणमिहापरे
गुरुतरधियामस्वाराधं मनोऽकृतबुद्धिभिः ॥ ६९ ॥
॥ इति भामहालंकारे पञ्चमः परिच्छेदः ॥

षष्ठः परिच्छेदः ।
सूत्राम्भसं पदावर्तं पारायणरसातलम् ।
धातूणादिगणग्राहं ध्यानग्रहबृहत्प्लवम् ॥ १ ॥
धीरैरालोकितप्रान्तममेधोभिरसूयितम् ।
सदोपभुक्तं सर्वाभिरन्यविद्याकरेणुभिः ॥ २ ॥
नापारयित्वा दुर्गाधममुं व्याकरणार्णवम् ।
शब्दरत्नं स्वयंगम्यमलं कर्तुमयं जनः ॥ ३ ॥
तस्य चाधिगमे यत्नः कार्यः काव्यं विधित्सता ।
परप्रत्ययतो यत्तु क्रियते तेन का रतिः ॥ ४ ॥
नान्यप्रत्ययशब्दा वागाविभाति मुदे सताम् ।
परेण धृतमुक्तेव सरसा कुसुमावली ॥ ५ ॥
मुख्यस्तावदयं न्यायो यत्स्वशक्त्या प्रवर्तते ।
अन्यसारखता नाम सन्त्यन्योक्तानुवादिनः ॥ ६ ॥
प्रतीतिरर्थेषु यतस्तं शब्दं ब्रुवते परे ।
धूमभासोरपि प्राप्ता शब्दताऽग्न्यनुमां प्रति ॥ ७ ॥
नन्वकारादिवर्णानां समुदायोऽभिधेयवान् ।
अर्थप्रतीतये गीतः शब्द इत्यभिधीयते ॥ ८ ॥
प्रत्येकमसमर्थानां समुदायोऽर्थवान्कथम् ।
वर्णानां क्रमवृत्तित्वान्न्याय्या नापि च संहतिः ॥ ९ ॥

180 BHĀMAHĀLAṄKĀRA
न चापि समुदायिभ्यः समुदायोऽतिरिच्यते ।
दारुभित्तिभुवोऽतीत्य किमन्यत्सद्म कल्प्यते ॥ १० ॥
तस्मात्कूटस्थ इत्येषा शाब्दी वः कल्पना वृथा ।
प्रत्यक्षमनुमानं वा यत्र तत्परमार्थतः ॥ ११ ॥
शपथैरपि चादेयं वचो न स्फोटवादिनाम् ।
नभःकुसुममस्तीति श्रद्दध्यात् कः सचेतनः ॥ १२ ॥
इयन्त ईदृशा वर्णा ईदृगर्थाभिधायिनः ।
व्यवहाराय लोकस्य प्रागित्थं समयः कृतः ॥ १३ ॥
स कूटस्थोऽनपायी च नादादन्यश्च कथ्यते ।
मन्दाः साङ्केतिकानर्थान् मन्यन्ते पारमार्थिकान् ॥ १४ ॥
विनश्वरोऽस्तु नित्यो वा सम्बन्धोऽर्थेन वा सता ।
नमोऽस्तु तेभ्यो विद्वद्भ्यः प्रमाणं येऽस्य निश्चितौ ॥ १५ ॥
अन्यापोहेन शब्दोऽर्थमाहेत्यन्ये प्रचक्षते ।
अन्यापोहश्च नामान्यपदार्थापाकृतिः किल ॥ १६ ॥
यदि गौरित्ययं शब्दः कृतार्थोऽन्यनिराकृतौ ।
जनको गवि गोबुद्धेर्मृग्यतामपरो ध्वनिः ॥ १७ ॥
अर्थज्ञानफलाः शब्दा न चैकस्य फलद्वयम् ।
अपवादविधिज्ञाने फले चैकस्य वः कथम् ॥ १८ ॥
पुरा गौरिति विज्ञानं गोशब्दश्रवणाद्भवेत् ।
येनागोप्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः ॥ १९ ॥
वर्णभेदादिदं भिन्नं वर्णाः स्वांशा विकल्पतः ।
के शब्दाः किंच तद्वाच्यमित्यहो वर्त्म दुस्तरम् ॥ २० ॥

द्रव्यक्रियाजातिगुणभेदात् ते च चतुर्विधाः ।
यदृच्छाशब्दमप्यन्ये डित्थादिं प्रतिजानते ॥ २१ ॥
नानाभाषाविषयिणामपर्यन्तार्थवर्तिनाम् ।
इयत्ता केन वाऽमीषां विशेषादवधार्यते ॥ २२ ॥
वक्रवाचां कवीनां ये प्रयोगं प्रति साधवः ।
प्रयोक्तुं ये न युक्ताश्च तद्विवेकोऽयमुच्यते ॥ २३ ॥
नाप्रयुक्तं प्रयुञ्जीत चेतःसंमोहकारिणम् ।
तुल्यार्थत्वेऽपि हि ब्रूयात् को हन्तिं गतिवाचिनम् ॥ २४ ॥
श्रौलादिं न तु दुर्बोधं न दुष्टादिमपेशलम् ।
ग्राम्यं न पिण्डीशूरादिं न डित्थादिमपार्थकम् ॥ २५ ॥
नाप्रतीतान्यर्थार्थत्वं धात्वनेकार्थतावशात् ।
न लेशज्ञापकाकृष्टं स हन्ति ध्याति वा यथा ॥ २६ ॥
न शिष्टैरुक्तमित्येव न तन्त्रान्तरसाधितम् ।
छन्दोवदिति चोत्सर्गान्न चापि च्छान्दसं वदेत् ॥ २७ ॥
क्रमागतं श्रुतिसुखं शब्दमर्थ्यमुदीरयेत् ।
अतिशेते ह्यलंकारमन्यं व्यञ्जनचारुता ॥ २८ ॥
सिद्धो यश्चोपसंख्यानादिष्ट्या यश्चोपपादितः ।
तमाद्रियेत प्रायेण न तु योगविभागजम् ॥ २९ ॥
इयं चन्द्रमुखी कन्या प्रकृत्यैव मनोहरा ।
अस्यां सुवर्णालंकारः पुष्णाति नितरां श्रियम् ॥ ३० ॥
वृद्धिपक्षं प्रयुञ्जीत संक्रमेऽपि मृजेर्यथा ।
मार्जन्त्यधररागं ते पतन्तो बाष्पबिन्दवः ॥ ३१ ॥

182 BHĀMAHĀLAṄKĀRA
सरूपशेषं तु पुमान्स्त्रिया यत्र च शिष्यते ।
यथाह वरुणाविन्द्रौ भवौ शर्वौ मृडाविति ॥ ३२ ॥
यथा·पटयतीत्यादि णिच्प्रातिपदिकात्ततः ।
णाविष्ठवदितीष्ट्या च तथा क्रशयतीत्यपि ॥ ३३ ॥
प्रयुञ्जीताव्ययीभावमदन्तं नाप्यपञ्चमी ।
तृतीयासप्तमीपक्षे नालुग्विषयमानयेत् ॥ ३४ ॥
तिष्ठद्गुप्रभृतौ वाच्यौ नक्तंदिवसगोचरौ ।
यथा विद्वानधीतेऽसौ तिष्ठद्गु च वहद्गु च ॥ ३५ ॥
शिष्टप्रयोगमात्रेण न्यासकारमतेन वा ।
तृचा समस्तषष्ठीकां न कथंचिदुदाहरेत् ॥ ३६ ॥
सूत्रज्ञापकमात्रेण वृत्रहन्ता यथोदितः ।
अकेन च न कुर्वीत वृत्तिं तद्गमको यथा ॥ ३७ ॥
पञ्चराजीति च यथा प्रयुञ्जीत द्विगुं स्त्रियाम् ।
नपुंसकं तत्पुरुषं पुरुहूतसभं यथा ॥ ३८ ॥
सर्वेभ्यश्च भृशादिभ्यो वदेल्लुप्तहलं यथा ।
प्रियोन्मनायते सा ते किं शठाभिमनायसे ॥ ३९ ॥
तीयैकवचः षष्ठ्यामामन्तं च वदेत् क्विपि ।
थोदितं बलभिदा सुरुचां विद्युतामिव ॥ ४० ॥
सन्तमपि यद्वाक्यं तत्तथैव प्रयोजयेत् ।
थोच्यतेऽम्भसा भासा यशसामम्भसामिति ॥ ४१ ॥
से स्त्रियां च कस्वन्तमिच्छन्त्यच्छान्दसं किल ।
नेयुषामपि दिवं यथा न व्येति चारुता ॥ ४२ ॥

SIXTH PARICCHEDA 183
इभकुम्भनिभे बाला दधुषी कञ्चुकं स्तने ।
'रतिखेदपरिश्रान्ता जहार हृदयं नृणाम् ॥ ४३ ॥
शबलादिभ्योऽतितरां भाति णिङिवाहितो यथा ।
बलाकाः पश्य सुश्रोणि घनाञ्छवलयन्त्यमूः ॥ ४४ ॥
शिशिरासारकणिकासदृशः सेतुगन्धवाट् ।
त्वां वीजयति सुश्रोणि रतिखेदालसेक्षणाम् ॥ ४५ ॥
एवं णिचः प्रयोगस्तु सर्वत्रालंकृतिः परा ।
लिङ्गत्रयोपपन्नं च ताच्छील्यविषयं णिनिम् ॥ ४६ ॥
तस्या हारी स्तनाभोगो वदनं हारि सुन्दरम् ।
हारिणी तनुरत्यन्तं कियन्न हरते मनः ॥ ४७ ॥
ताच्छील्यादिषु चेष्यन्ते सर्व एव तृनादयः ।
विशेषेण च तत्रेष्टा युच्कुरज्वरजिष्णवः ॥ ४८ ॥
क्तिन्नन्तं च प्रयुञ्जीत संगतिः संहतिर्यथा ।
शाकारौ जागुरिष्टौ च जागर्या जागरा यथा ॥ ४९ ॥
उपासनेति च युचं नित्यमासेः प्रयोजयेन् ।
ल्युटं च कर्तृविषयं देवनो रमणो यथा ॥ ५० ॥
अणन्तादपि ङीबिष्टो लक्ष्मीः पौरन्दरी यथा ।
अब्महारजनाल्लाक्षारोचनाभ्यां तथा च ठक् ॥ ५१ ॥
ङ्मतुविष्टं च कुमुदाद्यथेयं भूः कुमुद्वती ।
ठक् चापि तेन जयतीत्याक्षिकः शास्त्रिको यथा ॥ ५२ ॥
हितप्रकरणे णं च सर्वशब्दात् प्रयुञ्जते ।
ततश्छमिष्टथा च यथा सार्वः सर्वीय इत्यपि ॥ ५३ ॥

184 BHĀMAHĀLAṄKĀRA
वदेदिमनिजन्तं च पटिमा लघिमा यथा ।
विशेषेणेयसुन्निष्ठो ज्यायानाप कनीयसीम् ॥ ५४ ॥
द्वयसद्दघ्नचाविष्टौ प्रमाणविषयौ यथा ।
जानुदघ्नी सरिन्नारीनितम्बद्वयसं सरः ॥ ५५ ॥
मतुप्प्रकरणे ज्योत्स्नातमिस्त्राशृङ्गिणादयः ।
इनश्च फलबर्हाभ्यां फलिनो बर्हिणो यथा ॥ ५६ ॥
इनिः प्रयुक्तः प्रायेण तथा ठंश्च मनीषिभिः ।
तत्रापि मेखलामालामायानां सुतरां मतौ ॥ ५७ ॥
अभ्यस्ताज्झेरदादेशे दधतीत्यादयोऽपि च ।
रोदिति स्वपितीत्यादि सहेता सार्वधातुकम् ॥ ५८ ॥
अभ्यस्तेषु प्रयोक्तव्यमदन्तं घुभृञोः शतुः ।
असौ दधदलंकारं स्रजं बिभ्रच्च शोभते ॥ ५९ ॥
[न तवर्गं शकारेण कचित् सं]योगिनं वदेत् ।
यथैतच्छ्याममाभाति वनं वनजलोचने ॥ ६० ॥
नैकत्रौकारभूयस्त्वं गतो यातो हतो यथा ।
सावर्ण्यवज्झयो हस्य ब्रूयान्नान्यत्र पद्धतेः ॥ ६१ ॥
सालातुरीयमतमेतदनुक्रमेण
को वक्ष्यतीति विरतोऽहमतो विचारात् ।
शब्दार्णवस्य यदि कश्चिदुपैति पारं
भीमाम्भसश्च जलधेरिति विस्मयोऽसौ ॥ ६२ ॥
विद्यानां सततमपाश्रयोऽपरासां
तासूक्तान् च विरुणद्धि कांश्चिदर्थान् ।

श्रद्धेयं जगति मतं हि पाणिनीयं
माध्यस्थ्याद्भवति न कस्यचित्प्रमाणम् ॥ ६३ ॥
अवलोक्य मतानि सत्कवीना-
मवगम्य स्वधिया च काव्यलक्ष्म ।
सुजनावगमाय भामहेन
ग्रथितं रक्रिलगोमिसूनुनेदम् ॥ ६४ ॥
षष्ट्या शरीरं निर्णीतं शतषष्ट्या त्वलंकृतिः ।
पञ्चाशता दोषदृष्टिः सप्तत्या न्यायनिर्णयः ॥ ६५ ॥
षष्ट्या शब्दस्य शुद्धिः स्यादित्येवं वस्तुपञ्चकम् ।
उक्तं षड्भिः परिच्छेदैर्भामहेन क्रमेण वः ॥ ६६ ॥
॥ इति भामहालंकारे षष्ठः परिच्छेदः ॥
समाप्तश्चायं ग्रन्थः ।

Quotations from Bhāmaha by others in the
Alphabetical order of names.

  1. Abhinavagupta in Dhvanyālokalochana,
    (N. S. P. Edn.)
    धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
    करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥ I—2.
    उपेयुषामपि दिवं सन्निबन्धविधायिनाम् ।
    आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥ I—6.
    शब्दश्छन्दोऽभिधानार्थाः । I—9.
    वक्राभिधेयशब्दोक्तिरिष्टा वाचामलंकृतिः । I—36.
    आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते । II—25.
    मदो जनयति प्रीतिं साऽनङ्गं मानभङ्गुरम् ।
    स प्रियासंगमोत्कण्ठां साऽसह्यां मनसः शुचम् ॥ II—27.
    प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
    वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥ II—68.
    अहं त्वा यदि नेक्षेय क्षणमप्युत्सुका ततः ।
    इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ॥ II—69.
    गृहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनौ ।
    विप्रा न भुञ्जते ... ... ... III— 9
    अपह्नुतिरभीष्टस्य किंचिदर्थगतोपमा । III—21.
    नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।
    अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥ III—22.
    एकदेशस्य विगमे या गुणान्तरसंस्थितिः ।
    विशेषप्रथनायासौ विशेषोक्तिरिति स्मृता ॥ III—23.

QUOTATIONS 187
स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥ III—24.
अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।
अप्रस्तुतप्रशंसा सा त्रिविधा परिकीर्तिता ॥ III—29.
अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥ III—34.
उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससंदेहं वचः स्तुत्यै ससंदेहं विदुर्बुधा ॥ III—43.
तुल्योदयावसानत्वादृतेऽस्तं प्रति भास्वति ।
वासाय वासरः क्लान्तो विशतीव तमोगुहाम् ॥ III—48.
स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपयुञ्जते ।
प्रथमालीढमधवः पिबन्ति कटु भेषजम् ॥ V—3.
2. Ānandavardhana in Dhvanyāloka
(N. S. P. Edn.)
सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलंकारोऽनया विना ॥ II—85.
3. Appayya Dīkshita in Chitramīmāṁsā
(N. S. P. Edn.)
अद्य या मम गोविन्द जाता त्वयि गृहागते ।
कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥ III—5.
यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातो वदन्ति तमनन्वयम् ॥ III—45.
4. Bhoja in Sarasvatīkaṇṭhābharaṇa
असितर्तितुगद्रिच्छित् खःक्षितां पतिरद्विदृक् ।
अमिद्भिः शुभ्रदृग्वृष्टैर्द्विषो जेघ्नीयिष्ट वः ॥ I—46.
किंशुकव्यपदेशेन तरुमारुह्य सर्वतः ।
दग्धादग्धमरण् यानां पश्यतीव विभावसुः ॥ II—92.

188 BHĀMAHĀLAṄKĀRA
5. Daṇḍin in Kāvyādarśa
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति । I—41.
अद्य या मम गोविन्द जाता त्वयि गृहागते ।
कालेनैषा भवेत्प्रीतिस्तवैवागमनात् पुनः ॥ III—5.
अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम् ॥ IV—1.
देशकालकलालोकन्यायागमविरोधि च । IV—2.
समुदायार्थशून्यं यत्तदपार्थमितीष्यते । IV—8.
6. Hemachandra in Kāvyānuśāsana
अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः ।
इयदेवास्तवतोऽन्येन किमुक्तेनाप्रियेण ते ॥ II—69.
गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ।
इत्येवमादि किं काव्यं वार्तामेनां प्रचक्षते ॥ II—87.
नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।
अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥ III—22.
स एकत्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥ III—24.
7. Hemachandra in Kāvyānuśāsanatīkā
सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलंकारोऽनया विना ॥ II—85.
व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः ।
विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् । IV—19.
न स शब्दो न तद्वाच्यं न स न्यायो न सा कला ।
जायते यन्न काव्याङ्गमहो भारो गुरुः कवेः ॥ V—4.

QUOTATIONS 189
8. Jayamaṅgala in Bhaṭṭikāvyaṭīkā—
सर्गः श्लोकः भामहे सर्गः श्लोकः भामहे
10 1 II—5 & 17 10 58 III—21
23 II—27 59 III—23
26 II—21 60 III—31
30 II—30 61 III—35
36 II—71 62 III—27
38 II—68 63 III—33
40 II—75 64 III—35
41 II—77 65 III—37
42 II—79 66 III—39
43 II—81 67 III—41
44 II—89 68 III—43
45 II—91 69 III—45
46 II—93 & 87 70 III—47
48 III—6 71 III—49
50 III—8 72 III—55
53 III—12 [17 12 1 III—53 & 54.
55 III—14, 15,
9. Keśavamiśra in Alaṁkāraśekhara
क्वचिदग्रे प्रसरता क्वचिदापत्य निघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥ II—54.
रसवद्दर्शितस्पष्टशृङ्गारादिरसोदयम् । III—6.
10. Mallinātha in Bhaṭṭikāvyaṭīkā—
भट्टिः XI—1. भामहः II—3.
,, XII—1. ,, III—53 & 54.

190 BHĀMAHĀLAṄKĀRA—
11. Mammaṭa in Kāvya Prakāśa—
6th Ullāsa
रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनिताननम् ॥
रूपकादिमलंकार बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालंकारभेदादिष्टं द्वयं तु नः ॥ I—13 to 15.
10th Ullāsa
सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोऽस्यां कविभिः कार्यः कोऽलंकारोऽनया विना ॥ II—85.
अयं पद्मासनासीनश्चक्रवाको विराजते ।
युगादौ भगवान् वेधाः विनिर्मित्सुरिव प्रजाः ॥ II—55.
स पीतवासाः प्रगृहीतशार्ङ्गो
मनोज्ञभीमं वपुराप कृष्णः ।
शतह्रदेन्द्रायुधवान् निशायां
संसृज्यमानः शशिनेव मेघः ॥ II—58.
निपेतुरास्यादिव तस्य दीप्ताः
शरा धनुर्मण्डलमध्यभाजः ।
जाज्वल्यमाना इव वारिधाराः
दिनार्धभाजः परिवेषिणोऽर्कात् ॥ II—47.
12. Namisādhu in commentary on
Rudraṭa's Kāvyālaṁkāra
प्राकृतं संस्कृतं चैतदपभ्रंश इति त्रिधा । I—16.
स मारुताकम्पितपीतवासा
बिभ्रत्सलीलं शशिभासि शङ्खम् ।
यदुप्रवीरः प्रगृहीतशार्ङ्गः
सेन्द्रायुधो मेघ इवाबभासे ॥ II—41.

QUOTATIONS 191
स पीतवासाः प्रगृहीतशाङ्गो
मनोज्ञभीमं वपुराप कृष्णः ।
शतह्रदेन्द्रायुधवान् निशायां
संसृज्यमानः शशिनेव मेघः ॥ II—58.
निपेतुरास्यादिव तस्य दीप्ताः
शरा धनुर्मण्डलमध्यभाजः ।
जाज्वल्यमाना इव वारिधारा
दिनार्धभाजः परिवेषिणोऽर्कात् ॥ II—47
अयं पद्मासनासीनश्चक्रवाको विराजते ।
युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥ II—55.
वनेऽथ तस्मिन् वनिताविहारिणः
प्रभिन्नदानार्द्रकटा मतङ्गजाः ।
विचित्रबर्हाभरणाश्च बर्हिणो
बभुर्दिवामलविग्रहा ग्रहाः ॥ II—63.
13. Pratīhārendurāja in Laghuvṛtti on Udbhaṭa's
Kāvyālaṅkāra
वृत्तदेवादिचरितशंसि चोत्पाद्यवस्तु च ।
कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ॥ I—17.
स सहोक्त्युपमाहेतुनिर्देशात् त्रिविधं यथा । III—17.
अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥ III—34.
चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिमीतता ।
शब्दानाकुकलता चेति तस्य हेतुं प्रचक्षते ॥ III—54.
14. Premachandra Tarkavāgīśa, commentary
on Kāvyādarśa
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ।
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ॥ I—14.

192 BHĀMAHĀLAṄKĀRA
सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलंकारोऽनया विना ॥ II—85.
हेतुश्च सूक्ष्मलेशौ च नालंकारतया मताः ।
समुदायाभिधेयस्य वक्रोक्त्यनभिधानतः ॥ II—86.
प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टं च नेष्यते । IV—2.
15. Ruyyaka in Alaṅkārasarvasva
शब्दानुकूलता चेति तस्य हेतून् प्रचक्षते । III—54.
16. Śāntarakshita in Tatvasaṅgraha with Kamala-
śīla's commentary. VI—17, 18 & 19 cited
as Verses 912, 913 & 914.
17. Udbhaṭa in Kāvyālaṅkāra
अपह्नुतिरभीष्टा च किंचिदन्तर्गतोपमा ।
भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ॥ III—21.
18. Vallabha in Subhāṣitāvali
किंशुकव्यपदेशेन तरुमारुह्य सर्वतः ।
दग्धादग्धमरण्यन्यां पश्यतीव विभावसुः ॥ II—92.
नेयं विरोति भृङ्गाली मदेन मधुरस्वरा ।
अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥ III—22.
19. Vāmana in Kāvyālaṁkārasūtravṛtti
सूर्याशुसंमीलितलोचनेषु
दीनेषु पद्मानिलनिर्मदेषु ।
साध्व्यः स्वगेहेष्विव भर्तृहीनाः
केका विनेशुः शिखिनां मुखेषु ॥ II—46.
20. Viśveśvarapaṇḍita in Alaṅkārakaustubha.
यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातो वदन्ति तमनन्वयम् ॥ III—45.

Quotations from Bhāmaha by others
in the order of the Text.
•THE FIRST PARICCHHEDA.
श्लोक: Cited in
2 Agnipurāṇa; Lochana, page 12
6 Lochana, page 12
9 ,, page 10
12 Kāmadhenu on Vāmana I-3-22
13 Mammaṭa's Kāvya Prakāśa, 6th Ullāsa
14 ,, ,, ,, ;
Premachandra on Kāvyādarśa I—1
15 Mammaṭa's Kāvya Prakāśa, 6th Ullāsa
16 Namisādhu on Rudraṭa, page 13
17 Pratīhārendurāja on Udbhaṭa, page 78
36 Lochana, page 208
41 Daṇḍin's Kāvyādarśa III—120;
Bhoja's Sarasvatīkaṇṭhābharaṇa, page 8
46 ,, ,, ,, page 26
THE SECOND PARICCHHEDA.
3 Mallinātha & Jayamaṅgalā on Bhaṭṭi XI—1 ;
Lochana P. 79; Kāvyānuśāsana P. 201
5 Jayamaṅgalā on Bhaṭṭi X—1
17 Lochana P. 40 ; Jayamaṅgalā on Bhaṭṭi X-1
13

194 BHĀMAHĀLAṄKĀRA
श्लोकः Cited in
21 Jayamaṅgalā on Bhaṭṭi X—25
25 Lochana, page 38
27 Jayamaṅgalā on Bhaṭṭi X—22 ;
Lochana, page 40
30 ,, ,, X—30
41 Namisādhu on Rudraṭa, page 145
46 Vāmana's Kāvyālaṁkārasūtravṛtti IV-ii-10
47 Namisādhu on Rudraṭa, page 145 ; Mammaṭa's
Kāvya Prakāśa, 10th Ullāsa
53 Mallinātha on Bhaṭṭi XII—1
54 ,, ,, ,, ; Keśavamiśra's
Alaṁkāraśekhara, page 18 ; Ruyyaka's
Alaṁkārasarvasva, page 183
55 Namisādhu on Rudraṭa, page 146 ; Kāvya-
prakāśa, 10th Ullāsa.
58 ,, ,, P. 145 ; Kāvyaprakāsa
10th Ullāsa
63 ,, ,, page 146
68 Lochana P. 36; Jayamaṅgalā on Bhaṭṭi X-38
69 ,, ,, ; Hemachandra's 'Kāvyānu-
śāsana, page 268 —
71 Jayamaṅgalā on Bhaṭṭi X—36
75 ,, ,, X—39
77 ,, ,, X—40
79 ,, ,, X—41
81 ,, ,, X—42

QUOTATIONS 195
श्लोक: Cited in
85 Dhvanyāloka, page 208; Premachandra on
Kāvyādarśa II—220; Kāvya Prakāśa.
10th Ullāsa; Hemachandra’s ˙Kāvyānu-
śāsana Ṭīkā, page 267
86 Premachandra on Kāvyādarśa II—235
87 Jayamaṅgalā on Bhaṭṭi X—45; Hemachan-
dra’s Kāvyānuśāsana, page 17
89 Jayamaṅgalā on Bhaṭṭi X—43
91 ” ” X—44
92 Vallabha’s Subhāṣitāvali 1546; Bhoja’s
Sarasvatīkaṇṭhābharaṇa, page 490
93 Jayamaṅgalā on Bhaṭṭi X—45
THE THIRD PARICCHEDA.
5 Chitramīmāṁsā P. 42; Kāvyādarśa II—266
6 Keśavamiśra’s Alaṁkāraśekhara, page 49;
Jayamaṅgalā on Bhaṭṭi X—47
8 ” ” X—49
9 Lochana, page 40
12 Jayamaṅgalā on Bhaṭṭi X—52
14 ” ” X—54
15 ” ” ”
17 ” ” ”; Pratīhārendurāja
on Udbhaṭa, page 47
21 Lochana, page 38; Udbhaṭa’s Kāvyālaṁkāra-
saṅgraha P. 58; Jayamaṅgalā on Bhaṭṭi X—57