सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

२४ अथर्ववेदीय-कौशिकसूत्रस्य—
मुच्यते । काचीमाचीफलमणिं बध्नाति । जीवन्तीफलं बध्नाति । भृङ्गराजं बध्नाति ।
केशादृढीकरणे केशाजनने ह्रस्वकेशेषु वृद्धकरणभैषज्यम् । माषतिलादि कृष्णमन्नं भक्ष-
यित्वा काचीमाचीफलं भृङ्गराजाभ्यां सहोदकमभिमन्त्र्य रात्रौ ब्राह्मे मुहूर्त्तेऽव-
सिञ्चति ।
कण्डिका ॥ ३२ ॥
सू० १।—जम्भगृहीते भैषज्यमुच्यते । स्तनमभिमन्त्र्य बालकाय प्रयच्छति
पानार्थं पतिः करोति कर्त्ता करोति । दुःखनाशने भैषज्यम् । सू० २ ।—पाययति
बालकं पिता वा माता वा पाययति तत्रोपरि दुह्यते अन्यवदुग्धाः । सू० ३ ।—
सर्वव्याधिभैषज्यमुच्यते......सू० ५ । वृश्चिकभैषज्यमुच्यते “तिरश्चिराजैरित्यृचेन”
ज्येष्ठेमधु पिष्ट्वाभिमन्त्र्य पाययति । सू० ६ ।—क्षेत्रमृत्तिकां जीवकोषणीचर्मवेष्टितां
मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । वृश्चिकमशकभैषज्यम् । जीवतः पशोश्चर्म
जीवकोषणीत्युच्यते । सू० ७ । यानि यानि पायनान्युक्तानि तानि “तिरश्चिराजैरि”-
त्यस्य सूक्तस्य भवन्ति । समाप्तं वृश्चिकपिपीलिकामशकदंशशार्कोटजलूकाभैषज्यम् ।
॰॰॰सू० ८ । अथ गण्डमालाभैषज्यमुच्यते । “अपचितां लोहिनीनामिति द्वाभ्याम् ।
“आसुस्रुस” इत्येका एताभिस्तिसृभिर्वंशधनुषं कृष्णोर्णमयीं ज्यां कृत्वा चित्रितेन
शरेण गण्डमालां विध्यति प्रत्यृचम् । त्रयः शरा भवन्ति । सू० ९ ।—“या ग्रैव्या
अपचित” इति चतुर्थ्या ऋचा चतुर्थेन शरेण गण्डमालामभिनिधाय विध्यति ।
सू० १०।–कृष्णोर्णज्याप्रज्वालितोदकमभिमन्त्र्य उषाकाले...अवसिञ्चति व्याधितम् ।
सू० ११ ।—अथ राजयक्ष्मभैषज्यमुच्यते ।......तृचेन वीणातन्त्रीखण्डं सम्पा-
त्याभिमन्त्र्य बध्नाति । सू० १२ ।—वाद्यवीणा तस्याङ्गस्वरं विष्णोर्वाद्यवीणाकण्ठं
शिखण्डं वीणातन्त्रीं बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । सू० १३ । स्वयंपतितवीरि-
णखण्डत्रयमेकत्र बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । सू० १४ ।—जलोदरे वरुण-
गृहीते भैषज्यमुच्यते । सू० १७।—अथ ज्वरभैषज्यमुच्यते । “नमो रुण्येति”
सूक्तद्वयेन खट्वायां व्याधितं कृत्वा बध्वा तत अधः खट्वायां व्याधितमुपवेश्य तत
उदकमभिमन्त्र्य व्याधितमवसिञ्चति । व्याधितं सिच्यमानं यथा मण्डूकमभिषिच्यते
तथा कुर्यात् । सू० १८ ।—अथ सर्वभैषज्यमुच्यते । अर्थसूक्तेन व्याधितेन......
अभिमृशति । सू० २० ।—सर्वविषभैषज्यमुच्यते । सू० २१ ।-“इन्द्रस्य प्रथम०”
इत्यर्थसूक्तेन पैद्रं कीटकं तालिणीति लोकप्रसिद्धा तं पिष्ट्वाभिमन्त्र्य नस्तं ददाति...
दक्षिणनासिकापुटे । सू० २२ ।—अथ सर्पभये भैषज्यमुच्यते । पैद्रं श्वेतवस्त्रवेष्टित-
मभिमन्त्र्य यत्र सर्पभयं तत्र निखनति । पैद्रं हिरण्यवर्णसदृशः कीटश्चित्रितो वासः
पैद्र इत्युच्यते । सू० २४ ।—“आरे अभूदित्यृचान्तेन उल्मुकं प्रताप्याभिमन्त्र्य ततो

दा पुत्रो जायते।"
Again, "कर्तव्यं ।"
"जायते।" - danda right after te.

विज्ञानकर्मेदं । सू० २० ।—यदि पुंनामधेयं स्पृशन्ति तदा कुमारो जायते ।
Look at L20:
"विज्ञानकर्मेदं । सू० २० ।—यदि पुंनामधेयं स्पृशन्ति तदा कुमारो जायते ।"
Wait, "पुंनामधेयं": प, ु, ं, न, ा, म, ध, े, य, ं = पुंनामधेयं.

कण्डिका ॥ ३४॥
Centered: "कण्डिका ॥ ३४॥"
Wait, does it have space between ३४ and ॥? "३४॥"

सू० १।—अथ वन्ध्याप्रजननकरणमुच्यते । सू० २। —ततो गृहे पुरोडाशं
Look at L22:
"सू० १।—अथ वन्ध्याप्रजननकरणमुच्यते । सू० २। —ततो गृहे पुरोडाशं"
Wait, is there space before the dash in सू० २। —? Yes, space, dash.

प्रसन्दं कटुपा अलंकारान्सम्पात्य प्रयच्छति । सू० ३।—अथ मृतापत्यायाः स्त्रिय-
Look at L23:

२६ अथर्ववेदीय-कौशिकसूत्रस्य—
आवपेत्सुरभिगन्धान् क्षीरे सर्पिस्तथोदके ।
एतदायनमित्याहु रौक्षं तु मधुना सह ॥—
सू० १५।—दक्षिणामुखी कुमारी प्रक्रामति । सू० १६।—नावं सम्पात्य
“भगस्य नाव” मित्यृचा उत्तारयति । सू० १७।—सप्तदानतंत्र्या वत्सान् बन्ध-
यित्वा सम्पात्याभिमंत्र्य कुमारीं मोचयति । स्वयं न कर्त्ता । यदि प्रदक्षिणं मोचयति
तदा पतिलाभः । सू० १८।—वृषभं विसर्जंयति । सू० २१।—आगम कृशरं
आशयति आज्यतंत्रे भगिनीकं । सू० २३।—तत “अर्यम्ण” इत्यर्धर्चेन गृहाभ्य-
न्तरे कोणे, बलिहरणं करोति । सू० २४।—यत आगच्छति काकस्तत आगच्छति
वरः समाप्तानि पतिलाभकर्माणि ।
कण्डिका ॥ ३५ ॥
सू० १।—पुंसवानान्युच्यन्ते । सू० २। — नक्षत्रकल्पे उक्तानि पुंनक्षत्राणि
सू० ३। —बाणं विवृर्हति । शरमणिं सम्पात्याभिमंत्र्य बध्नाति । सू० ४।—
अध्यण्डे बृहतिपलाशविदार्यौ वा एकत्र पिष्ट्वाभिमंत्र्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां
नासिकायां नस्तं ददाति । पुत्रार्थं कर्म पुंसवनमित्युच्यते । सू० ५।६।७।—
केलूनांश्च पलाशत्सरु निर्वर्तं निघृष्य शिश्ने आधाय ततो मैथुनं करोति । समाप्तं
गर्भाधानं । सू० ८।९। —पुनः पुंसवनमुच्यते मधुमन्थेऽद्रिं निक्षिप्याभिमंत्र्य
पाययति स्त्री । सू० १०।—शमीगर्भऽश्वत्थस्याङ्घ्रिं कृष्णोर्णया वेष्टयित्वा सम्पात्याभि-
मन्त्र्य बध्नाति आज्यतन्त्रे । समाप्तं पुनः पुंसवनं । सू० ११।—अथ गर्भाधान-
मुच्यते हस्तावतंकं कर्णादिकं सम्पात्याभिमन्त्र्य बध्नाति आज्यतन्त्रे । समाप्तं
गर्भाधान । सू० १२।—अथ गर्भबृंहणमुच्यते । “अच्युता द्यौरि”ति । सू०१६।
“धाता दधात्वि”ति चतसृभिर्गर्भिण्या उदरमभिमंत्रयते वीरकर्म समाप्तं सू० १७।
अथ प्रजननकर्म । “प्रजापतिर्जनयती”ति सूक्तेन । सू० १९।—उदकुलिजं
संपातवन्तं कृत्वा गर्भिणीं परिहृत्य मध्ये निनयति । सुरा कुलिजं ... भक्तं सुरां
प्रपां सम्पात्याभिमन्त्र्य प्रजाकामायै प्रयच्छति । समाप्तं प्रजागर्भकर्म वन्ध्यायाः ।
सू० २०। —अथ सीमन्तकर्म उच्यते । श्वेतपीतसर्षपाञ् सम्पात्याभिमन्त्र्य
पुण्याहान्ते बध्नाति । सू० २१।—अथ स्त्रीवशीकरणमुच्यते । वृक्षत्वक् , तगरं,
शरखण्डं, अञ्जनं, कुष्ठं, ज्येष्ठिमधु, वातसंभ्रमतृणानि । एतानि द्रव्याणि आज्येना-
लोढ्य अङ्गं समालभेत रुच्यर्थम् । सू० २२। —अङ्गुल्या तुदति भार्यायामुदरे
पृष्ठौ रुच्यर्थी । सू० २३ । —एकविंशतिबदरीकण्टकानादधाति । सू० २४।—
एकविंशतिबदरीप्रान्तानि सूत्रेण वेष्टयित्वा । सू० २६। —खट्वा अधोमुखपट्टिकां
गृहीत्वा...स्वपिति । त्रिरात्रं कर्म । सू० २७। —अर्दयञ्छेते । सू० २८।—
समाप्तानि संवननानि वशीकरणानि कामविषये स्त्रियामुत्साहो भवति ।

संक्षिप्तटीकासङ्ग्रहः । २७
कण्डिका ॥ ३६ ॥
सू० १-२।—स्वापनविघ्नशमनम् । स्त्रीस्वापनकर्म उच्यते । अभ्यन्तरद्वारे
शेषमुदकं न्युब्जति । सू० ४ ।—स्त्रियाः खट्वाया दक्षिणपादमभिमन्त्रयते । खट्वा-
या रज्जुमभिमन्त्रयते । स्त्रीस्वापनं पुरुषस्य विषये काम उत्पद्यते । कामविषये
स्त्रीस्वापनं समाप्तम् । लज्जाप्रच्छादनं लज्जा भवतीत्यर्थः । स्वापनं सर्वेषां मानुषाणां
निद्राकामानाम् । मैथुनमाचरतो विघ्नं न भवति । सू० ५-६।— अथ पलायिन्याः
स्त्रियाः बन्धनकर्म तन्त्रक्रमेण क्रियते । रज्जु कल्पते तद्रज्जुवेष्टनमुच्यते ।
“अस्थाद् द्यौरस्थादि”ति द्वितीयेन सूक्तेन रज्जुवेष्टनमभिमन्त्र्य वंशाग्रे बध्वा
मध्यमस्थूणे बध्नाति । सू० ७ । —शयनपादमभिमन्त्र्य उत्पले बध्नाति ।
सू० ९ ।—अङ्कुशेन तिलान्जुहोति । सू० १० । —जायापत्योरक्रोधकरणमुच्यते ।
सू० १२। —सौभाग्यकरणमुच्यते । शङ्खपुष्पीमूलमोषधिवत् खात्वा ...
बध्नाति । सौवर्चलपुष्पमभिमन्त्र्य यस्य सौभाग्यमिच्छति तस्य पुष्पमभिमन्त्र्य तस्य
शिरसि बध्वा । सौवर्चलं सूर्यवेलेति प्रसिद्धा । सू० १३-१४ ।—दुष्टस्त्रीवशीक-
रणमुच्यते “रथजितामि”ति सूक्तैस्त्रिभिर्माषानभिमन्त्र्य स्त्रियाः क्रमेषु वपति ।...
चणकान्...वपति । खट्वास्थाने वा गृहे शयनदेशे वा । शरभृष्टीरादीक्षा अभि-
मन्त्र्य प्रतिदिशमभ्यस्यति । एषु पतिप्रतिकृति कृत्वा...हृदये विध्यति । दाम्भ्यूषेण
भाङ्गेन । समाप्तानि पतिद्वेषिणीकर्माणि । पुरुषो वा स्त्रीणां द्वेषं करोति । अनेन
कर्मणा शान्तिर्भवति । सू० १५ ।—अथ स्त्रियो वा पुरुषस्य वा दौर्भाग्यकरणमु-
च्यते । दहनघातिता गौः अनुस्तरणीत्युच्यते । ईशानहता ज्वरहतेत्युच्यते । तत
उलूखलदरणे त्रिशिले निखनति तत उलूखले ददाति । उपरि यस्य दौर्भाग्यं क्रियते
तस्य एतानि गृह्णीयात् । सू० १६ ।—स्त्रीपुष्पमालां पिष्ट्वा अन्वाह । सू० १७—
कृष्णसूत्रेण वेष्टयित्वाभिमन्त्र्य...व्यत्यासं अश्मानं शालाया उपरि ददाति । व्यत्यासेन
निखनति दौर्भाग्यकामः। सू० १८ ।—अथ तस्याः सौभाग्यकरणमुच्यते । “यं ते भगं
निचख्नु”रिति-शिला उत्खनति उत्पादयति । “भगमस्या” इत्यनेन सूक्तेन यत्कृतं
तदनया विनश्यति । समाप्तं यस्या दौर्भाग्यं कृतं तस्याः सौभाग्यकरणम् । सू०
१९ ।— अथ सपत्नीजयकर्माण्युच्यन्ते । सपत्नीविद्वेषणं...बाणपर्णी मासिका
लोकेप्रसिद्धा । सू० २२ ।—अथ स्त्रीविषये काम उत्पन्ने कामविनाशकान्युच्यन्ते ।
यस्मिन्देशे काम उत्पन्नस्तत्स्थानं यावत् स्त्री वा पुरुषो वा...व्रजति । सू० २५।—
स्त्रीविषये ईर्ष्याविनाशकान्युच्यन्ते । ईर्ष्यालुं दृष्ट्वा जपति । सक्तुमन्थमभिमन्त्र्य
ईर्ष्यालुकाय ददाति...भक्ष्यार्थम् ॥ २६ ॥ ईर्ष्यालुकस्य कटिप्रदेशे खल्वामभिमन्त्र्य
धमति ॥ २८ ॥ अथ मन्युविनाशकान्युच्यन्ते स्त्रीविषये पुरुषस्य । मन्युमन्तं

... L20:मरणामरणं । L23:मित्रा मित्रसंयोगात् । L25:दुर्भगावा । गृहं ग्रामादि, भविष्यति न वा । आधानं भवेन्नवेति । इत्यादि मनसा`

Everything looks extremely accurate and faithful to the source image.२८ अथर्ववेदीय-कौशिकसूत्रस्य—
पुरुषं दृष्ट्वाश्मानमभिमन्त्र्य हस्तेन गृह्णाति ॥ सू० २९ ॥ अश्मानं भूमौ निदधाति ।
सू० ३१ । —मन्युमतः पुरुषस्य छायायां धनुरभिमन्त्र्य सज्जं करोति । सू० ३२—
अथ सर्वविषये मन्युविनाशकान्युच्यन्ते । दर्भमूलमोषधिवत् खात्वा सम्पात्याभि-
मन्त्र्य बध्नाति मन्युके । सू० ३३ । —अवीरजननमुच्यते अपुत्रजननमित्यर्थः ।
अग्रे जातानित्यृचा अश्वतरीमूत्रेण पाषाणं निघृष्य ततोऽभिमन्त्र्य भक्तेन सह
ददाति ।...अलंकारं समालभते । विद्वेषाणं परस्य । अथ वन्ध्याकरणमुच्यते ।
“प्रान्

संक्षिप्तटीकासङ्ग्रहः । २९
~ ~ ~ ~ ~

पूर्वेद्युर्वेदिं कृत्वा अभिमंत्र्य द्वितीयेऽहनि समविषमेण भावेन सिद्धिः । सू० ३ ।—
पञ्चग्रन्थिवेणुदण्डमभिमंत्र्य आयाच्यं समे धारयति । अभीष्टदिशि पतनेनार्थसिद्धिः ।
इषुं सन्धायैाभिमन्त्र्यायाचेत् । चिन्तितं प्रक्षेपेणार्थं । कुम्भे उदकपूर्णं दुग्धं
प्रक्षिप्यायाचेत् । जनाधिकेनार्थसिद्धिः यथा चिन्तितं तथा सिद्धिः कमण्डलुमुदक-
पूर्णं दुग्धमाक्षिप्याभिमंत्र्यायाचेत् । जनाधिकेनार्थसिद्धिः । दर्भस्तम्बमभिमन्त्या-
याचेत् । काम्पीलशाखां मूर्ध्नि धारयित्वाभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः ।
युगमभिमंत्र्यायाचेत् । ******धान्यमभिमंत्र्यायाचेदग्नौ प्रक्षिपेत् प्रदक्षिणज्वलनेनार्थः।
हस्तयोरङ्गुलिद्वयमभिमन्त्यायाचेत् । अज्ञातस्य "वेनस्तदि"ति सूक्तेन एकविंशत्या
शर्करया अभिमन्त्र्यायाचेत् धनेनार्थः समविषमभावेन यथावतार्थः । सू० ४।—अथ
नष्टद्रव्यपरीक्षणे क्रियमाणे इदं कर्म । "वेनस्तदि"ति सूक्तेन । सू० ६ । वेन-
स्तदिति सूक्तेनाहतेन वस्त्रेण वेष्टितं हलं सम्पात्याभिमन्त्र्य येन हरेतां ततो नष्टः ।
अक्षाः कुम्भवत्कृत्वा सम्पात्य येन हरेतां ततो नष्टः । समाप्तं नष्टद्रव्यपरीक्षणे विज्ञानम् ।
सू० ७ ।—अथ कुमारीविज्ञानमुच्यते । वेनस्तदिति सूक्तेन । सू० ११ ।—“वेन-
स्त”दिति सूक्तेन कुमारीमुदकाञ्जलिं पूरयित्वाभिमन्त्र्य । सू० १२ । समाप्तं कुमारी-
विवाहकाले विज्ञानम् ।
कण्डिका ॥ ३८ ॥
अथ नैमित्तिकान्युच्यन्ते । सू० १ ।—दुर्दिनविनाशकर्मणां विधिं वक्ष्यामः ।
दुर्दिनमभिमुखमुपतिष्ठते सर्वत्र दुर्दिनविनाशकानि । सू० २ ।—प्रत्यृचमुदकं
प्रक्षिपति । सू० ३ ।—खड्गं गृहीत्वोपतिष्ठते अभिमुखः । उल्मुकं गृहीत्वोपतिष्ठते
सूर्यस्याभिमुखः । लकुटं गृहीत्वोपतिष्ठते । सू० ४ ।—उन्मृजानो अर्कमुखो भूत्वो-
पतिष्ठते । सू० ६ ।— पटेरकसमिध अर्कसमिध आदधाति स्थण्डिले । सू० ७ ।—
खदां खात्वा खदां त्रिःपरिक्रम्यार्कैर्निर्लुञ्चितं कृत्वा खदायां प्रक्षिपति सूक्तान्ते । ततः
पांसुना खदां पूरयति । वृष्टिनिवारणं समाप्तं । सू० ८ ।—अशनिनिवारणं कर्म
व्याख्यास्यामः । अशन्यभिमुखमुपतिष्ठते । सू० ९।—एतत्कर्मक्षेत्रे । अशनिनिवारणं ।
अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः ।
स्वचक्रं परचक्रं वा सप्तैता ईतयः स्मृताः ॥
सू० ११ । —अवदीर्यमाणे ग्रामे वावसाने वाग्निशरणे वा सभायां वा गृहे वा
प्राकारे वा रक्षार्थं कर्म वक्ष्यामः । सू० १२ ।—पत्तने रक्षार्थान्युच्यन्ते । सू०१३-
१६ ।—दृंहणानि । दृंतिकर्माणि दृढीकर्माणि वा । समाप्तानि दृढकर्माणि ।...
गृहपत्तने ग्रामपत्तने कार्यदृढकरणे अवहरणरक्षार्थं । सू० १७ ।—विवादे जयकर्मणां
विधिं व्याख्यास्यामः । ज्येष्ठीमधुमभिमन्त्र्य भक्षयति । ततः सभां प्रविशति अपराजित-

३० अथर्ववेदीय-कौशिकसूत्रस्य-
देशात् । परिषज्जयकर्म सभाजयकर्म समाप्तं । सू०१८ । —विवादे जयकर्माण्युच्यन्ते ।
पाठामूलं मुखे प्रक्षिप्य तदनन्तरमपराजितादेशादागच्छति । सू० १९ । —पाठामूलं
मुखे प्रक्षिप्यान्वाह । सू० २० । —पाठामूलं बध्नाति । सू० २१ । पाठापुष्पमाला-
मभिमन्त्र्य शिरसि धारयति । पाठापालाशी सप्तपालाशी सप्तपर्णी मालामभिमन्त्र्य
धारयति । सू० २२ । —वृष्टिनिवारणं भक्षभोजने कर्म उच्यते । भक्तमभिमन्त्र्य
भक्तं शाकादि । ततो भुञ्जीत । वृष्टिनिवारणं समाप्तं । सू० २३ । —ब्रह्मजज्ञानमिति
सूक्तेन प्रथमेन काण्डादिना सूक्तेन वेदं वा अनुवाकं वा सूक्तं वा कल्पं वा ब्राह्मणं वा
अध्ययनं कर्तुमिच्छति तदा तदा सूक्तं जपित्वा ततोऽध्ययनं कुर्यात् । कलहशमनं
समाप्तं । सू० २४ । —ब्र

अरण्ये गच्छन्ति । सू० २७ ।—वास्तोष्पत्यादयश्चत्वारोगणा उच्चैः पठन्ति ।
सू० २८ ।—कर्त्ता अभिचारकृतपुरुषस्य शान्त्युदकेन मर्माणि संप्रोक्षते । गार्हपत्य-
सभाआमपात्रकूपकुकुट इत्यादीनि मर्माणि संप्रोक्षति । सू० २९ ।—कृत्यास्थानं
कृष्णवृषभहलेन कर्षति ।
कण्डिका ॥ ४० ॥
सू० १ ।—अथ नदीप्रवाहविधिं वक्ष्यामः । नदीप्रवाहं खात्वा प्रसिञ्चन्
व्रजति । सू० २ ।—काशमभिमन्त्र्य तत्र खाते रोपयति । दिवि शेवालपर्णिमभिम-
न्त्र्य रोपयति नदीप्रवाहे । वेधूकपाटरकं (पटेरकं) अभिमन्त्र्य नदीमार्गे निखनति ।
वेतसशाखामभिमन्त्र्य नदीप्रवाहने निखनति । सू० ६ ।—उदकं मण्डूकस्योपरि
निनयति । सू० ७ ।—पूर्वप्रवाहो न भवति । अथ नवधा प्रवाहे इदं कर्म कुर्यात् ।
वरुणदेवतापाकयज्ञविधानेन आज्यभागान्तं कृत्वा “यददः संप्रयती”रिति सूक्तेन
त्रिर्विभज्य जुहोति । तत उत्तरतन्त्रम् । कृष्णव्रीहिं कृष्णायाः गोः पयः घृतं च
वेतसकाष्ठासु च इन्धनं । वेतसपत्रैः स्तरणं पटेरकेण वा अस्मिन् तन्त्रे सर्वं मारुतं
कर्त्तव्यम् । उदकप्रवाहे उदकप्रवाहभये नदीभये ग्रामे नगरे वा । यत्र उदकनदी-
भयं भवति तत्र सर्वत्र वारुणो होमः कर्तव्यः । सू० ९ ।—बलिं हरेत् ततः “अति-
धन्वानी”ति द्वाभ्यां न भवति । मन्त्रोदकं नदीप्रवाहे प्रसिञ्चन् व्रजति । समाप्तं
नदी दूरगमनकर्म । सू० १० ।—यदि न वहति नदी तदा वक्ष्यमाण इदं कर्म ।
यददः संप्रयतीरिति नदीं हन्ति । वेतसशाखामभिमन्त्र्य नदीमवसिञ्चति । यदि
दूरं गता पुनः निवर्तते तदा इदं कर्म एके आचार्याः । “यददः संप्रयती”रित्यादि
सर्वमेकं कर्म मन्यन्ते । अन्ये भिन्नानि कर्माणि मन्यन्ते । अन्ये प्रसिञ्चन् कर्म हिर-
ण्यमण्डुककर्म योगकर्म मन्थनकर्म पाणिकर्म एतेषां विकल्पं मन्यन्ते । समुच्चयो
वा इति दारिलमतं समुच्चयः । समाप्तं अन्यप्रवाहे नदीकर्म ॥ सू० ११।१२ ॥
अथ अरणिसमारोपणकर्म । अरणीद्वयं प्रतापयति पाणी वाप्राता पयति ।
उत्थाय वा गृह्णाति । ततोऽनेन विधानेन पथि गच्छता दोषो न भवति । सू०
१३ ॥ अथावरोहणमुच्यते ॥ सू० १४।१५ । पुरुषस्य वीर्यकरणे विधिं वक्ष्यामः ।
कपिकच्छूमूलमोषधिवत् खात्वा<sup>...</sup>सुरवालकमोषधिवत् खात्वा दुग्धे श्रपयित्वा उप-
विष्टं धनुरुत्सङ्गे कृत्वा । दुग्धमभिमंत्र्य पाययति । सू० १६ । मयूखे मुसले वासीनो
यांत्वे”त्यृचा सुरवालकं दुग्धे क्वाथयति पीत्वा कीलके उपविश्य पिबति । कपिक-
च्छूं मुसले उपविश्य पिबति । सूकरवालकं मुसले उपविश्य पिबति न शिश्नस्य
स्थूलकरणमुच्यते । “यथासित”—इति सूक्तेन एकशाखाकर्मणिं सम्पात्याभिमन्त्र्य
अर्कसूत्रेण बध्नाति । सू० १७।१८ । “यावदङ्गीन” मित्यृचा कृष्णमृगचर्ममर्माण

बध्नाति ॥ “आ वृषायस्वे”ति सूक्तेन हरिणस्कन्धचर्ममंणिं कृत्वा कृष्णबालेन
बध्नाति ॥ वीर्य्यकरणं उत्थापनं स्थूलकरणं च भवति रेतोनाशे च ॥
कण्डिका ॥ ४१ ॥
सू० १ । अथ वृष्टिकर्मविधिं वक्ष्यामः ॥ सू० २।३ । त्रयोदशेऽहनि पाकयाज्ञिकं
तन्त्रं व्रतोपायनान्तं कृत्वा ततो “देवस्यत्वा सवितु”रित्यादि मरुद्भ्यो जुष्टं निर्व-
पामि। “मरुद्भ्यस्त्वा जुष्टं प्रोक्षामी”ति अनेन यजुषा तावत् समानं यावदाज्यभा-
गौ ततः क्षीरौदनं जुहोति ॥ “समुत्पतन्विति” सूक्तेन पञ्चभिर्ऋग्भिरेकामाहुतिं
ततः पञ्चभिर्ऋग्भिर्द्वितीयां षड्भिर्ऋग्भिस्तृतीयामाहुतिं जुहोति । ततः पार्वणाद्युत्तर-
तन्त्रं । पाकयाज्ञिकं तन्त्रमाज्यभागान्तं कृत्वा ततः “प्रभस्वेति” क्षीरौदनं एकामा
हुतिं जुहोति । “न भ्रंस्ततापे”त्यृचा द्वितीयामाहुतिं । युक्ताभ्यां तृतीयामाहुतिं ।
पार्वणाद्युत्तरतन्त्रं बर्हिहोंमे “मरुतो गच्छतु हविः स्वाहे”ति । सर्वेषु वृष्टिकर्मसु
कृष्णाया गोराज्यं कृष्णायाः गोः पयः कृष्णाव्रीहिशालयः वेतसः स्रुवः वैतसी समि-
दिन्धनं च । सू० । ३ । ४ । —काशदिविधुवकवेतसामेकत्र कृत्वा***तत उदक-
मध्ये पात्रं अधोमुखं निनयति । उदके विप्लावयति । सू० ६ । कुकुरशिरमभिमन्त्र्य
उदके विप्लावयति । मेषशिरमभिमंत्र्य उदके प्रक्षिपति मानुषकेशजरद् उपा-
नहौ वंशाग्रे प्रबध्य योधयेति जपन् । सू० ८ । अर्थोत्थापने विघ्नशमनविधि
वक्ष्यामः ॥ अर्थकामोद्यमं यदा करोति तदा इदं करोति ।द्रव्य हस्त्यश्वरत्न
हिरण्यधनधान्यादि एवं कामो यदोद्यमं वणिजादि करोति तदा इदं कर्म करोति ॥
यस्मिन्नारम्भा गृहादि न सिध्यन्ति तदा इदं कर्म ॥ सू० १० । —अथ द्यूतजयकर्म
उच्यते ॥ सू० ११। उत्तराषाढ नक्षत्रे संमिनोति पूरयति । सू० १३। त्रयोदश्याद्य-
स्तिस्रो दधिमधुनि वासयित्वा
अक्षान् वा कपर्दकान् वा द्यूतक्रीडां कुर्यात् । सू०
१४ । —अथार्थोत्थापनोद्यमकरविघ्नशमनकर्म उच्यते मरुतो यजते पाकयज्ञविधानेन
यथा वरुणं मारुतं क्षीरौदनं मारुतश्रितमित्यादि भवति ॥ एवमाद्या ओषधीः संपात्य
अभिन्युब्जनं । विप्लावयति । श्वशिर एडकशिरः केशजरदुपानहौ युद्धउदपात्रकर्म
एतानि अभिवर्षणानि कर्माणि भवन्ति एकैकस्यसूक्तस्य । एके आचार्यामारुतस्थाने
मन्त्रोक्त देवतायागं कुर्यात् यथा वरुणं । अथोषधि होमसमानं वर्षकर्मणां । उदकघटं
सम्पात्याभिमंत्र्य तत आप्लावयति । अवसिञ्चति । विघ्नशमनकामः । समाप्तानि
अभिवर्षणावसेचनानि कर्माणि । सू० १५ । — वैश्वानरो रश्मि”रिति सूक्तेन “उदे-
हि वाजिनिति विंशत्या ऋग्भिश्च उद्यन्तमादित्यं स्नानं कृत्वोपतिष्ठते अर्थमुत्थापन-
कामः । सू० १७ । —वस्त्रं ददाति । विद्रावणादिविषये शमनकामः । समाप्तानि
विघ्नशमनकर्माणि । सू० १८ । —अथ गोवत्सद्वेषे विरोधसांमनस्यमुच्यते ।

सू० १९। —ततो वत्सं त्रिः परिभ्रामयित्वा पानार्थं मुञ्चति । सू० २० ।—गवां वत्सेन
सह विरोधि वत्सगोविरोधिसांमनस्यकर्म समाप्तं । गोवत्सस्य विरोधि सौमनस्यं ।
अकरणे गोः पूर्वां विनश्यति । अथ गोवत्सः । तदा राजा प्रजाः । सू० २१ ।—
अश्वशान्तिविधिं वक्ष्यामः । अश्वाः शान्तास्तेजस्विनो निरुपद्रवा वेगवन्त आरोग्या
भवन्ति ।
कण्डिका ॥ ४२ ॥
सू० १ । —अथ प्रवासाद्द्द्रव्योत्थापनमुच्यते । प्रवासे गत्वा चौरभयं उदक-
भयं गमनविघ्नं न भवति । हविपामुपधानं कुर्यात् । सू० ३ ।—यदि यानेन
याति तदा इदं कर्म । सू० ४ ।—वाणिजद्रव्यं चक्राश्वादिसर्वद्रव्यं...विक्रयार्थं
नयति । यदा द्रव्यं गृह्णाति तदा इदं कर्म । सू० ६ ।—अथाभ्यागतपुरुषाणां सांम-
नस्यं क्रियते । यदा विशिष्टो गृहे आगच्छति तदा इदं मैत्रीकर्म क्रियते । मित्रं-
त्वेषां दर्शनं आगतानां । यदा गृहे आगच्छति तदा इदं कुर्यात् । सू० ७ ।—
हस्त्यादियानं सम्पात्याभिमंत्र्य तस्मिन्थाने यस्य सांमनस्यं क्रियते...उपरि उपवि-
शंति । सर्वे यानस्योपरि चटन्ति ततः पश्चिमदिशि गत्वा पुनर्गृहे आगच्छन्ति ।
ततः ओदनमभिमंत्र्य सह भुञ्जन्ति मन्थं वा । समाप्तं सांमनस्यं । एकस्मिन् युद्धे
क्रियमाणे सहागतस्य कर्म इदं कर्म अन्यस्य च साधारणमित्यर्थः । यो युद्धे साहा-
य्यत्त्वं करोति तस्येदं कर्म । प्रथमं पादौ प्रक्षाल्य ततः कर्म चेति । क्षत्रिययोरिदं
कर्म मन्यन्ते केचित् । सू० ८ ।—अथ गृहे विरुद्धे सति सांमनस्यमुच्यते । कर्त्ता-
रण्ये गत्वा समिधो गृहीत्वा तूष्णीं गृहमागत्य...गृहेमनुष्याणां सांमनस्यं भवति
कलहिनिवारणं । सू० ९ ।—अथ मंत्रब्राह्मणयोर्द्रव्यमिच्छति तस्येदं कर्म प्रति-
गृहादि उच्यते । वेदपाठेन शास्त्रपाठेन अर्थोत्थापनमिच्छन्निदं करोति । समाप्तं
वेदेन अर्थोत्थापने विघ्नशमनं । सू० १२-१७ अथ परिमोक्षविधि वक्ष्यामः ।
गोदानिकतन्त्रमाज्यभागान्तं कृत्वा ततः शान्त्युदकं कृत्वोभिमंत्रयते । “अपोदिव्या”
इति चतसृभिः । ततोऽभ्यातानादि परिदानान्तं कृत्वा । केचित् परिदानान्ते
ततोऽभ्यातानं हुत्वा तत इदावत्सरायेति कल्पजैश्चतसृभिर्ऋग्भिर्राज्यं जुहुयात् ।
समिध आदधाति । वेदव्रतं कल्पव्रतं मृगारव्रतं विपासहिव्रतं यमव्रतं शिरो-
व्रतं अङ्गिरोव्रतं इत्येवमादिषु “इदावत्सराये”ति व्रतविसर्जनं व्रतश्रावणं च
करोति । यत्र क्वचित् व्रतं वैदिकं लौकिकं च तत्र सर्वत्र व्रतादानं व्रतविसर्जनं च
भवति विधानेन । शिरोव्रतादीनि नित्यानि—कृच्छ्रचान्द्रायणादीनि काम्यानि स्मृति-
पुराणशास्त्रवेदविहितानि । तानि सर्वाणीत्येतेन विधानेन कर्त्तव्यानि । सू० १८—
परिमोक्षानन्तरं त्रिरात्रं क्षान्म्रतं चरेत् । सू० १९ ।—अथ पापलक्षणास्त्री तस्याः
५

३४ अथर्ववेदीय-कौशिकसूत्रस्य-
शान्तिरुच्यते । स्त्रीमुखं प्रत्यृचं प्रक्षालयति तस्या मुखं हस्तयोर्मशकशिग्रुकशिरको
अस्थानतिलकं ह्रस्वकेशादि पापलक्षणं सामुद्रिके स्त्रीलक्षणं व्याख्यातं । स्त्रियं पाप-
लक्षणामभिषिञ्चति दक्षिणात् केशादारभ्य यावदुत्तरपार्श्वं ततः पापलक्षणं विनश्यति
सू० २२ ।— अथ पापदर्शने शान्तिरुच्यते । दर्शनदोषो न भवति । पुरुषस्य
भाग्यकाले हरिणो यान्ति प्रदक्षिणाः अप्रदक्षिणेषु हरिणेषु अयं जपः पक्षिषु च ।
श्वानरुदिते काकरुदिते काकमैथुनेषु पुरुषस्य मैथुनेषु श्येनमैथुनदर्शने नग्नस्त्रीदर्शने
नग्नपुरुषस्य नपुंसकस्य दर्शने । यत्र क्वचिदपशकुनाः पतिताः तत्र सर्वत्र अयं जपः ।
श्रुतौ स्मृतौ पठिता अदृष्टव्यास्तेषां सर्वेषां दर्शने अद्भुतानां दर्शनेष्वयं जपः
कर्त्तव्यः । लोके यद्विरुद्धं अन्वीक्ष्य...अयं जपः । अपशकुनजपः समाप्तः । सू० २३-
अथ पुरुषहवे अकार्यकरणेन विघ्नशमनकर्म उच्यते ।
कण्डिका ॥ ५३ ॥
सू० १ ।— पुनर्विघ्नशमनमुच्यते । पिशङ्गवर्णसूत्रे बद्ध्वा...अरलूमणिं सम्पा-
त्याभिमन्त्र्य बध्नाति...विस्कन्ध विघ्नशमनोमणिः । स्पर्धमानस्य स्पर्धां विनश्यती-
त्यर्थः । वेणुदण्डादीन् सम्पात्य ततः सूक्तेन विमृज्य धारयति ।...चित्रदण्डे ध्वज-
दण्डे चिन्हदण्डे । लकुटादिदण्डं सर्वं सम्पात्य...धारयति तस्य सर्पशृङ्गि दंष्ट्रादि
विघ्नं न भवति । आयुधं सम्पात्याभिमन्त्र्य विमृज्य सूक्तेन धारयति । सर्वशस्त्र-
सम्पातिते मायादिकं मायाजालयुद्धे निवारणं संग्रामे इन्द्रजालनिवारणं युद्धे विघ्नं
न भवति शत्रुहवं निवारयति । शत्रवो गच्छन्ति । स्पर्धिमानं शत्रुं जयति हवं
विनाशयति । सू० २ ।—विघ्नं गृहीतं पुरुषं धूपयति । यस्यारम्भा न सिध्यन्ति ।
सू० ३ ।—अथ भूमिशुद्धिं गृहं करिष्यमाणस्तस्येदं करोति । अथवा नवे गृहे श्येन-
यागः कर्तव्यः विकल्प इति भाष्यकारः । प्रथमतो वा श्येनयागो नवे वा गृहे ।
सू० ४ ।—अथ गृहप्रवेश उच्यते । वास्तुसंस्कार उच्यते । सू० ५ ।—ततः
शान्त्युदकं करोति । मातलीं पूर्वं कृत्वा वास्तोष्पत्यादीनिचतुर्गुणीं महाशान्ति
शान्त्युदके आवपते । ततो मातलीं कृत्वा ततः शान्त्युदकं समाप्यते । तेन भूमिं
प्रोक्षयेत् । सू० ७ ।— अन्येषु स्थूणा गर्तेषु पार्श्वस्थितेषु प्रक्षिपति । सू० ८ ।—
नीयमानां शालामनुमन्त्रयते । सू० ११ ।-दृढां कारयति शालाभूमिं । सू० १३ ।-
द्वाभ्यां चरुं जुहोति । केचिदस्मिन्मन्त्रे यजूंषि यज्ञ इति । सू० १५ ।—वृद्धस्त्रियो-
गीतमङ्गल्यादि कुर्वन्ति ब्राह्मणाः पुण्याहानि पठन्ति श्राद्धं च केचित्पश्चात्कुर्वन्ति ।
यत्र गृहं मण्डपं वा कुटीं वा चित्रशालां वा मठस्थानं वा देवगृहं वा अन्यं वा
तृणमयं वा काष्ठमयं वा इष्टकामयं वा पाषाणमयं वा गृहादिकं करोति तत्रानेन
विधानेन वास्तुयागः कर्तव्यः । सू० १६ ।-अथ क्रव्यादोपहतगृहे क्षेत्रे वान्यत्र गोष्ठे

वा यत्र क्वचित्तत्र शान्तिरुच्यते । क्रव्याद्वा प्रविष्टे गृहे कुमारा म्रियन्ते वत्सान् वा
किशोरान् वा धननाशो यत्र भवति तद्गृहं ग्रामं नगरं वा क्रव्यादोपहतं जानीयात् ।
सू० १८ ।—पालाशसमिध आंदधाति । सू० १९ ।—कुमारवत्सगोमरणादि धन-
धान्यविनाशादि चिन्तितोद्वेगादि क्रव्यादचिन्हानि । क्रव्यादोपहतशान्तिः समाप्ता ।
सू० २० ।—अथ क्रव्याच्छमनविधानमुच्यते । लौकिके वाऽग्नौ गृहे वावसथ्ये वा
शान्तिकपौष्टिकार्थं मन्थने वा यत्र वा क्रव्यादोपहतिर्दृश्यते तत्र सर्वत्र कुर्यात् ।
सू० २१ । अथ वशाशमनविधानमुच्यते “ये अग्नय” इति दशर्चेन सूक्तेन वशा-
मभिमन्त्र्य ततो ब्राह्मणाय ददाति । यस्य गृहे वशा भवति जायते तद्गृहं दैवहतं
विजानीयात् ।

कण्डिका ॥ ४४ ॥

सू० १ ।—वशाशमनविधानमुच्यते । सू० ३ ।—शान्त्युदकं करोति अन्वा-
रब्धायै वशायै काष्ठेन तृणेन वा । सू० ५ ।—मातलयन्तेन शान्त्युदकेनाचामयति
च संप्रोक्षति च । सू० ६ ।—वशां कर्ता ऊर्ध्वस्थितः वास्तोष्पत्यादि चतुर्गणीं
महाशान्तिं उच्चैस्तृतीयसवने जपति वशाभिमुखः स्थितः । सू० १४ ।—समस्येति
मन्त्रेण भूमौ कृत्वा तत उपरि वशां पातयति । सू० १५ ।--निरुच्छ्वासं करोति मार-
यतीति । सू० १७ ।—यदशेत्यृचा कल्पजया आज्यं जुहोति । सू० १९ ।—इति
कर्त्ता ब्रूयात् । सू० २८ ।—शेषमुदकं पार्श्वदेशे निक्षिप्य ततोऽभ

अस्मिन् कर्मणि नित्यनैमित्तिककाम्येषु “पुनर्मैत्विन्द्रियम्”त्यृचा आत्महृदय-
मनुमन्त्रयते । सू० १९ ।—एतेन विधानेन पशवो व्याख्याताः । नित्यनैमित्तिक-
काम्याः । पैठीनसिना काम्याः पठिताः ।
कण्डिका ॥ ४६ ॥
सू० १ ।—अथ अकृते पापे लोके पापवचनमुत्पद्यते तत्र शान्तिरुच्यते ।
सक्तुमन्थं...भक्तमभिमन्त्र्य ददाति प्रथममग्ने कृत्वा अभ्याख्यातं गृहे प्रवेश्य कर्ता
पश्चात्प्रविशति । सू० २ ।—द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । सू० ३ ।--
पलाशकाष्ठमणिं द्रुघणप्रतिरूपं कृत्वा अभिशस्ते बध्नाति । कृष्णलोहमणिं...
ताम्रमयद्रुघणप्रतिरूपमणिं हिरण्यमणिं द्रुघणप्रतिरूपं बध्नाति । सर्वत्रकौशिके
कर्मणां विकल्पः । एकस्मिन्विषये यत्र बहूनि कर्माणि पठितानि तत्रैकं कुर्यात् सर्वा-
णि वा तन्त्रविकल्पः । सू० ४ । —अथ यागे क्रियमाणे येन कर्मणा विघ्नशमनं
भवति तदुच्यते । ऋत्विजो यजमानश्चाशयन्ति अविघ्नेन यज्ञसिद्धिर्भवति ।
सू० ५ ।—यागसमाप्तौ विघ्नशमनमुच्यते । सोमदेवत्यं चरुं जुहोति ।
सू० ६ ।—अथ धनधान्यादि प्रतिग्रहादियाचनामिच्छन्निदं कृत्वा याचित-
विघातो न भवति । याचितं न प्रतिषेधयति । सारूपवत्सं पायसं सम्पात्याभि-
मन्त्र्याश्नाति । सू० ७ ।—अथ कपोते उलूके वा गृहं प्रविष्टे अन्यत्राभीष्टदेशेऽपि
तत्र शान्तिरुच्यते । शान्त्युदके आवपते ततो मातलिं कृत्वा शान्त्युदकं समाप्यते
रात्रौ तेन शान्त्युदकेन तत्स्थानं प्रोक्षति “यतायै” इत्येतैर्मन्त्रैः कपोतोलूक-
स्थानं यावत् । सू० ८ ।--त्रिः शालां परिणयति कपोतस्थानं वा परिभ्रामयेत् ।
आरण्यके पक्षिणि प्रविष्टे इदं कर्म कुर्यात् । कपोतोलूके वा प्रविष्टे द्विपदचतुष्प-
दविनाशो वेदे श्रूयते तस्य दोषशमनम् ॥ सू० ९ ।--
अथ स्वमाध्याये पठिते उग्रे स्वप्नदर्शने शान्तिरुच्यते । स्वमाध्यायपठितदुःस्वप्नं
च रुद्रभाष्यकारमतेन गृहीतव्यं । पक्वमांसे प्रेतदर्शने परिष्वङ्गमर्कटे दृष्ट्वा तैलाभ्यङ्गे
नग्नपुरुषदर्शने नग्नस्त्रीदर्शने कालसूत्रे इत्यादि स्वमाध्यायपठिता अनेकशः ।
इति दुःस्वप्नदर्शने शान्तिरुच्यते । स्वप्नं कुत्सितं दृष्ट्वा मुखं प्रक्षालयति ॥ सू०
१३ ।—अथ पुनर्धोरदुःस्वप्ननाशनकर्म उच्यते । “विद्मा ते” स्वप्ने इत्येकेन
पर्यायेण दुःस्वप्नं दृष्ट्वा मुखं विमार्ष्टि ।•• पार्श्वेन द्वितीयेन भूयते । अन्नं स्वप्ने दृष्ट्वा
निरीक्षते । मैश्रधान्यं पुरोडाशं जुहोति । सू० १४ ।—अथ आचार्ये मृते ब्रह्मचारी
इदं करोति । श्रेयस्कामः आचार्यदहने । अग्नेर्भूभ्यामित्यादि पञ्च सामिधेनी हुत्वा
ततो दहनं त्रिर्आमयित्वा तत “नहि ते अग्ने तन्व” इति सूक्तान्ते पुरोडाशं जुहोति
तस्मिन्दहने ॥ सू० १६ ।—कौशिकसूत्रे शयनं न मन्यते च प्रेतादिभयात्
तद्विघातशमनं । सू० २७ ।—“अपो दिव्या”इति चतसृभिर्ऋग्भिः स्नानं कृत्वा

त्रिरात्रं गृहे आगत्य ततः शयीत इति कौशिकमतं । मृते आचार्ये इदं कर्म प्राय-
श्चित्तं कृत्वा ततः समावर्त्तनं कुर्यादित्यर्थः । अन्यं गुरुमुपासीत । सू० १९ । अथ
ब्रह्मचारी स्त्रिया मैथुनसंयोगे इदं करोति । स अवकीर्णीत्युच्यते । तस्य प्रायश्चित्त-
मिदमुच्यते । ब्रह्मचारिणं दर्भरज्ज्वा कण्ठे बद्ध्वा । सू० २२।--अथ स्वयं प्रज्ज्व-
लिते अग्नौ प्रायश्चित्तमुच्यते । सू० २३ । - अथ अग्निशब्दकरणे शान्तिरुच्यते ।
अग्निमुपतिष्ठते ॥ २४ ॥ अथ संदेशे विस्मृते·· अग्निमुपतिष्ठते । यदि ग्रामे वा
गृहे वा संदेशं न कथयति तदा इदं प्रायश्चित्तं ॥ सू० २५-अथ पापनक्षत्रे जाते स्त्री
वा पुरुषो वा यो जातस्तस्य शान्तिरुच्यते । तस्य मुञ्जरज्ज्वा कण्ठे पादे बद्ध्वा ततः
“प्रत्नोही”ति-सूक्तेन उदकघटं सम्पात्याभिमंत्र्य दर्भपिञ्जुलीर्घटे प्रक्षिप्य ततोऽभि-
षिञ्चति ।···ग्रीवा पाशं नदीफेनेषु निदधाति । नदीनां फेनानित्यर्धर्चेन कटिपाशं
उदकमध्ये प्रक्षिपति । मातृपितृभ्रातृषु दोषः श्रवणात् । तस्मात् पापनक्षत्रेण शान्तिः
कर्तव्या । मूलनक्षत्रे इदं कर्म क्रियते । यो नक्षत्रकल्पोक्तं कर्म कुर्यात् । तदु-
च्यते । “प्रत्नो ही”ति सूक्तेन क्षीरौदनं सम्पात्याभिमंत्र्याश्नाति । एतस्मिन् तंत्रे
समूलं बर्हिस्तृणाति समूलेध्मानुपसमाधाय एष विशेषः । नक्षत्रकल्पोक्तं । एषा
नक्षत्रकल्पोक्ता शान्तिः । आप्लवनावसेचने च क्षीरौदनं च प्राशनं एतानि त्रीणि ।
अथवा “प्रत्नो ही”ति सूक्तेन उदकमभिमंत्र्य पापनक्षत्रजातमवसिञ्चति शिरसि
एतानि त्रीणि कर्माणि भवन्ति ॥सू०२६।-अथ ज्येष्ठे भ्रातरि जीवति विवाह आधान
दीक्षां च करोति तस्य शान्तिरुच्यते ॥ सू० २८।-उत्तरपाशं नदीनां फेनानित्यर्ध-
र्चेन नदीफेने निदधाति ॥ अधरपाशं नदीमध्ये प्रक्षिपति । ततो बन्धनं कृत्वा
ततोऽवसिंचति ॥ सू०२९।-अपां सूक्तैर्घटं सम्पात्याभिमंत्र्य तत आप्लावयति । अवसिं-
चति । परिवित्ति परिवेत्तृ प्रायश्चित्तं । सू० ३०-अथ मृते आचार्ये इदं कर्म । सू०
३३-अथ देवपितृवर्जितखदाशयनिहितस्य अन्नस्य याज्ञाकेन येन कर्मणा भवति
तदुच्यते । अनुवाकेन खदाशयादन्नादुद्धृत्य सेतिकामेकां जुहोति । सू० ३४-प्राय-
श्चित्तम् । सू० ३५-खदाशायान्नसंस्कारशान्तिः समाप्ता । सू० ३६-अथ मृते धनिके
ऋणकस्य ऋणदानशान्तिरुच्यते । अपमित्यमप्रतीत्तमिति त्रिभिः सूक्तैर्द्रव्यमभिमंत्र्य
पुत्राय ददाति । अनृणो भवति । सू० ४१-आकाशोदकेन शरीराप्लवने दोषो भवति
तस्य शान्तिरुच्यते ॥ सू० ४२ ।--“दिवो नु मां बृहत्” इति सूक्तेन एकतैलं
सर्वौषधिगन्धं हिरण्यं वा एतान्यभिमंत्र्य शरीरमुद्वर्त्तयेत् ॥ आकाशाबिन्दुदोषो-
पशान्तिः समाप्ता । सू० ४३ । - अथ कुमारस्य कुमार्या वा यस्योत्तमदन्तौ
पूर्वौ जातौ तस्य मातापित्रोर्मरणशङ्का भवति तन्न शान्तिरुच्यते । सू० ४४ । -
व्रीहियवतिलमाषानेकीकृत्याभिमन्त्र्य उत्तमजातदन्ताभ्यां दंशयति । सू० ४७ । -
अथ शिरसि भङ्गे वा काकोपविष्टे दोषः श्रूयते तस्य शान्तिरुच्यते । ४८।--

३८ अथर्ववेदीय-कौशिकसूत्रस्य-
उल्मुकमभिमन्त्र्य काकमुखेन अपमृष्टं पुरुषं पर्यग्निकरोति । उपरि भ्रामयित्वा
दूरे निक्षिपति । ४९ ।--अथ संसर्गदोषशान्तिरुच्यते । सर्वेषु रोगेषु शावदन्तादि
कुनखिनावण्डेन ज्वरेणापामार्गादिरोगेषु संसर्गेषु सर्वदोषान्मुच्यते । सू० ५०।—
अनृतमुक्त्वाचमनं करोति । वणिजि अनृतं कृत्वा दोषो न भवति । सू० ५१ ।—
यत्र क्वचित् खनति तत्र सर्वत्र "यत्त भूम" इति । खननदोषो न भवति । सू०५३।—
अथ शकुनशान्तिरुच्यते । अपशब्दं श्रुत्वा कपिञ्जलवाशितं श्रुत्वा ग्रामे अरण्ये
पक्षिवाशितं श्रुत्वा वा स्वयं वा क्रुद्धभाषणं कृत्वा अन्यस्य वचनं श्रुत्वा-उलूकवाशने
कपोतवाशने पूर्वतो वा उत्तरतो वा लोके निन्दितः । यत्किंचिल्लोके विरुद्धं दृष्ट्वा श्रुत्वा
सर्वत्र जपने स्वस्त्ययनं भवति । सू० ५५-आकाशे यदि स्वपिति अरण्ये वा शून्ये
गृहे वा पर्वते वा तदा तदा "यो अभ्य बभ्रून्" इत्यृचं जपित्वा स्वपिति । समाप्तानि
नैमित्तिकानि सर्वज्ञानप्रबोधनार्थं... दुष्टदोषविनाशनैमित्तिकानि । नैमित्तिकान्य-
वश्यं कर्तव्यानि । अकरणे धनधान्यपश्वादिविनाशः । "जरायुज" इति दुर्दिनमाय-
क्षित्यादीनि । अथाद्भुतानि वर्षे यज्ञेष्वखादिनैमित्तिकानि तानि अवश्यं कार्याणि ।
इति पञ्चमोध्यायः ॥ ५ ॥
कण्डिका ॥ ४७ ॥
क्रमप्राप्तो अथर्ववेदविहितोऽभिचार उच्यते । मीमांसायामभिचारो निषिद्धः ।
मनुस्मृतौ च विहितोऽभिचारः । सू० २ ।—आङ्गिरसकल्पोक्ताः संभाराः प्रत्ये-
तव्याः । दक्षिणस्यां दिशि मण्डपं, कारयेत्तत्र यथोक्तविधिना गुरुः । पताकातोर-
णैर्युक्तं द्वारं...स्मृतम् । सू० ९ । तथा तदग्न इत्यादि स्मर्त्तव्यं सर्वत्र । अभ्याता-
नान्ते "दूष्या दूषिरसी"ति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य बध्नाति कार-
यिता कर्त्ता सदस्यश्च...आत्मरक्षार्थम् । सू० १२—अधुना दीक्षा उच्यते शुक्लपक्षे
त्रयोदश्यां पूर्वाण्हे अभ्यातानान्तं कृत्वा "द्यावापृथिवी उर्वन्तरिक्षम"ति सूक्तं
कर्त्ता "कनक रजतेति" सूक्तं द्वाभ्यां सूक्ताभ्यां वेणुदण्डं छिनत्ति । सू० १४-१६ ।
"य इमां देवो मेखला"मिति पञ्चर्चैति सूक्तेन । मेखलां सम्पात्य । "अयं वज्र इति"
सूक्तेन दण्डं सम्पात्य । "य इमा"मित्यूचेन मेखलां बध्नाति । "वज्रो"सीति तृचेन
सूक्तेन दण्डं गृह्णाति । "नमो नमस्कृद्भ्य" इति सप्तर्षिभ्य उपस्थानं करोति शालाया
बहिः । ततः शालां प्रविश्य व्रतादानीयाः समिध आदधाति शान्ताः । व्रतश्रावणं
तस्मिन् करोति । अभ्यातानामुत्तरतन्त्रम् । दीक्षितस्त्रिरात्रमनशनं । त्रिरात्रे निवृत्ते
कृष्णपक्षे प्रतिपदि कर्म भविष्यति । सू० १७ ।—आङ्गिरसदण्ड वृश्चन सूक्तं प्रति-
पादन उक्तं गृहीत्वा मेखलाया ग्रन्थिमालिम्पति "आहुतास्यभिहुता" इत्यृचा । सू०

१८-२० ।—“अयं वज्र”—इति तिसृभिर्ऋग्भिः “यदश्नामि यदिरामि-”इति
द्वाभ्यां ऋग्भ्यां भोजनं करोति “यत्पिबामी” तृचा उदकं पिबति । अमुष्यस्थाने
शत्रुनाम ग्रहणं—। सू० २१ ।—फङ्गतो महुमद इत्येतेन मन्त्रेण भोजनपात्रं
भिनत्ति । सू० २२ ।—“इदमहं महुमदस्य तुरुष्कस्य मूतिकर्णपुत्रस्य प्राणापाना-
वपयच्छा”मित्यनेनेन मन्त्रेण मेखलां ग्रन्थ्या बध्नाति गाढं करोति । सू० २५-२७ ।
—“द्यावापृथिवी उर्विति” सूक्तेन पशुंवृक्षपत्रं च गृहीत्वा शत्रोर्दक्षिणा धावतः पदं
ऋजुं छिनत्ति । तिरश्चीनत्रिकोणे एकैकं एवमष्टावरान् सूक्तावृत्तिः । सू० २८ ।—
तस्माच्छेदात्पांसुं च गृहीत्वा वधपत्रे बद्ध्वा···अग्रे न्यस्यति । सू० ३० ।—अथवा
एतत्···अभिचारतन्त्रमुच्यते । पश्चादग्नेः करिष्यां कुद्युपस्तीर्णायां । सू० ३१ ।—
उदकं हस्ते कृत्वा दक्षिणामुखः प्रक्षिपति । सू० ३२-३३ ।—इदं च उष्णोदक-
मध्ये अक्षतसक्तून् प्रक्षिप्य पिबेत् अनालोडितानेकोच्छ्वासेन । सू० ३४-३६ ।—
“त्रीस्त्रीन्मुष्टी”स्त्रिरात्रं द्वौ द्वौ त्रिरात्रमेकैकं षड्रात्रे भुंक्ते “आहुतास्यमिहुते”त्येव-
मादि स्मर्त्तव्यं । सू० ३७ ।—ब्राह्मणान्परिचारकांश्च भोजयित्वा पात्रस्थितमुच्छिष्ट-
मेकधा कृत्वा बहुमत्स्ये गर्त्ते प्रक्षिपेत् । सू० ३८ ।—यदि ते धावन्तो दृश्यन्ते ततो
द्वेष्यो मृतो जानीयात् । सू० ३९-४२ ।—“द्यावा पृथिवी”इति सूक्तेन लोहितशि-
रसं शशकमाशयित्वा । प्रेतवत् कृत्वा अभिमन्त्र्य दहति ततः “अग्ने यत्ते तप”इति
पञ्चभिः सूक्तैरुपतिष्ठते । अन्यः कर्त्ता अभ्यातानान्तं कृत्वा कृकलास्राष्टधा कृत्वा
प्रत्यृचं जुहोति । सू० ४४ ।—निवृत्य वेद्यामुपवेश्य···स्वेदाक्ताः शरभृष्टीः प्रत्यृचं
जुहोति । सू० ४५ ।—शत्रुपदात्पांसुं गृहीत्वा पश्चादग्नेर्निधाय उदग् व्रजत्यास्वेदज-
ननात् । निवृत्य स्वेदालङ्गुतान्पांसून्···जुहोति । सू० ४६-५२ ।—कृकलासशरीरे
शर्करानावधाय विषमवधाय···बध्नाति “पाशैस” इति पादेन । “आमु”मित्यादत्ते ।
मर्मणि खादिरण स्रुवेण गर्तं खनति “अतीव य”इति तन्न निदधाति । सू० ५३ ।—
संचित्य मृत्तिकोपरि निदधाति “द्यावापृथिवी”इति सूक्तेन जुहोति । सू० ५४ ।—
“द्यावापृथिवी” इति सूक्तेन आवलेखनीं हृदये विध्यति···सू० ५७ ।—शत्रु-
मारणकामः ।
कण्डिका ॥ ४८ ॥
सू० १ ।—अश्वत्थ···कृकळास···एरण्ड···श्लेष्मान्तक···खदिर···शरस-
मिध आदधाति । सू० ३ ।—स्रुवाग्रे दण्डं बध्नाति । सू० ४ ।—शत्रुमर्मणि निख-
नति···सू० ५ ।—तौ अश्वत्थशाखायां प्रणुदति । सू० ६ ।—यावन्तः सपत्ना-
स्तावन्तः पाशान्···उदके प्लावयति । सू० ७ ।—शत्रुकोशं तमन्वाह मरणं भवति ।
सू० ८ ।—उपसमाधानं । ···स्रुवग्रहणं । ···जुहोति···सू० ९ ।—कृकळासकर्म

—इत्याद्यष्टभि-"
Line 30 starts with:
"र्ऋग्भिर्द्विधाकरणं ।"
Wait, look at the first character of line 30:
It is 'ऋ' with a repha on top! 'र्ऋ'!
Then 'ग्भि' with repha? "र्ऋग्भिर्द्विधाकरणं"!
Wait, 'अष्टभि-' + 'र्ऋग्भिर्' = अष्टभिर्ऋग्भिर्!
Yes, exactly: "र्ऋग्भिर्द्विधाकरणं ।"

Line 31:
"घटमन्यस्मै पुरुषाय प्रदाय “अग्नेर्भाग”—इत्यष्टभिस्तापने मन्त्रः । बर्हिर्दक्षिणामुखं"

Line 32:
"उपविश्य भाजनमग्रे कृत्वा “वातस्य रंहितस्य”—इति मन्त्रेण उदकं गृह्य । “सम-"
Wait, is it "गृह्य" or "गृह्णाति" or "गृह्य"?
Look at line 32:
उ द कं गृ ह्य । “ स म -
Yes, "गृह्य । “सम-"!

Everything is verified carefully. Ready to output the transcription line by line.४० अथर्ववेदीय-कौशिकसूत्रस्य—
शरभृष्टिकर्म सपत्नक्षयणीयकर्माणि षट्ग्राममेत्य च कर्माणि षट्मण

द्य”—इति सूक्तेन कल्पजेन सर्वेभ्यो भूतेभ्यो अभयवदनम् । “यो वा आपोऽ-
पा”मिति वज्रप्रक्षेपः । “एता मनाधरा च परा च” इति कल्पजया ऋचाभाजन-
मुदकभूमौ निनयति “यं वयमि”ति सूक्तेनैव “अपामस्मै वज्र”मित्येकया एवमेव
“इन्द्रस्यौज”—इत्यादि कर्तव्यं । तत्र रुद्रकृताः श्लोकाः—
प्रक्षालनं तथा योगो अप्सु पात्र निधापनं ।
अपोहनमनेनैव तन्निषेद्य पात्र पूरणम् ॥ १ ॥
विष्णोः क्रमोऽसीति द्वादशभिः प्रत्यृचं विष्णुक्रमानुक्रमते । शत्रोरभिमुखं ।
सवविधानेन बृहस्पतिशिरओदनं द्वेष्याय ददाति । “ममाग्ने वर्च”—इति सूक्तेन
तं पृषातकेनोपसिच्य “तस्यौदनस्येत्यर्थ”—सूक्तेनाभिमन्त्र्य ददाति । सूक्तेनाभिमृष्टे
सति सूक्तेन सम्पातवन्तं करोति । ०००उद्देहि०००नाचं ०००द्वेषत्सु अन्वाह—। समिद्धो
शङ्कुसहितान् पाशानभिमन्त्र्य अरण्ये निदधाति । द्वेष्यस्य पदं वृश्चति । पाशान्
अङ्गेऽभ्यस्यति । आमपात्रस्योपरि द्वेष्यस्य हस्तप्रक्षालनं करोति । वृषभं सम्पात्य
उत्सृजति शत्रुगृहानभिसृजति । रक्तशालिक्षीरौदनं सम्पात्याभिमन्त्र्य द्वेष्याय
ददाति । शत्रुप्रतिकृतिं च मृन्मयां कृत्वा वेदिमध्ये ऊर्ध्वं स्थाणौ निबध्य ०००मूर्ध्नि-
सम्पातानानयति । घृतेन पाचयति । “यस्मिन् पड्‌वींः पञ्च”इति उदवज्रान् प्रह-
रति उक्तेन विधानेन । “योऽन्नादोऽन्नपति”रित्यूचा द्वेष्यं मनसा ००आचामति स्वयं
द्वेष्यस्य मरणं भवति । सू० २५।—यश्च गां पदा स्फुरति ऋग्द्वयाधिकारः तृचेन
द्वेष्यं दृष्ट्वा अन्वाह । सू० २६।—अवभृथे स्नात्वा “निदुर्मण्य”—इति सर्वौषधि-
भिरात्मानमभिमृशति । अभिचारं कृत्वा इमां कर्त्ता शान्तिं करोति । समाप्ता अभि-
चारपद्धतिः । मरणं बन्धनं वा प्रणिपात उन्मत्तभावो वा भवति । भद्रमतेन भाष्य-
कारदारिलमतेन च एभिः त्रिभिर्भाष्यकारैः कौशिकोविचारितः तस्य तस्य एते पदार्था
भवन्ति । ततः श्लोकाः। दस्योमरणं व्यसनं चैव बन्धनं च विशेषतः । प्रणिपातोन्मत्तो
वा देवोपहतिरेव च । ०००उपाध्यायकवीश्वरेण नाम्नातोऽभिचारः कृतः । तुरुष्कमहु-
मदोपरिकारितः । पृथिव्यां दुष्टउत्पन्नः सर्वदा च विनाशयेत् । अधर्मसम्भवोदुष्टः
प्रजाहिंसनतत्परः । तुरुष्कनाम्नापापिष्ठाः देवब्राह्मणहिंसकाः पृथिव्यां श्रीभोजदेव
धर्मसंरक्षणाय च । देशे तु मालवके उत्पन्नः श्रीराजगृहेषु च ।”
कण्डिका ॥ ५० ॥
सू० १।—स्वस्त्ययनकर्मणां विधिं वक्ष्यामः यद्वा ग्रामे गच्छति तदा आच-
मनं कृत्वा ०००प्रथमं दक्षिणेन पादेन प्रक्रामति अध्वानं । सू० २।—गृहे वा क्षेत्रे
वा अन्यत्र वा प्रक्षिपति । यत्र क्षिपति तत्राविनाशोभवति । द्विपदचतुष्पदानां
स्वस्त्ययनं भवति । सू० ३।—दर्भादीनि तृणानि गृहे वा क्षेत्रे प्रक्षिपति । इन्द्र-
६

with ु = शु
Second: ष्क
Third: गो
Fourth: म
Fifth: य
Sixth: म
Seventh: भि
Eighth: मन्त्र्य
Wait, why did I think there was 'स'?
Ah, wait! Look at the sixth letter: is it 'स' or 'म'?
It has a loop on the left, horizontal crossbar, vertical line down. That is 'म'!
So it is: "शुष्कगोमयमभिमन्त्र्य"!
Wait, what is after that?
"गृहे विसृजि···स्तृणाति । सू०२०।—गोमयमभिमन्त्र्य पत्तनद्वारे"
Wait, look at "सू०२०।":
Is there space? "सू०२०।—" or "सू० २० ।—"?
Look at "सू०२०।":
The 'सू०' and '२०' and '।' are packed tight: "सू०२०।—"
Wait, there is almost no space between सू० and २०. It is "सू०२०।—".

Let's double-check all line numbers and lines.
Let's count the lines of text on the page:
1: मुपतिष्ठते । सू० ४ ।—खङ्गादिशस्त्रं सम्पात्य हस्तेन विमृज्याभिमंत्र्य धारयति ।
Wait, let's re-verify line 1:
Is it "खड्गादिशस्त्रं" or "खङ्गा

गृहद्वारे क्षेत्रे वा निखनति । सू० २१।—गोमयं अग्नौ । सू० २२।—"येऽस्यां-
स्थे"ति-अपामार्गमञ्जरीमभिमन्त्र्य संभिनत्ति गृहे स्तृणाति ।...अपामार्गप्रसूनमभि-
मन्त्र्य द्वारे निखनति । अपामार्गमञ्जरीं निखनति ग्राममध्ये । गुडूचीमभिमन्त्र्य
नाना करोति । गृहे स्तृणाति । गुडूचीपादानभिमन्त्र्य निखनति । गुडूचीपादानग्नौ
जुहोति । पराचीन मूलान् समाप्तानि मशकादीनां स्वस्त्ययनानि ।
कण्डिका ॥ ५१ ॥
सू० । १ ।—अथ व्याघ्रचौरवृकचरकसिंहारण्यकादीनां भये स्वस्त्ययनान्यु-
च्यन्ते । गांपृष्ठतो गच्छति । कीलकं निखनन्नुद्घाटयन् गृहारण्यं गच्छति व्या-
घ्रादि स्वस्त्ययनकामः । सू० २ ।—उदकघटमभिमन्त्र्य गोप्रचारे निनयति ।
ततः पांसुन्कूटतन्त्रं कृत्वा अर्धं दक्षिणेन हस्तेन विक्षिपति । इन्द्राय पाकयज्ञ
विधानेन । सू० ४।—ये ऽस्यामिति सूक्तेन प्रत्यृचमुपतिष्ठते । सू० ५।—मध्ये
पञ्च बलिहरणं...। सू० ७।—पर्वतदेवतायै अरण्ये पाकयज्ञविधानेनाज्यभागान्तं
कृत्वा" ब्रह्मजज्ञानमनाप्ता ये सहस्रधारेति सूक्तेन जुहोति" । हिमवते त्वा जुष्टं
निर्वपामि हिमवते त्वा जुष्टं प्रोक्षामि हिमवन्तं गच्छतु हविः स्वाहेति । निकटं
पर्वतं यजते । भवाशर्वौ मृडतमित्यर्ध सूक्तेन चरूं जुहोति । भवाय जुष्टं निर्वपामी-
त्यादि । सू० ८।—भवाशर्वादिभ्यो देवताभ्यो निर्वापं कृत्वा बृहद् भाण्डके
श्रपणं ।...एते सप्तपर्वतदेवताः । व्याघ्रचौरवृश्चिकहस्त्यारण्यकगवि इत्यादि-
भये स्वस्त्ययनं । सू० ९।—गोष्ठकर्म व्याख्यास्यामः । गोशान्तेः पाकयज्ञं तन्त्रं
कृत्वा इन्द्रदेवतायै ब्रह्मजज्ञानमनाप्ता ये सहस्रधार इति सूक्तेन । भवाशर्वौ मृडत
मिति सूक्तेन चरूं जुहोति ।...रुद्रदेवस्य चरोः हविरुच्छिष्टं यजमानोऽश्नाति । सू०
११।—प्रथमप्रसवे गवां शान्तिरुच्यते । ब्रह्मजज्ञानं...वत्सस्य वा वत्सिकाय
वा मुखं म्रक्षति स्वस्त्ययनकामः । सू० १३।—शाखामूदकमभिमन्त्र्य गोभ्यो
बहिरुदकधारां निनयति । सू० १४।—अथ पत्तनग्रामस्य गृहस्य शान्ति-
रुच्यते । गृहकोणेषु निखनति चतुरः एकं मध्ये एकं गृहोपरि निदधाति । सू०
१५।—अथात्र स्वस्त्ययनमुच्यते । सू० १६।—त्रीणि सस्यवल्ली अभिमन्त्र्य
क्षेत्रमध्ये निखनति । समाप्तमन्नव्याधिरक्षास्वस्त्ययनम् । सू० १७ ।—अथ
मूषकपतङ्ग शलभहरिणरुरुशल्यादीनि सस्यविनाशकानि तेषां शान्तिरुच्यते ।
अभिक्रामति मूषिकादिस्थाने । सू० १९ ।—मूषकादिमुखं केशेना वन्धयित्वा
क्षेत्रमध्ये निखनति । सू० २२ । तस्मिन्नहनि मौनं कुर्यादस्तमयनं यावत् ।
समाप्तं मूषकशलभपतङ्गटिट्टिभकीटककीटिकाहरिणरुरुशल्यकगोसेधागोकृम्यादिस्वस्त्य-
यनम् ।