सामग्री पर जाएँ
सर्वकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 322, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 322

२६ अथर्ववेदीय-कौशिकसूत्रस्य—
आवपेत्सुरभिगन्धान् क्षीरे सर्पिस्तथोदके ।
एतदायनमित्याहु रौक्षं तु मधुना सह ॥—
सू० १५।—दक्षिणामुखी कुमारी प्रक्रामति । सू० १६।—नावं सम्पात्य
“भगस्य नाव” मित्यृचा उत्तारयति । सू० १७।—सप्तदानतंत्र्या वत्सान् बन्ध-
यित्वा सम्पात्याभिमंत्र्य कुमारीं मोचयति । स्वयं न कर्त्ता । यदि प्रदक्षिणं मोचयति
तदा पतिलाभः । सू० १८।—वृषभं विसर्जंयति । सू० २१।—आगम कृशरं
आशयति आज्यतंत्रे भगिनीकं । सू० २३।—तत “अर्यम्ण” इत्यर्धर्चेन गृहाभ्य-
न्तरे कोणे, बलिहरणं करोति । सू० २४।—यत आगच्छति काकस्तत आगच्छति
वरः समाप्तानि पतिलाभकर्माणि ।
कण्डिका ॥ ३५ ॥
सू० १।—पुंसवानान्युच्यन्ते । सू० २। — नक्षत्रकल्पे उक्तानि पुंनक्षत्राणि
सू० ३। —बाणं विवृर्हति । शरमणिं सम्पात्याभिमंत्र्य बध्नाति । सू० ४।—
अध्यण्डे बृहतिपलाशविदार्यौ वा एकत्र पिष्ट्वाभिमंत्र्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां
नासिकायां नस्तं ददाति । पुत्रार्थं कर्म पुंसवनमित्युच्यते । सू० ५।६।७।—
केलूनांश्च पलाशत्सरु निर्वर्तं निघृष्य शिश्ने आधाय ततो मैथुनं करोति । समाप्तं
गर्भाधानं । सू० ८।९। —पुनः पुंसवनमुच्यते मधुमन्थेऽद्रिं निक्षिप्याभिमंत्र्य
पाययति स्त्री । सू० १०।—शमीगर्भऽश्वत्थस्याङ्घ्रिं कृष्णोर्णया वेष्टयित्वा सम्पात्याभि-
मन्त्र्य बध्नाति आज्यतन्त्रे । समाप्तं पुनः पुंसवनं । सू० ११।—अथ गर्भाधान-
मुच्यते हस्तावतंकं कर्णादिकं सम्पात्याभिमन्त्र्य बध्नाति आज्यतन्त्रे । समाप्तं
गर्भाधान । सू० १२।—अथ गर्भबृंहणमुच्यते । “अच्युता द्यौरि”ति । सू०१६।
“धाता दधात्वि”ति चतसृभिर्गर्भिण्या उदरमभिमंत्रयते वीरकर्म समाप्तं सू० १७।
अथ प्रजननकर्म । “प्रजापतिर्जनयती”ति सूक्तेन । सू० १९।—उदकुलिजं
संपातवन्तं कृत्वा गर्भिणीं परिहृत्य मध्ये निनयति । सुरा कुलिजं ... भक्तं सुरां
प्रपां सम्पात्याभिमन्त्र्य प्रजाकामायै प्रयच्छति । समाप्तं प्रजागर्भकर्म वन्ध्यायाः ।
सू० २०। —अथ सीमन्तकर्म उच्यते । श्वेतपीतसर्षपाञ् सम्पात्याभिमन्त्र्य
पुण्याहान्ते बध्नाति । सू० २१।—अथ स्त्रीवशीकरणमुच्यते । वृक्षत्वक् , तगरं,
शरखण्डं, अञ्जनं, कुष्ठं, ज्येष्ठिमधु, वातसंभ्रमतृणानि । एतानि द्रव्याणि आज्येना-
लोढ्य अङ्गं समालभेत रुच्यर्थम् । सू० २२। —अङ्गुल्या तुदति भार्यायामुदरे
पृष्ठौ रुच्यर्थी । सू० २३ । —एकविंशतिबदरीकण्टकानादधाति । सू० २४।—
एकविंशतिबदरीप्रान्तानि सूत्रेण वेष्टयित्वा । सू० २६। —खट्वा अधोमुखपट्टिकां
गृहीत्वा...स्वपिति । त्रिरात्रं कर्म । सू० २७। —अर्दयञ्छेते । सू० २८।—
समाप्तानि संवननानि वशीकरणानि कामविषये स्त्रियामुत्साहो भवति ।