कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 335, कुल 361 में से
संदर्भ में पढ़ें१८-२० ।—“अयं वज्र”—इति तिसृभिर्ऋग्भिः “यदश्नामि यदिरामि-”इति
द्वाभ्यां ऋग्भ्यां भोजनं करोति “यत्पिबामी” तृचा उदकं पिबति । अमुष्यस्थाने
शत्रुनाम ग्रहणं—। सू० २१ ।—फङ्गतो महुमद इत्येतेन मन्त्रेण भोजनपात्रं
भिनत्ति । सू० २२ ।—“इदमहं महुमदस्य तुरुष्कस्य मूतिकर्णपुत्रस्य प्राणापाना-
वपयच्छा”मित्यनेनेन मन्त्रेण मेखलां ग्रन्थ्या बध्नाति गाढं करोति । सू० २५-२७ ।
—“द्यावापृथिवी उर्विति” सूक्तेन पशुंवृक्षपत्रं च गृहीत्वा शत्रोर्दक्षिणा धावतः पदं
ऋजुं छिनत्ति । तिरश्चीनत्रिकोणे एकैकं एवमष्टावरान् सूक्तावृत्तिः । सू० २८ ।—
तस्माच्छेदात्पांसुं च गृहीत्वा वधपत्रे बद्ध्वा···अग्रे न्यस्यति । सू० ३० ।—अथवा
एतत्···अभिचारतन्त्रमुच्यते । पश्चादग्नेः करिष्यां कुद्युपस्तीर्णायां । सू० ३१ ।—
उदकं हस्ते कृत्वा दक्षिणामुखः प्रक्षिपति । सू० ३२-३३ ।—इदं च उष्णोदक-
मध्ये अक्षतसक्तून् प्रक्षिप्य पिबेत् अनालोडितानेकोच्छ्वासेन । सू० ३४-३६ ।—
“त्रीस्त्रीन्मुष्टी”स्त्रिरात्रं द्वौ द्वौ त्रिरात्रमेकैकं षड्रात्रे भुंक्ते “आहुतास्यमिहुते”त्येव-
मादि स्मर्त्तव्यं । सू० ३७ ।—ब्राह्मणान्परिचारकांश्च भोजयित्वा पात्रस्थितमुच्छिष्ट-
मेकधा कृत्वा बहुमत्स्ये गर्त्ते प्रक्षिपेत् । सू० ३८ ।—यदि ते धावन्तो दृश्यन्ते ततो
द्वेष्यो मृतो जानीयात् । सू० ३९-४२ ।—“द्यावा पृथिवी”इति सूक्तेन लोहितशि-
रसं शशकमाशयित्वा । प्रेतवत् कृत्वा अभिमन्त्र्य दहति ततः “अग्ने यत्ते तप”इति
पञ्चभिः सूक्तैरुपतिष्ठते । अन्यः कर्त्ता अभ्यातानान्तं कृत्वा कृकलास्राष्टधा कृत्वा
प्रत्यृचं जुहोति । सू० ४४ ।—निवृत्य वेद्यामुपवेश्य···स्वेदाक्ताः शरभृष्टीः प्रत्यृचं
जुहोति । सू० ४५ ।—शत्रुपदात्पांसुं गृहीत्वा पश्चादग्नेर्निधाय उदग् व्रजत्यास्वेदज-
ननात् । निवृत्य स्वेदालङ्गुतान्पांसून्···जुहोति । सू० ४६-५२ ।—कृकलासशरीरे
शर्करानावधाय विषमवधाय···बध्नाति “पाशैस” इति पादेन । “आमु”मित्यादत्ते ।
मर्मणि खादिरण स्रुवेण गर्तं खनति “अतीव य”इति तन्न निदधाति । सू० ५३ ।—
संचित्य मृत्तिकोपरि निदधाति “द्यावापृथिवी”इति सूक्तेन जुहोति । सू० ५४ ।—
“द्यावापृथिवी” इति सूक्तेन आवलेखनीं हृदये विध्यति···सू० ५७ ।—शत्रु-
मारणकामः ।
कण्डिका ॥ ४८ ॥
सू० १ ।—अश्वत्थ···कृकळास···एरण्ड···श्लेष्मान्तक···खदिर···शरस-
मिध आदधाति । सू० ३ ।—स्रुवाग्रे दण्डं बध्नाति । सू० ४ ।—शत्रुमर्मणि निख-
नति···सू० ५ ।—तौ अश्वत्थशाखायां प्रणुदति । सू० ६ ।—यावन्तः सपत्ना-
स्तावन्तः पाशान्···उदके प्लावयति । सू० ७ ।—शत्रुकोशं तमन्वाह मरणं भवति ।
सू० ८ ।—उपसमाधानं । ···स्रुवग्रहणं । ···जुहोति···सू० ९ ।—कृकळासकर्म