सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

देवयाज्ञिकभाष्यसमेतम् । १३
ननु सत्रिवत्कर्तृभेद इति युक्तमेकवचनम् । सत्रिणां हि पृथग्द्रव्यतया
पृथगेव कर्तृशक्तिर्वाचनिकानेकर्तृत्वसिद्ध्यर्थं तु कर्तॄणां साहित्यम् । इह
तु सहैव कर्तृत्वमिति विशेषः ।
ननु साधारणमपि धनं विभज्य पृथग्यागः सम्भवति, मैवम्, यतस्तयो-
र्विभागः प्रतिषिद्धो न भर्त्रा सह विभजेदिति । तस्मान्न विभज्य यागः ।
अतो द्रव्यसाधारण्याद्विभागप्रतिषेधाद् “ धर्मे चार्थे च कामे च नातिचरित-
व्या ” इतिवचनात्पृथक्प्रयोगे प्रागुक्तवैगुण्यापत्तेश्च स्वामिभ्यां समुचिताभ्या-
मेवेक्षितस्याज्यस्य कर्माङ्गत्वान् न पृथक् कर्तृत्वम्, किन्तु सहैव । एवंच यजमान-
विद्वत्तयैव पत्न्या अपि कार्यसिद्धेर्नाविद्वत्तया तस्या अधिकारभङ्गः । अत एव
सूत्रकारः “ अनुचरीर्वा फलाधिकारादितरासाम् ” इति पत्न्या अपि फलं
दर्शयति । तिरपि “ दिवि ज्योतिरजरमारभेत ” इति । तथा च स्मृतिः ।
“ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । शुश्रूषयति भर्त्तारं तेन
स्वर्गे महीयते ” इति ।
एवं दम्पत्योः सहाधिकारे तुल्यफलत्वे च सिद्धे इदं चिन्त्यते । किं सर्वं
याजमानं पत्न्या अपि कर्त्तव्यम् ? उत यावदुक्तमाशीर्ब्रह्मचर्यादिकमिति । किं
प्राप्तम् ? तस्या अपि यजमानत्वेन तुल्यत्वात्सर्वं याजमानं तयापि कर्त्तव्यमित्ये-
वं प्राप्ते ब्रूमः । अत्र जैमिनिसूत्रम्, “तस्या यावदुक्तमाशीर्ब्रह्मचर्य्यमतुल्यत्वात्”
इति । ( ६-१-६-२४ ) तस्या यावदुक्तं स्यात् । अतुल्यत्वात् । यजमानस्तु
पुमान् विद्वांश्च । पत्नी च स्त्रीत्वाविशेषाच्च । अतः ऋत्वर्थेषु यानि यजमानं
गृह्णन्ति । तद्यथा “ यजमानो वेदं बध्नाति ” “पात्राण्यासादयति” “ शुक्र-
मन्वारभेत ” इत्यादीनि । तत्र यजमानस्योपादेयत्वादेकवचनं विवक्षितम् ।
अतस्तत्र पत्न्या न कर्तृत्वम् । एवमेव “ पत्न्याज्यमवेक्षते ” “ श्रदस्मै नर
इत्येनमवेक्षते पत्नी ” इत्यादौ पत्न्या एव कर्तृत्वं न यजमानस्य, उक्तादेवहेतोः,
यानि च ऋत्वर्थानि समन्त्रकाणि तेष्वविषयत्वात्पत्नी न स्यात् । स्त्रीणामध्ययन-
प्रतिषेधात्सा मन्त्रोच्चारणं कर्तुं न शक्नोति । न चान्यथानुपपत्त्या तस्या अप्यध्य-
यनं कल्पयितुं शक्यते । सम्पन्नविद्येन पुंसा तेषामनुष्ठानसिद्धेः । यद्धि ऋत्वर्थं
तदेकेन येन केनचित्कर्तव्यम् । अतोऽनुपपत्तेः क्षीणत्वात्प्रतिषिद्धस्य पत्न्या अ-
ध्ययनस्य पुनः प्रसवे न किंचित्प्रमाणमस्ति, तस्मात्तदपि पत्न्या न कर्त्तव्यम् ।
याश्चाशिषो यच्च ब्रह्मचर्यं तत्पुरुषं प्रति गुणभूतं न तत्रान्यतरेण कृते सि-

ध्यति, अन्यतरस्य संस्कारो हीयेत । नच तत्र यजमानस्योपादेयत्वेन श्रवणम् ।
तस्माल्लिङ्गमप्यविवक्षितम् । अत आसां ब्रह्मचर्यमुभयोः “आशीः”शब्देनात्र-
संस्कारा लक्ष्यन्ते । व्रत्याशनाधःशयनपावनाक्षाञ्जनाभ्यञ्जनादयः । ते ह्युभयो-
र्भवन्ति । संस्कारेष्वपि पत्न्या वपनं न भवति । कुतः ? वपनविधौ “केशश्मश्रु-
वपते” इति समाहारद्वन्द्वोऽयम् । तत्र केशश्मश्रुणोरितरेतरयोगे सति शास्त्रोक्तं
वपनं न सम्पद्यते । न च पन्त्यास्तयोः साहित्यमस्ति । श्मश्वभावात् । अतस्त-
स्या न वपनमसामस्त्यादिति तन्त्ररत्ने । ब्रह्मचर्यग्रहणं काम्यानां लक्षणार्थम् ।
ब्रह्मचर्याशीर्ग्रहणेनैव लक्षितत्वात् । कामा अपि पत्न्या भवन्ति, तदभावेऽधि-
कारानुपपत्तेः । ये मन्त्राः क्रत्वर्थकास्तेष्वपि यजमान एव कर्त्ता विद्वत्त्वात्स्व-
तन्त्रत्वाच्च । अतः सर्वं समन्त्रकममन्त्रकं च याजमानं यजमानेनैव कर्त्तव्यम् ।
आहत्य विहितं त्वाज्यावेक्षणादि पत्न्या कर्त्तव्यं नान्यत् । तदेवमङ्गहीनादिवर्जि-
तानां ब्राह्मणक्षत्रियवैश्यानां पत्नीसहितानामग्निहोत्रादिकर्मस्वधिकार उक्तः ॥८॥
(रथकारस्याधान एवाधिकारः)
अथ रथकारस्याधिकारमाह-
रथकारस्याधाने ॥ १ । १ । ९ ॥
रथकारस्याधाने अग्न्याधानकर्मणि अधिकारो भवति । “वर्षासु रथ-
कार आदधीत” इतिश्रुतेः । अत्रेदं सन्दिह्यते । किं त्रैवर्णिकानामन्यतमो
रथकरणयोगाद्रथकार इत्युच्यते ? आहोस्विन्नियतं किञ्चिज्जात्यन्तरमिति ।
किं तावत्प्राप्तम् ? त्रैवर्णिकानामन्यतम एवेति । कुतः ? सोऽपि हि रथं करोती-
त्ति योगाद्रथकार इत्युच्यते । तस्य च त्रैवर्णिकत्वादाधानं प्राप्तमेव । ऋतुमात्रं विधे-
यम् । तथा सत्येकार्थविधानाद्वाक्यभेदो न भवति, लाघवं च । जात्यन्तरपक्षे
तु तस्याधानं विधातव्यमृतुसम्बन्धश्च । तथा सति वर्षास्वादधीत रथकार आद-
धीतेत्येवं वाक्यभेदः स्यात् । अपि तु शूद्रस्त्वसमर्थत्वात्प्रतिषिद्धः । तस्मा-
त्त्रैवर्णिकानामन्यतम एवेति पूर्वः पक्षः ॥ ९ ॥
सिद्धान्तमाह—
नियतं च ॥ १ । १ । १० ॥
चो वेत्यर्थे । वाशब्दश्च पूर्वपक्षनिरासार्थः । न त्रैवर्णिको रथकारः । तस्या-
शिल्पोपजीवनस्य प्रतिषिद्धत्वात् । किन्तु नियतं जात्यन्तरमेव । अत्र केचिदेव-
माहुः-वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः, शूद्रायां वैश्यादुत्पन्ना करणी, तस्यां

देवयाज्ञिकभाष्यसमेतम् । ३५
च करण्यामाहिष्यादुत्पन्नो रथकार इति । तदुक्तं स्मृतौ । “माहिष्योग्रौ प्रजायेते
विट्शूद्राङ्गनयोर्नृपात् । शूद्रायां करणो वैश्याद् ” इति । याज्ञवल्क्योऽपि “वै-
श्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्यां विन्नास्वेष
विधिः स्मृतः ।” विन्नासु विधिना परिणीतासु । तथा । “माहिष्येण करण्यां
तु रथकारः प्रजायते” इति । अतो रथकारशब्द एवंविधसङ्करजातौ रूढः ।
रूढिश्च योगाद् बलीयसीतिन्यायात् । रथं करोतीति योगं बाधित्वा जात्यन्तर-
मेव रथकारशब्देनोच्यते । तस्यैवाधानं कालविशिष्टं विधीयते । विशिष्टविधा-
नाच्च वाक्यभेदोऽपि न भवति अपरे त्वाहुः—रथकारशब्देनात्र सुधन्वनां
ग्रहणम्। “ऋभूणां च” इत्याधानमन्त्रवर्णात् । सौधन्वनाश्च ऋभव इति सामाना-
धिकरण्यनिर्देशात् । तथाचाह मनुः । “ व्रात्या तु जायते वैश्या न सुधन्वाचा-
र्य एव च । पारुषश्च विजन्मा च मैत्रः सात्वत एव च” इति । अतो मनुक्तो यः
सुधन्वा व्रात्यवैश्यपुत्रः, तत्पुत्राणां सौधन्वनानामृभूणामेवात्राधिकारः । य-
स्तुयाज्ञवल्क्येनोक्तो न तस्याधिकारः, सत्यपि रथकारशब्दवाच्यत्वे मन्त्रव-
र्णात् । छागन्यायेन सौधन्वनानामेवाधिकार इति । तथाच जैमिनिः। “सौध-
न्वनास्तु हीनत्वान्मन्त्रवर्णात् प्रतीयेरन् ” ६-१-११-५० इति । सौधन्वना-
नामजातिहीनास्ते केचिन्त्रैवर्णिकेभ्यो जात्यन्तराः । नच ते शूद्रा, न वैश्या, न
क्षत्रिया, न ब्राह्मणा इति । तेषामिदमाधानम् । कथमप्रसिद्धेर्मन्त्रवर्णाच्च ।
मन्त्रवर्णो हि भवति । सौधन्वना ऋभव इति । “ऋभृणत्वा” इति च रथकार-
रथाधानमन्त्रः । तस्मात्सौधन्वना ऋभवश्च रथकाराः । अपि च “तं नेमिमृभवो
यथा” इतिच । ‘ये नेमिं नमन्ति ते ऋभवः’ इत्युच्यन्ते । रथकाराश्च नेमिं
नमन्ति । तस्मात्त्रैवर्णिकानामशूद्राणामेतदाधानमिति शबरस्वामिनः ॥ १० ॥
ननु विध्यभावेन सौधन्वनानामसमर्थतयाऽनधिकारात्त्रैवर्णिक एवावयव-
व्युत्पत्त्या रथकारशब्देन किमिवि न गृह्यते । सोऽपि हि रथकारो भवति ।
तस्याधानं प्राप्तमेवानूद्य, ऋतुमात्रविधानाल्लाघवं भवति । जात्यन्तरे तु विशिष्ट-
विधानाद् गौरवं स्यादित्याशङ्कायामुत्तरमाह—
नाभावादित्वात्स्यः ॥ १ । १ । १२ ॥
वात्स्य ऋषिरित्याह । न त्रैवर्णिको रथकारः । कुतः ? अभावात् ।
त्रैवर्णिकस्य रथकारस्याभावात् । कथमभावः ? यौगिकोऽयं शब्दो रथं करोतीति
रथकार इति तेन यावत्कालं रथकरणसम्बन्धस्तावत्कालं रथकार इत्युच्यते न

१६ कात्यायनश्रातसूत्रम् ।
सर्वदा। अतस्त्रैवणिकस्य रथकारस्याभावात्, विचारहितस्यापि ऋभुसौधन्वन-
सात्वनापरपर्यायस्य जात्यन्तरस्य रूढ्यवगतस्य वचनादाधानेऽधिकारो भवति ।
अत्र पार्थसारथिमिश्रा आहुः। रथकारस्यैव ऋभुसौधन्वनसात्वताद्यपर-
नामधेयस्याऽऽधानान्तरं वर्षासु विधीयते वचनात्। नहि वचनस्य किञ्चिदश-
क्यमस्ति। तेन तावद्रूढिबलेन योगं बाधित्वा सौधन्वनानामाधाने विहिते तद्व-
लेनैव यथाकञ्चिन्मात्रौपयिकं विद्यार्जनमपि विनोपनयनमाक्षिप्यते। स्वाध्याय-
विधिविहिताध्ययनाङ्गत्वान्दुपनयनस्य रथकारस्य तदभावादाधानविधिनेव विद्या-
र्जनमाक्षिप्यते। नचास्याऽऽधानसम्भवेऽपि क्रत्वधिकारः सम्भवति। विद्याभावात्।
आधानविधिस्तु तावन्मात्रोपक्षीणत्वान्नक्रतुष्वधिकारं कल्पयितुमर्हति । तेन
प्रधानकर्मैव तस्याधानं विश्वजिदादिवत्कल्प्यफलम्। नचास्याऽऽहवनीयाद्युत्पा-
दकत्वम्, अर्थकर्मत्वेनाग्निसंस्कारानर्हत्वात् । तस्मादाधानं प्रधानकर्म रथकार-
स्य विधीयत इति ॥११॥
रथकारस्याधान इत्येवमादीनां सूत्राणामपरा व्याख्या। रथकारस्याधा-
नेऽधिकारो भवति तत्र श्रुतत्वादित्युक्तम् । रथकारशब्दस्तु जात्यन्तर एव रूढः।
अतो यौगिकाशङ्कैवनास्ति। अतः प्रकारान्तरेण व्याख्यानं क्रियते। रथकारस्य
किमाधानमात्रेऽधिकार उत त्रैवर्णिकवत्सर्वकर्मस्वपीति ? तत्र

देवयाज्ञिकभाष्यसमेतम् । १७

तत्र; कुतः ? अभावात् । लिङ्गाभावस्यैवाभावात् । लिङ्गसद्भावादित्यर्थः ।
कानि पुनस्तानि लिङ्गानि यै रथकारस्यापि कर्मस्वधिकारो व्याक्रियते ? उच्यते—
“ आधावेति शूद्रस्य ” “अष्ठीवद्दध्नं शूद्रस्य” “मस्तु शूद्रस्य” इति । शूद्रस-
म्बन्धाद्रथकारोऽत्र शूद्रशब्देनाभिधीयते, तस्य मातामही शूद्रेति ।
चतुर्थवर्णस्य शूद्रस्य तु प्रतिषेध उक्तः, “ शूद्रवर्जम् ” इति । तेनैतानि
गौणशूद्रविषयकाणीति ।
रथकारस्याधानमात्रेऽधिकारपक्षे, एतानि निर्विषयान्येव स्युः । तस्माद्रथ-
कारस्योत्तरकर्मस्वप्यधिकार इति सिद्धम् । तथाचोक्तं याज्ञवल्क्यस्मृतिविवृत्तौ
मिताक्षरायां विज्ञानेश्वरेण, “क्षत्रियेण वैश्यायामुत्पादितो माहिष्यः, वैश्याच्छू-
द्रायामुत्पादिता करणी, तस्यां माहिष्येणोत्पादितो रथकारो नाम जात्या भवति ।
तस्य चोपनयनादि सर्वं कार्यं वचनात् ; तथाह शङ्खः—क्षत्रियवैश्यानुलोमान-
न्तरोत्पन्नजो रथकारस्तस्याध्ययनेज्यादानोपनयनसंस्कारक्रियाश्चाप्रतिषिद्धा,
रथसूत्रं वास्तुविद्याध्ययनवृत्तिता चेति । रथसूत्रं रथविधेति मञ्जर्य्या व्याख्यातम् ।
तत्र तु संस्कारक्रियाश्चाप्रतिषिद्धा रथसूत्रमित्येवं पाठः । अतो याज्ञवल्क्योक्त एव
रथकारोऽत्र गृहीतुं न्याय्यः, तस्य च शङ्खोक्तयज्ञादिकर्मस्वधिकारः । तथासति
“ आधावेति शूद्रस्य ” इत्यादीनि वेदवाक्यानि सार्थकानि भवन्ति ।


१ “ लिङ्गाभावानधिकारो गम्यते । एवमभिधाय पुनराधिक्येन व्याख्यायते ।
अभावाल्लिङ्गानामुपरितनकर्मस्वधिकारो न स्यात् । अस्ति तु लिङ्गस्य भावः । न च लिङ्गभा-
वमात्रेणैवानधिकारो गम्यते । आधानं हि तस्य श्रुतम् । तद्धि संस्कार्याग्निद्वारेण परार्थमिति
वात्स्यग्रहणमुक्तार्थम् ” इति कर्कः । ‘ अस्ति तु भावः’ इति सामान्येनोक्तं लिङ्गसत्त्वं
प्रदर्शयति अपिचेत्यादिना । नाभावादिति सौत्रपदे न अभावो नाभाव इति नञ्शब्देन
सुप्सुपेति समासः । उत्तरकर्मस्वनधिकारप्रयोजकत्वेनाभिमतस्य लिङ्गाभावस्याभावादित्यर्थः ।
उत्तरकर्मसु रथकारस्याधिकारोऽस्त्येवेति शेष इति महामहोपाध्यायश्रीनित्यानन्दपर्वतीयगुरु-
चरणाः । २ अत्राह भगवान् खण्डदेवः—मम तु प्रतिभाति—नाधानस्यार्थकर्मत्वं प्रमाणाभावा-
त् । अग्नीनिति द्वितीयान्तपदे लक्षणादेरावश्यकत्वे रथकारपदे योगाङ्गीकारस्यैव न्याय्यत्वाच्च;
अपि त्वाहवनीयाद्युत्पादकत्वमेव । न च तेषामनुपयोगः, अविद्वत्तया क्रत्वधिकाराभावेन

१८ कात्यायनश्रौतसूत्रम् ।
'मनूक्त व्रात्यवैश्यजातसुधन्वपर्याये रथकारे गृह्यमाणे तेषां वैयर्थ्यमेव स्यात् ।
न च तदिष्यते । तस्माद्याज्ञवल्क्योक्तमेव श्रुतम् , श्रुतिसम्मतत्वादिति ॥११॥
( स्थपतिनिषादस्य गावेधुकेष्टावधिकारः )
निषादस्थपतिर्गावेधुकेऽधिकृतः ॥ १ । १ । १२ ॥
निषादस्थपतिर्गावेधुके चरावधिकृतोऽधिकारी भवति । एवं हि श्रूयते-
“ यस्य रुद्रः प्रजाः शमयेत्स वास्तुमध्ये रौद्रं चरुं निर्वपेत् ” इति, एतामिष्टिं
प्रक्रम्य श्रुतम् , “ एतया निषादस्थपतिं याजयेत् ” इति; निषादस्थपतिर्यजे-
तेत्यर्थः ।
तत्रायं सन्देहः, किमयं षष्ठीसमासः, निषादानां स्थपतिर्निषादस्थपति-
रिति, निषादश्चासौ स्थपतिश्च निषादस्थपतिरिति कर्मधारयो वा । तत्र यदि
षष्ठीसमासस्तदा यो द्विजातिरेव विद्वान् निषादानामाधिपत्यं करोति, तस्यात्रा-
धिकारः, यदि च कर्मधारयस्तदा निषाद एव यः स्थपतिस्तस्यात्राधिकार इति ।
तत्र त्रैवर्णिकस्यैव समर्थत्वाद्द्विद्त्वाद्वाग्निमत्वाच्चात्राधिकारो युज्यते, अन्य-
जातीयस्य निषादस्यावैधत्वेनानग्नित्वेन चासमर्थत्वात् । तस्मात् षष्ठीसमास
एवायमिति पूर्वः पक्षः ।
तत्रानुपयोगेऽपि “ आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च” इति वचनविहिते दाहे, उपयोग-
सम्भवात् । न ह्ययं दाहः कर्मोपयुक्ताहिताग्निप्रतिपत्त्यर्थः, येन कर्माभावेनाभावः शङ्क्येत ।
तथात्वे, आहिताग्निपदेनाधानस्यैवोपस्थितेस्तदङ्गत्वस्यैवापत्तौ क्रत्वङ्गत्वानापत्तेः, न चेष्टाप-
त्तिः। तथात्वे प्रतिपत्तिं विना आधानफलाहवनीयादेरनिष्पत्त्यापत्तेः । अतः फ-
लश्रवणादर्थकर्मैवेदमिति युक्तस्तत्राहवनीयादेरुपयोगः । पवमानेष्ट्यङ्गभूतपात्रसत्त्वाच्च यज्ञ-
पात्रसमुच्चयेऽपि न क्षतिः । अत एव पवमानेष्ट्युत्तरं प्राक् ऋतुभ्यो मरणे अग्निभिः पात्रैश्च
दाहः, पवमानेष्टिभ्यः पूर्वं मरणे तु, उक्तवचनबलादग्निभिरेव दाह इति । तन्त्ररत्ने तु-
यद्यपि च विद्याभावादस्योत्तरक्रतुष्वनधिकारः स्यात्तथाप्याधानमात्रमरणिममथितलौकिकाग्नि-
गुणकं कल्प्यस्वर्गफलं सधर्मकमनुष्ठेयम् । एवं चाहवनीयादेरनुपयोगादभावेन तदुद्देशेन
विहितानां ' नक्तं गार्हपत्यमादधाति ' इत्यादीनां धर्माणां लोपेऽपि, एकस्मिन्नेव कुण्डे
स्थण्डिले वा त्रिषु वा तेष्वग्न्याधानमितराङ्गयुक्तं कार्यमिति ।
१ व्रात्यात्तु जायते वैश्यात्सुधन्वाचार्य एव च ।

देवयाज्ञिकभाष्यसमेतम् । १९
सिद्धान्तस्तु—कर्मधारयो निषादश्चासौ स्थपतिश्चेति । कुतः ? षष्ठीसमा-
सपक्षे निषादपदे लक्षणाप्रसक्तेः । न ह्यत्र षष्ठी श्रूयते यतः सम्बन्धः प्रतीयेत,
अतो निषादपदे¹नैव षष्ठ्यर्थो लक्षणीयः । इतरस्मिंस्तु पक्षे द्वयोरपि पदयोर्मु-
ख्यार्थतैव, न लक्षणा । तस्मान्निषाद एव स्थपतिरत्राधिकारी । श्रुति-
बलादविद्वाननग्निमानपीति सिद्धम् । अपि चात्र निषादद्रव्यं दक्षिणा श्रूयते “२कूटं
दक्षिणा काणो वा गर्दभः ” इति । कूटं हि निषादानामेवोपकारकम्, ३नार्या-
णामिति ॥ १२ ॥
१ शब्देनेत्यपि पाठः ख पुस्तके । २ कूटं हलाग्रसंस्थितं लौहम् ।
३ अत्राहुः प्राञ्चः—पक्षद्वयेऽपि शब्दोऽयं योगादेव प्रवर्तते । तत्र षष्ठीसमासत्वे विदुषः
स्यादधिक्रिया ॥

२० । कात्यायनश्रौतसूत्रम् ।
( स्त्रीप्रसङ्गे ब्रह्मचारिणः प्रायश्चित्तम् )
वाऽवकीर्णिनो गर्दभेज्या ॥ १ । १ । १३ ॥
यो ब्रह्मचारी सन् स्त्रियं गच्छति, सोऽवकीर्णी, तस्यावकीर्णिनः स्ख-
लितब्रह्मचर्यस्य गर्दभेज्या, गर्दभेनेज्या यागो गर्दभेज्या प्रायश्चित्तार्था भवति ।
वाशब्दो विकल्पार्थः । तेन 'गृह्योक्तमपि प्रायश्चित्तान्तरमाज्याहुतिद्वयरूपं विक-
ल्पेन भवति, "अथापरमाज्याहुती जुहोति, कामावकीर्णोऽस्मि." इत्यादि-
कम् । शाखान्तर उभयस्य विकल्पेन श्रुतत्वात् ॥१३॥
चानुभवात् , राज्ञः पुरुषोऽस्तीत्यादौ व्यधिकरणपदस्थले च भेदसम्बन्धेनैवानुभवाल्लाघ-
वेन नामप्रयोज्यतदर्थान्वयबोधस्याभेदविषयकत्वमेवेति नियमकल्पनात् स्वस्वामिभावादि-
सम्बन्धस्य षष्ठीतत्पुरुषादौ संसर्गविधया भानानुपपत्तेरवश्यं पूर्वपदे स्वार्थसम्बन्धिलक्षणा-
मङ्गीकृत्य तस्योत्तरपदार्थेऽभेदेनान्वय इत्यङ्गीकार्यम् । अत एव नामप्रयोज्यनामार्थविशे-
ष्यकनामार्थप्रकारकाभेदसंसर्गबोधकत्वावच्छिन्नं प्रत्येकाधिकरणवृत्तिप्रातिपदिकार्थतावच्छे-
दकनामद्वयसमभिव्याहारस्य द्वन्द्वभिन्ननामद्वयसमभिव्याहारस्य वा तन्त्रत्वमित्यपि बोध्यम् ।
तेन धवखदिरौ नीलघटावित्यादौ नामेदबोध इत्यपि बोध्यम् । न चैवं समासे सम्बन्धि-
नोऽभेदान्वयाद्विग्रहे च राज्ञः पुरुष इत्यत्र षष्ठ्यर्थसम्बन्धस्य भेदेनान्वयाद् वृत्तिवाक्ययोर्भि-
न्नार्थत्वापत्तेरकविधानेनेतरनिवृत्त्यनापत्तौ विभाषासूत्रवैयर्थ्यापत्तिरिति वाच्यम् । एकतरबो-
धस्यावश्यकत्वेनार्थैक्याभिप्रायत् । अतश्च षष्ठीतत्पुरुषे लक्षणापत्तेर्निषादश्वासौ स्थपतिश्चेति
कर्मधारय एवायम् । तेन तावद्विषये विद्यामाक्षिप्यानाहिताग्नेरपि निषादस्यैवाधिकारः ।
अत एव 'कूटं दक्षिणा स्वं हि तन्निषादानाम्' इति लिङ्गमपि सङ्गच्छते । तत्र च
परप्रयुक्तोपजीवित्वादाहवनीयाद्यनाक्षेपेऽपि 'यत्र क्वचन होष्यन् स्यात् स पञ्चभूसंस्कारान्
कृत्वा लौकिकाग्निं प्रतिष्ठापयेत्' इति स्मृतिवचनेनाग्न्यन्तराभावे होममात्रोद्देशेन लौक-
काग्निविधानात्तमेव तत्तद्देशे स्थापयित्वा तस्मिन्निष्टिः कर्तव्येति ध्येयमिति ।
१ अथातोऽवकीर्णिप्रायश्चित्तममावास्यायां चतुष्पथे गर्दभं पशुमालभते निर्ऋतिं पाक-
यज्ञेन यजेताप्त्ववदानहोमो भूमौ पुरोडाशश्रपणं तां छविं परिदधीतोर्ध्वबालमित्येके संव-
त्सरं भिक्षाचर्यं चरेत्स्वकर्म परिकीर्तयन्, अथापरमाज्याहुती जुहोति कामावकीर्णोऽस्म्य-
वकीर्णोऽस्मि कामकामाय स्वाहा, कामाभिद्रुग्धो (दुग्धो )ऽस्म्यभिद्रुग्धो (दुग्धो )ऽस्मि
कामकामाय स्वाहेत्यथोपत्तिष्ठते, सं मा सिञ्चन्तु मरुतः समिन्द्रः सम्बृहस्पतिः । सं माय-

अत्रैतद्विचाय॑ते—किं स्थपतीष्टिरवकीर्णी पशुश्चैतदुभयमाधानसंस्कृतेष्वा-
हवनीयादिषु भवति, उत लौकिक इति । तत्र प्रकृतित आहवनीयादिषु प्राप्तेरा-
हवनीयादीनां चाधाननिष्पाद्यत्वात्स्थपतेरवकीर्णिनश्चाधानविध्यभावेऽपीष्टिपशू
आधानं प्रयोजयतः । अत एतदर्थमेवाधानेनाहवनीयादीनुत्पाद्य तेषु तदुभयं
कर्तव्यमिति प्राप्त आह—
लौकिके ॥ १ । १ । १४ ॥
एतौ स्थपतीष्ट्यवकीर्णिपशू लौकिकेऽग्नौ भवतः । कुतः ? नहीमाविष्टि-
पशू आधानं प्रयोजयतः; आभ्यां हि तदेव गृह्यते यद्दर्शपूर्णमासाङ्गं भवति ।
'मग्निः सिञ्चतु प्रजया च धनेन चेत्येतदेव प्रायश्चित्तम् ॥ इति (पारस्करगृह्यसूत्रे तृतीयकाण्डे
द्वादशी कण्डिका) रेणुकारिकास्वपि—अवकीर्णिप्रायश्चित्तमिदानीमभिधीयते । ब्रह्मचारी
स्त्रियं गच्छेदवकीर्ण्युच्यते बुधैः ।। पशुना गर्दभेनाधिक्रियते नैर्ऋतेनसः । शाखापशुविधा-
नेन पशुः कार्यश्चतुष्पथे । न च श्राद्धार्थ आरब्धः पशुः प्रोक्तः प्रसङ्गतः ।। आह नैमि-
त्तिकं वक्तुमिति षष्ठचन्तरं मुनिः । पाकयज्ञो हविर्यज्ञः पशोरेष द्विधा मतः ।। इहोच्यते
पाकयज्ञः पाकयज्ञेन सूत्रणात् । अवकीर्णीन इत्यस्मिन् युक्तोऽधिकरणे यतः ।। स्वयं
कर्तृक आद्यः स्यात् परोऽर्त्व्यादिकर्तृकः । लौकिके स्यादिदं कर्म काले चन्द्रमसः क्षये ।।
पुरोडाशविधानं स्यान्नशाखात्पशुवच्चरुः । संस्कारानुष्ठितिस्तस्य सहाय्येनैव चोदिता ।।
भूमौ पशुः पुरोडाशः श्रप्यते प्रोक्षणादिषु । आदिशेन्निर्कृतिं तत्र निर्ऋत्यै च निमन्त्रितः ।।
अप्सु होमोऽवदानानां पुरोडाशेन तैः सह । वपा स्विष्टकृतेस्तद्वत्तेषामग्न्युपवादतः ।।
आघारादि भवेद्वह्लावाज्यसम्बन्धि कर्म च । अवकीर्णाघ(कीर्णित्व)निःकृत्यै पाकयज्ञ-
विधानतः ।। पशुना गर्दभेनाहं यक्ष्य इत्थं गुरुं वदेत् । स्थापयेल्लौकिकं वह्निं भूमौ संस्कार-
पूर्वकम् ।। तदुत्तरेणोदपात्रं तथा भूशुद्धिपूर्वकम् । होमार्थमवदानानां स्वा(चा)ख्यानाद्य-
पवर्गतः ।। परिष्कृतिर्द्वयोरेका साधनत्वात्तथोभयोः। स्नापयित्वोपकरणे पशुसंस्कारकर्मवत् ।।
तच्छाखापशुवत्सर्वं वचनस्यातिदेशतः ।। तदन्ते परिसन्दधत्ते त्वचं (छर्वि) तामेव त (?)
च्छुचिः । ऊर्ध्वपुच्छं ब्रुवन्त्यन्ये, चरेद्भिक्षां हि वत्सरम् ।। स्वकर्मजाह्यत्र तिष्ठेत्स्वपापं परि-
कीर्तयेत् । 'निरुक्तं वा एन एव कनीयो भवति' श्रुतेः ।। संवत्सरान्ते पूतः सन्पुनस्तद्व्र-
तमाचरेत् । नैमित्तिकान्तरं तस्यावकीर्णिन इहोच्यते ।। स्थापयित्वोद्धरेद्वह्निं लौकिकं न
चतुष्पथे । वरणादि यथोक्तं स्यादाज्येनैवात्र हूयते । क्रमेण जुहुयादेता आघाराद्याश्चतु-
र्दश ।। तेनाज्येनैव जुहुयादाहुती प्रतिमन्त्रतः। आद्या कामावकीर्णोऽस्मि कामभिर्दग्ध इत्यथ ।।

  • पा - त्य - पा - क... wait!
    Look at the characters:
    प - क्षा - दि - नि - पा - त्य - पा - क - प्र - का - शा - दि - क - म्
    Yes, पक्षादिनिपात्यपाकप्रकाशादिकम्!

त्यादयो वैतानिकाः सर्वार्थाः । कुतः ? यद्धि द्रव्यमुत्पत्तिकाल केनचिदर्थेनासंयु-
Wait, "उत्पत्तिकाल" or "उत्पत्तिक़ाले"?
Look closely at "उत्पत्तिकाल":
द् - र - व्य - मु - त्प - त्ति - का - ल
Wait, is there an e-matra on ल?
Look at 'ल' in 'द्रव्यमुत्पत्तिकाल':
The top has no matra! It says "द्रव्यमुत्पत्तिकाल" or is there a faded e-matra?
Wait, look at 'केनचिदर्थेनासंयु-': के has clear e-matra.
On 'ल', there is no e-matra visible, but wait, look at the very top:
Wait, above 'ल' is the u-matra of 'षु' from line 21?
No, line 21 above it has 'श्रौतं च हविः,'.
Wait, in line 22, it is printed "द्रव्यमुत्पत्तिकाल" (without e-matra) or maybe

देवयाज्ञिकभाष्यसमेतम् । २३
सामर्थ्येन न सर्वाग्निकार्यार्थता विज्ञायते, तस्माच्छ्रौतं स्मार्तं च यद् गृह्यसूत्रोक्तम्,
स्मृत्युक्तं च पाकादिकं तत्सर्वं गार्हपत्यादिषु भवतीति ॥ १८ ॥
दर्शनाच्च ॥ १ । १ । १९ ॥
दृश्यते चायमर्थो यत्स्मार्तमपि होमपाकादिकं वैतानिकेषु क्रियत इति ।
दक्षिणाग्निं प्रकृत्य श्रूयते—“ मांसं तु तत्र न पचयेयुः ” इति । अत एव
प्रतिषेधात्प्राप्तिरनुमीयते, प्रतिषेधस्य प्राप्तिपूर्वकत्वात् । नच श्रौतो मांसपाको
दक्षिणाग्नौ विहितोऽस्ति, तस्यैव प्रतिषेधः स्यात्, यतः स १शामित्रेऽग्नौ विहितः ।
अस्तित्वविहिताप्रतिषिद्धः स्मार्तो मांसपाकः, तस्यायं प्रतिषेधो विज्ञायते । स्मृ-
तावपि दर्शश्राद्धं प्रकृत्याग्नौकरणार्थमभिमाह मार्कण्डेयः—
आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः ।
अनाहिताग्निस्त्वौपासनेऽग्न्यभावे तथाप्सु (स्तु ?) वा ॥ इति ।
शङ्खलिखितौ-“ धूपगन्धमाल्यैरलङ्कृत्य ब्राह्मणान् सघृतमन्नमनुज्ञाप्य
दभ्रं दक्षिणाग्निं परिस्तीर्य जुहुयादग्नये कव्यवाहनाय ” इत्यादि ।
वायुपुराणेऽपि-
आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः । इति
अतोऽस्माद्दर्शनात्स्मार्तमपि वैतानिकेषु कर्तव्यमिति पूर्वः पक्षः ।
सिद्धान्तमाह-
‘नौपासनश्रुतेः ॥ १ । १ । २० ॥
यदुक्तं वैतानिकेष्वेवाग्निषु श्रौतं स्मार्तं च कर्तव्यमिति, तन्न, कुतः ? औपा-
सनश्रुतेः । यतः, अहिताग्नेरपि औपासनः श्रूयते पितृमेधे “ ३अद्वारेणौपासनं
निरस्यति ” इति । यदि स्मार्तमेव वैतानिकेषु क्रियेत, तदाऽऽहिताग्नेः पितृमेधे
औपासनदर्शनं न स्यात् । अस्ति च । तस्मात्तान्यौपासने कर्तव्यानीति ।
१ शामित्रः पशुश्रपणोऽग्निरुच्यते, तथाचापस्तम्बः—अभिपर्यग्निकृते देश उल्मुकं
निदधाति स शामित्रः । २ कात्यायनश्रौतसूत्र एव वक्ष्यत्येकविंशाध्याये चतुर्थकण्डिका-
यामेकोनत्रिंशत्तमं सूत्रम् । ३ अत्र पूर्वतन्त्रोक्तं विहाराग्नेर्वैदिककर्ममात्राधिकरणं (१२ ।
२।१) अनुसन्धेयं विशेषजिज्ञासुभिः ।

२४ कात्यायनश्रौतसूत्रम् ।
तथा च ( याज्ञवल्क्य )स्मृतिः—
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ इति ॥
‘तस्मिन् गृहाणि’ इत्यापस्तम्बस्मरणाच्च । अतश्च यत्किञ्चिद्दम्पत्योर्विहितं
कर्म शान्तिकपौष्टिकव्रताङ्गहोमादिकं स्मार्तं तत्सर्वमावसथ्येऽग्नौ भवतीति ।
अत एवाह कात्यायनः—
न स्वेऽग्नावन्वयोहोमः स्यान्मुक्त्वाैकां समिदाहुतिम् ।
स्वस्य गर्भक्रियार्थांश्च यावन्नासौ प्रजायते ॥
अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः ।
न हि पित्रा समानीतः पुत्रस्य भवति क्वचित् ॥
अतश्च सीमन्तोन्नयनमपि स्मार्ताग्नावेव कार्यम् ।
अपिच, आधानेनोत्पादितानां गार्हपत्यादीनामग्नीनां प्रयोजनापेक्षायां स-
त्यां गार्हपत्ये हवींषि श्रपयन्त्याहवनीये जुह्वति, दक्षिणाग्नावन्वाहार्यं पचन्तीति
प्रत्यक्षवचननिर्दिष्टैरेव प्रयोजनैर्निराकाङ्क्षाणां न सामर्थ्यमात्रेणोक्तादन्यत्र
विनियोगः कल्पयितुं शक्यते ।
ननु माभूत्सामर्थ्यमात्रेण विनियोगः, वाक्येनैव स्मार्तेष्वपि पार्वणस्थाली-
पाकादिहोमेषु भवत्विति चेत्, न; न च स्मार्तहोमास्तेषु विधातुं शक्याः, ते हि
सहैवाधानेनावसथ्येनोत्पाद्यन्ते, यथा होमादयः। अत्राह जैमिनिः "सति चौपा-
सनस्य दर्शनात् ” ( १२-२-१-४) इति । सति च विहारे औपासनेऽग्नि-
र्दृश्यते । “ यः कामयेत राष्ट्रमस्यै प्रजायाै स्यादिति तस्यौपासने प्रजुहुयात् ”
इति राजसूये प्रवृत्ते कर्मण्येेतद्वचनम् । तस्मिंश्च काले विहारोऽस्ति । यदि च
विहार एव स्मार्तान्यपि कर्माणि स्युस्तदा कार्याभावादौपासनदर्शनं न स्यात् ।
अस्ति च । तस्मात्स्मार्तान्यौपासन एव कार्याणि ॥ २० ॥
यद्येवं तर्हि मांसपाकप्रतिषेधस्य का गतिरित्यत आह—
अधिश्रपणीये मांसप्रतिषेधः ॥ १ । १ । २१ ॥
य एष उक्तो मांसपाकप्रतिषेधो “ मांसं तत्र न पचयेयुः”इति सोऽधि-
श्रपणीयेऽहनि ज्ञेयः। नवगृहे यदा वासः क्रियते तदा तस्मिन्नेवाहनि । तत्र
CC.0- Jangamwadi Math Collection. Digitized by eGangotri

देवयाज्ञिकभाष्यसमेतम् । २६
दक्षिणाग्नेराहरणं कार्यं नाहवनीयवत्प्रतिहोममिति विकल्पं वक्ष्यति-“नवावसिते
वा ” इति । श्रूयते च-“ नवावसिते वैनमाहरेयुः ” इति । तदा च तस्मि-
न्नवगृहे दक्षिणाग्नावविशेषेण भोजनार्हस्यानियतद्रव्यस्य पाको विहितोऽस्ति
“ तस्मिन्पचेयुस्तद्ब्राह्मणा अश्रीयुः” इति । तत्र कदाचिन्मांससम्पत्तौ तस्यापि
पाकस्तत्र प्राप्नोति तस्यैष प्रतिषेधो ‘ मांसं तत्र न पचेयुः ’ इति ।
पक्षान्तरमपि दुग्धाधिश्रयणरूपमेतस्य विद्यते “ यद्धृतं न विन्देद्यत्पचेद-
पि गोरेव दुग्धमधिश्रयीत वै ब्रूयात् ” इति । तेनाधिश्रयणं सम्बन्धि अहः
अधिश्रयणीयम्, तात्सम्बन्धिश्रयण इति । अनेन च सम्बन्धि दक्षिणाग्न्याहरण-
दिनं लभते । अतः श्रौतान्येव वैतानिकेषु गार्हपत्यादिषु कर्तव्यानि । स्मार्तानि
त्वावसथ्येऽग्नावेवेति सिद्धम् ।
यत्तु स्मृतौ दक्षिणाग्नावग्नौकरणहोम उक्तः, स सर्वाधानपक्षे त्वावस-
थ्याग्नावेवेति तत्रैव निर्णीतमांस्त ॥ २१ ॥
॥ इति प्रथमा कण्डिका ॥
कर्मणां फलवत्त्वोक्तिपूर्वकं तेष्वधिकारो निरूपितः । अधुना तस्यैव साङ्गस्य
फलवतः कर्मणो निरूपणमाह—
( यागस्वरूपनिरूपणप्रतिज्ञा )
यज्ञं व्याख्यास्यामः ॥ १ । २ । १ ॥
यज्ञो यागो यजनमिष्टिरिति पर्यायाः । यज्ञं यागं व्याख्यास्यामः, याग-
स्वरूपं कथयिष्यामः ॥१॥
( यागस्वरूपनिरूपणम् )
तदेवाह—
द्रव्यं देवतात्यागः ॥ १ । २ । २ ॥
द्रव्यं देवतात्यागो यज्ञः । द्रव्यं पुरोडाशचरुसान्नाय्यपशुसोमादिकम् ।
देवता अग्निसोमेन्द्रविष्ण्वादिकाः । तद्धितचतुर्थी मन्त्रवर्णान्यतमा बोध्या । तत्रा-
ग्न्यादिकां देवतामुद्दिश्य यो द्रव्यस्य पुरोडाशादेस्त्याग उत्सर्गः स यज्ञः स याग
इत्यर्थः । तथा चोक्तम्-
तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन चेष्यते ।
देवतासङ्गतिस्तत्र दुर्बलं तु परं परम् ॥ इति ।

२६ कात्यायनश्रौतसूत्रम्।
तत्र तद्धितेन देवता सङ्गतिर्यथा-आग्नेयोऽष्टाकपालः, अग्नीषोमीय उ-
पांशुयागः, अग्नीषोमीयः पुरोडाशः, ऐन्द्राग्नः पुरोडाशः, ऐन्द्रं दधि, ऐन्द्रं पयः,
‘ अग्नीषोमीयं पशुमालभेत ’ इत्यादौ ।
चतुर्थ्या देवतासङ्गतिर्यथा-अग्नयेऽनीकवतेऽष्टाकपालम्, मरुद्भ्यः सा-
न्तपनेभ्यः, अथ मरुद्भ्यो गृहमेधिभ्यः, इत्यादौ ।
मन्त्रवर्णेन देवतासङ्गतिर्यथा उत्तराघारे, यथाच प्रयाजेषु ।
क्वचित्प्राकरणिकदेवतासम्बन्धोऽपि भवति तद्धितादीनामभावे, यथा-
उलूखले मुसल इत्यत्र कर्काचार्याणां....(?)
अत एवोच्यते यास्केन “ यद्यनादिष्टदेवतामन्त्रास्तेषु यद्दैवतोपरिष्ठाद्य-
दैवतः स यज्ञो वा यज्ञाङ्गं वा तद्देवता भवन्त ” इत्यादि । तेनैतत्

देवयाज्ञिकभाष्यसमेतम् । २७
व्याहारादेव योग्यत्वमालोच्य शेषशेषित्वं कल्प्यते । यथा ' स्वर्गकामो यजेत '
इति । अत्र वाक्येन विनियोग इति । न ह्यत्र स्वर्गस्य साध्यत्वं केनचिदुपात्तम् ।
अतः पदद्वयसमभिव्याहारादेव कल्प्यते ।
प्रकरणं चोभयाकाङ्क्षा । तथाहि–दर्शपूर्णमासाभ्यां स्वर्गं साधयेत् ।
कथमित्येतस्यामाकाङ्क्षायामविद्यमानायां च श्रुतप्रयोजनान्यग्न्यन्वाधानादीनि
ब्राह्मणतर्पणान्तानि कर्माणि पठ्यन्ते । दर्शपूर्णमासयोश्चोपकारकापेक्षा, अग्न्य-
न्वाधानादीनां चास्माभिः किं कर्तव्यमिति कार्यापेक्षा । न च दर्शपूर्णमासयोरुप-
कारकं किञ्चिद्दृश्यते, न चाग्न्यन्वाधानादीनामपि कार्यं किञ्चिद्दृश्यते, अवश्य-
मुभयेनापि कुतश्चिद्भवितव्यम् । यदि तु केनचित्प्रमाणेन ज्ञायते तदा नास्तीति
बुद्धिर्भवति, अस्ति च प्रमाणम् । न ह्यत्यन्तसन्निकर्ष एव सम्बन्धकारणम् । यदा
सन्निकृष्टं न लभ्यते, तदा विप्रकृष्टे वेदस्याशक्तिः सञ्चरति । तदिहोपकारकक-
ल्पनाप्रमाणं सन्निकृष्टं श्रुतिलिङ्गवाक्यलक्षणप्रलब्धाद्विप्रकृष्टमभ्यनुज्ञातमित्युभया-
काङ्क्षावशेनैव विज्ञायते–यद्दर्शपूर्णमासावुपकारमाकाङ्क्षतः, स नूनमेभिरग्न्य-
न्वाधानादिभिः क्रियते । यच्चाग्न्यन्वाधानादयः कर्तव्यमपेक्षन्ते तद्दर्शपूर्णमास-
योरुपकार इति । नह्युभयोरन्यत्सन्निकृष्टतरमस्ति । यच्चान्यफलादि कल्प्येत
तस्यान्येन सह सम्बन्धेन निराकाङ्क्षीभूतस्य नेह सम्बन्धाकाङ्क्षा विद्यते ।
तेनाग्न्यन्वाधानादीनां न विश्वजिदादिवत्फलकल्पनम्, नापि दर्शपूर्णमासानु-
षङ्गः । उभयाकाङ्क्षालक्षणसम्बन्धाभावे ह्यन्यतराकाङ्क्षालक्षणः सम्बन्धो गृह्यते,
न सम्भवे; तस्मान्नष्टाश्वदग्धरथवदेव परस्परनियमः, सिद्धिः ।
किञ्चाग्न्यन्वाधानादेः फलान्तरकल्पने ऋतुक्रत्वोः फलमित्युपकारका-
काङ्क्षाऽनिवृत्तैव स्यात् । अस्ति चासावाकाङ्क्षा, यागेन स्वर्गं कुर्यादित्येवं करण-
त्वेन विधानात् । तदुक्तम्–
न हि तत्करणं लोके वेदे वा किञ्चिदीदृशम् ।
इतिकर्तव्यता साध्ये यस्य नानुग्रहेऽर्पिता ॥ इति ।
एवमुभयाकाङ्क्षावत्वे सति सम्बन्ध प्रतिपादकं वाक्यं कल्प्यते । अग्न्य-
न्वाधानादिभिरुपकृतेन यागेन स्वर्गं कुर्यादित्येवम् । ततो वाक्याल्लिङ्गमग्न्यन्वा-
धानादिगतं सामर्थ्यं कल्प्यते । लिङ्गाच्च विनियोक्त्री श्रुतिः कल्प्यते । एभिः
प्रधानस्योपकारः कार्य इति ।

२८ | कात्यायनश्रौतसूत्रम् ।
ननु सूत्रकारेणाङ्गत्वे प्रमाणद्वयमेव कथमुक्तम् ? जैमिनिना तु *श्रुति-
लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यासंज्ञानि षट् प्रमाणान्युक्तानि सन्ति। नैष-
दोषः । प्रमाणचतुष्टयस्यसोदाहरणस्याग्रे ✕वक्ष्यमाणात् ।
तत्र स्वार्थाभिधाने +निरपेक्षं वचनं श्रुतिः । सा त्रिविधा-[१] विधात्री,
[२] अभिधात्री, [३] विनियोक्त्री च ।
तत्र विनियोक्त्री लिङाद्यात्मिका । अभिधात्री व्रीह्यादिश्रुतिः । विनि-
योक्त्री त्रिधा-[१] एकाभिधानरूपा, [२] एकपदरूपा, [३] विभक्तिरूपा
च । यस्य च श्रवणादेव सम्बन्धः प्रतीयते सा विनियोगश्रुतिः । तत्र, यत्राने-
कार्थाभिधानमेकेन शब्देन युगपद्भवति विभक्त्यैव लिङ्गसङ्ख्याकारकाणां तत्र
तेषामन्वितानामेवाभिधानं तदेकाभिधानम् । यथा पशुनेति पशुः प्रतीयते तयैक-
त्वं च । अतः सङ्ख्यादेरेकशब्दोपादानलक्षणया श्रुत्या कारकसम्वन्धः । प्रति-
पदिकार्थस्य तु पदश्रुत्या । यजेतेत्यत्र यागस्य प्रकृत्यर्थस्यैकपदेनोपात्ततया याग-
स्य प्रकृत्यर्थस्यैकपदेनोपात्ततया स्वर्गादिकं प्रति करणत्वम् , विभक्तिस्तु सम्ब-
न्धमेव साध्यत्वं वा प्रतिपादयन्ती विनियोगकरणम् । तत्र द्वितीया साध्यत्वं
प्रतिपादयति, तृतीयाद्यस्तु साधनत्वम् । तत्र " व्रीहीनवहन्ति " इति द्वितीयां
साध्यत्वेन व्रीहीनभिधानावघातस्य तेषु विनियोगकारणं भवति ।
सर्ववस्तु ·| सामर्थ्यं लिङ्गम् । तद्यथा- " श्रुवेणावद्यति " " स्वधितिना-
वद्यति " " हस्तेनावद्यति " " कोष्ठेनावद्यति " इति अवदानसाधनत्वेन श्रु-
तानां लिङ्गेन वस्तुसामर्थ्यात्मकेन विशेषविनियोगो भवति । तदुक्तम्-
सामर्थ्यात्स्वधितिर्मांसे द्रवेषु स्यात्स्रुवस्तथा ।
हस्तकेन पुरोडाशमवदातुं प्रकल्प्यते ॥
मन्त्राणां च लिङ्गेन पदार्थस्मारकत्वे विनियोगः ।
वाक्यं तु पदसङ्घातात्मकं प्रागुक्तम् ।

  • तृतीयाध्याये । ✕ तत्तत्स्थलेषु । +श्रुतिर्नामाङ्गत्वघटकीभूतोद्देश्यताकृतिकार-
    कत्वयोरन्यतस्य प्राधान्येन वाचकः शब्दः । ·| लिङ्गं नामाङ्गत्वघटकीभूतपरोद्देश्यताकृ-
    तिकारकत्ववाचकपदकल्पनानुकूला क्लृप्त पदपदार्थनिष्ठा योग्यता । ऽ समभिव्याहारो
    वाक्यम् ।

? No, it's र्ना(repha onना). Then मorनै? It looks like म, but wait, why is there a diagonal stroke? That diagonal stroke is from line 10's भ्रातृव्यंanusvara/halanta, or is it a matra? Wait, aboveमin line 11, line 10 hasअग्नीषामौ! Under अग्नी, there is nothing hanging down. Wait! Let's look at दन्धिर्यानैर्कर्मायुधम्: Could it be: दन्धिर्यानैर्कर्मायुधम्? Wait, why would it be र्यानैर्? No, look at द, then न्धि, then र्, then या? No, that's ना! Wait, look at नinमन्त्र: न्त्. Look at नाinनामास्य: ना. In line 11, it is र्ना! Then next letter: म! Then क र्मा यु ध म् । Wait, is there any reason to think it's notदन्धिर्नाम कर्मायुधम् ।orदब्धिर्नाम कर्मायुधम् ।`?

representation. In Unicode, standard Sanskrit spelling is सङ्ख्य or संङ्ख्य? Standard is सङ्ख्य (or संंख्य / सङ्ख्य). Let's check how faithful transcription should be: usually, transcription normalizes this printing convention to सङ्ख्य or संङ्ख्य? Let's check standard practice: सङ्ख्य is the true reading, but writing संङ्ख्य or सङ्ख्य? Wait, is it ङ्ख or ङ्ख्य? It is ङ्ख + य = ङ्ख्य. In Unicode, सङ्ख्य doesn't have the redundant anusvara, but if the user wants pure Devanagari as printed, wait: "Do NOT transcribe handwritten marginalia... Transcribe the text from the provided image... pure, clean Markdown in Unicode Devanagari."
Let's see if line 4 has साकाङ्क्षं: साकाङ्क्षं or साकांङ्क्षं? Writing साकाङ्क्षं is the standard transcription of that ligature. Let's look at सङ्ख्या: standard is सङ्ख्य. Wait, look at सङ्ख्या vs सङ्ख्य:
Line 17: यथासङ्ख्यलक्षणश्च
Line 21: यथासङ्ख्य-
Line 23: यथासङ्ख्यम्
Line 25

तेषामारम्भेऽर्थतो व्यवस्थानवचनत्वादिति । “मन्त्रलिङ्गाच्च” इति च लिङ्गमु-
क्तम् । “वत्सजानुं त्रिवृतं मूतकार्यं वा पशुब्रह्मवर्चसान्नाद्यकामा यथासङ्ख्यम्”
इति यथासङ्ख्यरूपं स्थानमुक्तम् । “प्रयोजेषु सन्निधेर्दुर्गमेवासन्निधेः” इति
सन्निधिपाठलक्षणं स्थानम् । “शेषमितरे यथासङ्ख्यमुन्नेतोन्नयति समाख्यानात्”
इति समाख्या ।
एतेषां श्रुत्यादीनां परस्परविरोधे, उत्तरोत्तरस्य दौर्बल्यम् । तदुक्तं जैमि-
निना—“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्र-
कर्षात्” इति । तत्र श्रुतिलिङ्गयोर्विरोधे “अनपेक्षमेत्य शालाद्वार्योपस्थानं
निवेशने” इति । अत्र श्रुतिः “प्रत्येत्याग्निमुपतिष्ठते यद्वेत्योपतिष्ठते यं वै लोको
गार्हपत्ये” इति । निवेशन इति ।

३२ कात्यायनश्रौतसूत्रम् ।
ननु “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्यनेन यागमात्रस्य फलस-
म्बन्ध उक्तः, कुतोऽफलयुक्ता यजतय इति ? अत्रोच्यते--नात्र यागमात्रस्य फल-
सम्बन्ध उच्यते । किं ताह, ? ये यागा दर्शपूर्णमाससंज्ञास्तेषामेव । के च ते
दर्शपूर्णमाससंज्ञाः? ये दर्शपूर्णमाससंयोगेनोत्पन्नाः । तद्यथा- “ आग्नेयोष्टाकपालः
पौर्णमास्याममावास्यायां चाच्युतो भवति” इत्याग्नेयस्य दर्शपूर्णमाससंयोगेनो-
त्पत्तिः । तथा “तावब्रूतामग्नीषोमावाज्यस्यैव नोपांऽशु पौर्णमास्यां यजन्” इति
उपांशुयाजस्य पौर्णमासयोगेनोत्पत्तिः । “ताभ्यामेतमग्नीषोमीयमेकादशकपालं
पौर्णमास्यां प्रायच्छत्” इत्यग्नीषोमीयस्य च । तथा- “ऐन्द्रं दध्यमावास्यायाम्”
“ऐन्द्रं पयोमावास्यायाम्” इत्यनयोर्दर्शसंयोगेनोत्पत्तिः । अमावास्यां प्रकृत्य
“तस्मादैन्द्राग्नोद्वादशकपालः पुरोडाशो भवतीत्यैन्द्राग्नस्य च । एते चाग्नेयादयो
यागा दर्शपूर्णमाससम्बन्धाद्दर्शपूर्णमासपदेन लक्ष्यन्ते । तेषामेव च फलसम्बन्धोऽ-
नेन “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति वाक्येन क्रियते । अत एव
फलवन्तः प्रधानभूताश्च । इतरे प्रयाजादयो निष्फलाः । अतः फलवतां प्रधान-
भूतानामङ्गं भवति, उपकारका भवन्ति, प्रकरणात् । तदुक्तं “फलवत्सन्निधा-
वफलं तदङ्गम्” इति । तदङ्गमित्यनुवर्तमानॆऽपि पुनस्तदङ्गग्रहणं प्रयाजादीनां
केवलादृष्टार्थत्वज्ञापनार्थम् । इतराणि चाङ्गानि कानिचिद्दृष्टार्थानि, कानिचिदुभ-
यार्थानि । प्रयाजादीनित्वदृष्टार्थान्येव भवन्ति । तदुक्तम्—
दृष्टादृष्टोभयार्थं वा त्रिधाङ्गानि प्रचक्षते ।
दृष्टार्थानि चतुर्द्धास्युर्जातिद्रव्यगुणक्रियाः ॥
अदृष्टार्थं द्विधा कर्म द्वयार्थमपि तन्मतम् ।
दृष्टार्थेष्वपि सर्वेषु नियमादृष्टमिष्यते ॥ इति
त्रिविधमङ्गजातं दृष्टार्थमदृष्टार्थमुभयार्थमिति । दृष्टार्थमपि जातिद्रव्य-
गुणक्रियात्मकम् । तत्र जातिगुणौ “पशुना यजेत” “अरुणया क्रीणाति”
इति क्रियासाध्यत्वेन विनियुक्तौ । तत्साधनद्रव्यावच्छेदेन दृष्टेनैवोपकारेण तस्याः
शेषभावमनुभवतः । द्रव्यस्य तु साक्षादेव क्रियानिर्वृत्तिर्दृष्टमेव प्रयोजनम् । क्रिया-
पि चावघातादिर्दृष्टार्थैव । या सन्निपत्योपकारकरूपत्वेनोच्यते । अदृष्टार्थत्वं तु
क्रियाया एव । सा च द्वेधा । सन्निपत्योपकाररूपा प्रोक्षणादिका । आरादुपका-
ररूपा प्रयाजादिका । सन्निपत्योपकारकाणि च दृष्टार्थानि कर्माणि स्वकारकाणां
कर्मादीनामुत्पत्तिं प्राप्तिं विकारं वा कुर्वन्ति, तत्साध्यस्य प्रधानस्योपकुर्वन्ति ।