कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
प्रारंभिक पृष्ठ एवं मंगलाचरण
Q217; 4x1, 1
15NA
Q217:4x1, L 1674
15NA
Yagyik Sridev.
Katyayan shrotsutram
SHRI JAGADGURU VISHWARADHYA JNANAMANDIR
Q227:4xL1 (LIBRARY) 1674
JANGAMAWADIMATH, VARANASI
15NA
Please return this volume on or before the date last stamped
Overdue volume will be charged 1/- per day.
...DHYA
GNANA SIMHASAN JNANAMANDIR
LIBRARY,
Jangamwadi Math, VARANASI,
Acc. No. 80900
1674
CC.0- Jangamwadi Math Collection. Digitized by eGangotri
SRI JAGADGURU VISHWARADHYA
JNANA SIMHASAN J. MANDIR
LIBRARY,
Jangamwadi Math, VARANASI,
Acc. No. 1674
CC.0- Jangamwadi Math Collection. Digitized by eGangotri
कात्यायन श्रौतसूत्रम् ।
Q127:4x1,1
15NA
SRI JAGADGURU VISHWARADHYA
JNANA SIMHASAN JNANAMANDIR
LIBRARY
Jangamawadi Math, Varanasi
Acc. No. 1674
CC.0- Jangamwadi Math Collection. Digitized by eGangotri
॥ श्रीकृष्णाय नमः ॥
॥ ॐ १यज्ञपुरुषाय नमः ॥
कात्यायनश्रौतसूत्रम् ।
अग्निचित्सम्राट्स्थपतिमहायाज्ञिकश्रीदेवविरचित-
भाष्योपबृंहितम् ।२
अग्निहोत्रं तथा दर्शः पूर्णमासः पशुस्तथा ।
चातुर्मास्यानि सोमश्च क्रमात्पञ्चविधो हरिः ॥१॥
( श्रीमद्भाष्यकाराः )
ब्रह्माणमथ विष्णुं च शिवं गणपतिं तथा ।
अम्बिकां शारदां चापि वन्दे विघ्नोपशान्तये ॥१॥
कात्यायनं नमस्कृत्य गुरून् श्रीश्रीपतींस्तथा ।
पितरौ भाष्यकर्तॄंश्च पितृभृत्यादिसंज्ञकान् ॥२॥
कात्यायनप्रणीतेऽस्मिन्सूत्रे यज्ञप्रकाशके ।
प्रजापतेस्तनूजोऽहङ्कुर्वे व्याख्यामिमां स्फुटाम् ॥३॥
जयन्ति ते गुरोर्वन्द्याः श्रीपतेः पादपांसवः ।
येषां प्रसादादज्ञोऽपि चापलं कर्तुमुद्यतः ॥४॥
आलोच्य सूत्रभाष्यादि क्रियते सङ्ग्रहो यतः ।
स्वकल्पितत्वशङ्कात्र न कार्या विबुधैरतः ॥५॥
( अधिकारनिरूपणप्रतिज्ञा )
इह “ पुण्यो वै पुण्येन कर्मणा भवति” “तमेतं वेदानुवचनेन विवि-
दिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेन” इति, “अग्निहोत्रं जुहुयात्स्वर्ग-
कामः” इत्यादिभिर्वाक्यैः कर्मणां स्वर्गापवर्गादिश्रेयःसाधनत्वं प्रतीयते ।
तानि होत्रं जुहुयादित्यग्निहोत्रादिकर्माणि वेदवाक्यैकवेद्यानि, वेदवाक्यानि
१ “यज्ञो वै विष्णुः ” इतिश्रुतेः ।
२ “सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते
भाष्यं भाष्यविदो विदुः”इतिलक्षणलक्षितम् । वाक्येऽतिव्याप्तिवारणाय सूत्रानुसा-
रिभिरिति । वृत्तावतिव्याप्तिवारणाय स्वपदानीति ।
२ कात्यायनश्रौतसूत्रम् ।
चानेकशाखावस्थिततया, स्वतश्च प्रतिवाक्यं नानाविधपरस्परविरुद्धार्थस्फुरणेन
दुर्बोधार्थानि, बहुभिरर्थवादवाक्यैर्मिश्रितानि च । तथाहि— “ अग्निहोत्रं
जुहुयात्स्वर्गकामः” इत्यत्र किं स्वर्गो होमाय उत होमः स्वर्गाय ? तथा अग्नि-
होत्रशब्दो गुणविधानार्थो नामधेयं वेति ? तथा “स वै संवत्सरं दीक्षाभिरेति”
इत्यादौ क्वचित्संवत्सरशब्दस्य मुख्यार्थत्वम् । सहस्रसंवत्सरादौ तस्यैव गुण-
त्वम् । अर्थवादमिश्रपाठाद्विध्यर्थवादसन्देहोऽपि भवति, किमयं विधिरुतार्थवाद
इति । यद्यपि जैमिनिशबरस्वामिकुमारिलप्रभृतिभिर्मीमांसायां तानि वाक्या-
नि सन्देहनिरासपूर्वकं यथार्थव्याख्यातानि सन्ति । अधीतशास्त्राणां च तद्-
र्थाऽवगमोऽपि सुकर एव । तथापि तेषां नानाशाखाव्यवस्थितत्वेनेदानींतनैः
सर्वैः पुरुषैरध्येतुं ज्ञातुं चाशक्यत्वादधीतानां कर्मणां ज्ञानं दुःखमिदानीं तन्मा-
भूदिति मत्वा, परमकारुणिको भगवान् कात्यायनाचार्यो नानाशाखागतविधि-
वाक्यसङ्ग्रहरूपं कल्पसूत्रं प्रणीतवान् । तत्र पूर्वमधिकारादिकस्य सर्वकर्म-
साधारणस्य निरूपणानन्तरं, विशेषस्य दर्शपूर्णमासादेर्निरूपणं युक्तम् । अ-
न्यथा, प्रतिविशेषं, अधिकारादिनिरूपणे ग्रन्थगौरवं स्यात् । तन्माभूदिति
कृत्वा, प्रथमेऽध्याये यावत्किञ्चित्सर्वकर्मसाधारणं, तदुपदिशति, तत्रैतदादिमं
सूत्रम्—
अथातोऽधिकारः ॥ १ । १ । १ ॥
वक्ष्यत इति सूत्रशेषः । तत्रायमथशब्दो मङ्गलार्थ आनन्तर्यार्थश्च । “ मङ्गला-
नन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ” इत्यमरोक्तेः । तत्र मङ्गलमुच्चारणमात्रेण भवति
दधिदर्शनादिवदिति । आनन्तर्यन्तु अभिधावृत्त्या वक्ति । तेनान्यायश्चानेकका-
र्यत्वमिति दोषानवकाशः। अपेक्षितं च प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्तये
प्रचयगमनाय मङ्गलम् । आनन्तर्यं च न, यतः, कुतश्चित्, आनन्तर्यायोगात्, किन्तु
वेदाध्ययनापेक्षया, तस्यात्रापेक्षितत्वात् । अतः शब्दोऽत्र हेत्वर्थस्यैव वेदाध्ययन-
१ “ स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् । अस्तोभमनवद्यं च, सूत्रं
सूत्रविदो विदुः” इति, “ लघूनि सूचिताथानि स्वल्पाक्षरपदानि च सर्वतः
सारभूतानि सूत्राण्याहुर्मनीषिणः” इति च तल्लक्षणम् । २ व्याख्यास्यत इति
सूत्रशेष इति कर्काचार्याः ३ “ओङ्कारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं
भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” इत्युक्तेः । मङ्गलमुच्चारण मात्रेण
मृदङ्गध्वनिवत् । ४ अतः शब्दस्तदेव वेदाध्ययनं हेतुत्वेन प्रदर्शयतीति कर्कः ।
Here is the complete and accurate Devanagari text transcribed line by line from the image:
देवयाज्ञिकभाष्यसमेतम् । ३
स्य वेदार्थविचारं प्रति हेतुतामाह । अधिक्रियत इत्यधिकारः । स्वाम्यं फलभो-
क्तृतया कर्मणि ऐश्वर्यमित्यर्थः । तेनायमर्थः-अथ वेदाध्ययनानन्तरम्, यतोऽ-
धीतो वेदः, अतो हेतोरधिकारो वक्ष्यते अभिधास्यते, विचारपूर्वकं निरूपयिष्यत
इत्यर्थः। अधिकारग्रहणं सर्वेषां वेदवाक्यप्रतिपाद्यानामर्थानामुपलक्षणार्थम् । अ-
धिकारादिकः सर्वोऽपि वेदवाक्यार्थोऽभिधास्यत इत्यर्थः । प्रतिज्ञासूत्रमेतत् ।
प्रतिज्ञायत इदम्, अधिकारो वक्ष्यत इति । प्रतिज्ञाकरणं शिष्यबुद्धेरव्याकुल-
तार्थम् । अन्यथा हि किमिदमुच्यत इति बुद्धेर्व्याकुलता भवति ।
केचित्त्वेवं^२ व्याख्याक्षते अयमध्यायः सूत्रकृता नित्यकाम्यप्रायश्चित्तोपदेशा-
नन्तरमुपनिबद्धः । तेनाथशब्दः सर्वकर्मोपनिबन्धनानन्तर्ये । अतःशब्दस्तु हेत्वर्थ
एव । यतो दर्शपूर्णमासादीनि प्रवर्ग्यान्तानि कर्माण्युक्तानि, अतस्तेष्वेव कर्म-
स्वधिकार उच्यते । एषु पूर्वोक्तेषु कर्मसु अस्याधिकारः, अस्य स्वामित्वं,
अस्य कर्मजन्यफलभोक्तृत्वमिति वक्ष्यत इत्यर्थः । यत उक्तेष्वेव कर्मसु एवमपे-
क्षाजायते, एतेष्वग्निहोत्रादिकर्मसु कस्याधिकार इति । अत एवं प्रतिज्ञा ।
अथ सर्वकर्मोपनिबन्धनानन्तरं, यतः कर्माण्युक्तानि, अतस्तेष्वधिकारो विधी-
यत इति । अधिकारो वक्ष्यत इति प्रतिज्ञातम् । कर्मजन्यफलभोक्तृत्वं-
चाधिकार इत्युक्तम् ॥१॥
( स्वर्गपदार्थविवेचनम् )
तच्च कर्मणां फलवत्वे सिद्धे सति सिध्यति, नान्यथा । तेन तत्साध-
नार्थमिदं सूत्रं प्रारभ्यते । तत्रैवं सन्देहः । किमफलवन्तिकर्माण, उत
फलवन्तीति । अफलवन्तीति ब्रूमः । कुतः? कर्मसमनन्तरं प्रत्यक्षेण फलस्यानु-
पलब्धेः । ननु माभूत्प्रत्यक्षं कर्मणां फलवत्वे प्रमाणम्, आगमस्तुभविष्यति ।
कश्चासौ " अग्निहोत्रं जुहुयात्स्वर्गकामः " " दर्शपूर्णमासाभ्यां स्वर्गकामोय-
जेत "इत्यादि । सत्यं भविष्यति । तथापि, अत्रैतद्विचार्हम । अत्राग्निहो-
त्रादिषु किं पुरुषस्याधिकारः, स्वाम्यं, कर्मजन्यफलभोक्तृत्वमस्तिनवेति ? तद-
र्थमिदं विचार्यते । यजेत जुहुयादित्यत्रयेयं प्रत्ययोपात्ता भावना तस्यां किं
धात्वर्थ एव भावः प्रधानं यागं कुर्यात्, होमं कुर्यादित्येवम्, स्वर्गादि तु तत्सा-
धनतया गुणभूतम्, स्वर्गेण यागं च होमं च कुर्यादिति । उत काम्यमानत्वेनो-
१ कर्तव्यर्थनिर्देशः प्रतिज्ञा । २ कर्काचार्यात्पूर्व्वतनाः ।
पात्तः स्वर्गादिरेव भाव्यस्तत्र च साधनं धात्वर्थ इति । यागेन होमेन
स्वर्गं कुर्यादिति । ततोऽप्येतद्विचार्यते । योऽत्र क्रियायाः स्वर्गकामादेश्च
पुरुषस्य क्रियाकर्तृरूपः सम्बन्धः, तत्र किं क्रिया प्रधानभूता, पुरुषो
गुणभूतः अथवा पुरुषः प्रधानभूतः, क्रियागुणभूतेति ? यदि गुणभूतः पुरुष-
स्तस्य गुणभावं क्रियाक्षेपादेव सिद्धमनूद्य स्वर्गादिद्रव्यं साधनेत्वेन विधीयते ।
कामश्रुतिश्च साधनकामनानुवादः ।
अयमर्थः—स्वर्गसाधनत्वेन कामयमानो यजेत स्वर्गेण यागं कुर्यादित्यर्थः।
अथवा, “ समुद्रं मनसा ध्यायन् रथन्तरं गायेत् ” इतिवत्स्वर्गकामनैव गुण-
भूतकर्तृविशेषणे सती यागाङ्गत्वेन विधीयत इति द्वेधा पूर्वः पक्षः । अथवा,
प्रधानभूतः पुरुषः, ततस्तस्यात्मार्था स्वर्गादिगोचरा प्रवृत्तिः प्रत्ययेन विधीयते ।
साधनतया च याग उपदिश्यते । स्वर्गकामो यागेन कुर्यादात्मार्थं प्रवृत्तिमिति ।
स्वर्गकामस्य चात्मार्था प्रवृत्तिः स्वर्गविषयैवेति । स्वर्गभावनैवानेन प्रकारेणो-
पदिष्टा भवति । तदयमर्थः- यः स्वर्गं प्राप्तुमिच्छति स यागेन कुर्यादभिल-
षितम्, स्वर्गश्च तस्याभिलषित इति, स्वर्गं भावयेद्यागेनेत्युक्तं भवति । तथा
स्वर्गशब्दः स्रक्चन्दनवनितादिद्रव्यवाची, सुखवाची वेति ? यदि द्रव्यवाची,
ततः कर्मप्रधानम्, द्रव्यं गुणभूतम् । अथ सुखवाची, तदा यागो गुणभूतः,
स्वर्गः प्रधानमिति ।
तत्रपूर्वः पक्षः । अत्र यजेत जुहुयादित्यनेनाख्यातेन भावनाऽभिधीयते ।
तस्यां च धात्वर्थ एव मान्यः, एकपदोपात्तत्वात् । स्वर्गस्तु पदान्तरोपात्तत्वा-
द्वाक्येन भाव्यतया ज्ञातव्यः ॥ * वाक्यं च श्रुतेर्दुर्बलम् । स्वर्गस्य भाव्यत्वाभावे
सति गुणत्वमङ्गीकार्यम् । स्वर्गशब्दश्चात्र सुखसाधनचन्दनादिद्रव्यवाची ।
“ चन्दनं स्वर्गो, द्व्यष्टवर्षाः स्त्रियः स्वर्गः, कौशिकानि सूक्ष्माणि वासांसि
- “ श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्”
इतितार्तीयमधिकरणमत्रानुसन्धेयम् । निरपेक्ष रवः श्रुतिः । सामर्थ्यं लिङ्गम् ‘ समर्थ्यं
सर्वभावानां लिङ्गमित्यभिधीयते ’ इति । समभिव्याहारो वाक्यम्, समभिव्याहारो नाम
साध्यत्वादिवाचकद्वितीयाद्यभावेऽपि वस्तुतः शेषशेषिणोः सहोच्चारणम् । देशसामान्यं
स्थानम् । समाख्या यौगिकः शब्दः । एतेषु पूर्वं पूर्वं प्रबलम् । धात्वर्थस्यैव भाव्यत्वं
पदश्रुत्याप्रतीयते । स्वर्गादिः खलु वाक्येन श्रुतेर्वाक्यं तु दुर्बलम् । भूतं च स्वर्गपश्वादि
द्रव्यं भाव्याय कर्मणे । उपदेश्यं न भूताय भव्यकर्मोपदेशनम् ॥
१. अध्याय १-५: परिभाषा सूत्र, दर्शपूर्णमास इष्टि एवं पिण्डपितृयज्ञ
देवयाज्ञिकभाष्यसमेतम् । ५
स्वर्गः” इति लोके व्यवहारदर्शनात् । सर्वत्र शब्दार्थे तस्यैव प्रामाण्यात् । तच्च
कामापयितुं योग्यम् । तेन विना यागानिष्पत्तेः । द्रव्यं च भूतं सिद्धं कर्म भव्यं
साध्यम् । भूतस्य च भव्यार्थता युक्ता दृष्टार्थत्वात् । न तु भव्यस्य भूतार्थता ।
दृष्टोपकाराभावात् । तस्मादपि यागहोमादिधात्वर्थ एव भाव्यः । अथवा स्वर्गा-
दिकामनैव यागाङ्गमित्यस्मिन्नपि पक्षे तथैव ।
न च यागेन किमपि फलं साध्यत इत्युक्तम् । तत्स्मादफलवन्त्येव
कर्माणि, निःफलेषु च यागेषु लाभाभावाद्बहुवित्तव्ययाऽऽयाससाध्यत्वाच्च न
कश्चित्प्रवर्तेतेति, न कस्यापि कर्मजन्यफलभोक्तृत्वापरपर्यायोऽधिकारः सिध्य-
तीति प्राप्त आह—
( कर्मणां १फलवत्त्वम् )
फलयुक्तानि कर्माणि । ॥ १ । १ । १२ ॥
फलं पुरुषाभीष्टं स्वर्गधनपुत्रादिकम्, कर्माण्यग्निहोत्रादीनि, फलयुक्तानि
फलैः सम्बद्धानि फलवन्ति फलस्य साधकानि भवन्तीत्यर्थः । कथम् ? इत्थम्,
यजेत जुहुयादित्यत्र प्रत्ययस्य केवलमाख्यातरूपत्वमेवेति न मन्तव्यम् । किन्तु
लिङ्प्रत्ययत्वेन विधिरूपत्वमप्यस्ति तत्राख्यातत्वाकारेण २भावनामाचष्टे, विधि-
त्वाकारेण पुरुषं प्रवर्तयति, पुरुषश्च स्वाभिमतफलमन्तरेण न प्रवर्तत इति
तदपेक्षितं स्वर्गमेव भाव्यतया विधिरुपादत्ते । स्वर्गशब्दश्च सर्वोत्कृष्टे सुखे रूढः ।
तथाहि- ३“ यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । इच्छामात्रोपनीतं४ तत्सु-
खं स्वर्गपदास्पदम् ”इति । द्रव्ये तु लाक्षणिकाः तस्मात्स्वर्गस्य भाव्यत्वं
विधिश्रुत्यासिद्धम् । धात्वर्थस्य ✻ तु भाव्यत्वमेकेन पदेन प्रतीयमानमपि न प्रत्य-
येनावगम्यते, किन्तु प्रकृत्या । तथा सति, स्वर्गभाव्यत्वं भावनायाः प्रत्यासन्नम् ।
एकेनैव विधिरूपेणाख्यातप्रत्ययेनावगमात् । कमियोगादपि स्वर्गस्यैव भाव्यत्वम् ।
यागहोमादि तु तत्साधनम् । तथाहि-कि स्वर्गकामो यागायोपदिश्यते, यथा
लोहितोष्णीषाः “प्रचरन्ति” इति । यथा वा यागः स्वर्गकामाय, यथा मलिनः
स्नायात्, बुभुक्षितोऽश्रीयादिति । तत्र यदि स्वर्गकामः कर्मण उपदिश्यते ।
उपदिष्टोपि न प्रवर्त्तते । को हि परार्थं प्रयासमातिष्ठेत । तथाच कर्मचोदनाऽ-
१ 'द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः' इत्याद्यधिकरणमत्रानुसन्धेयम् ।
२ धात्वर्थात्फलमित्युक्तं भावनासन्निकर्षतः । विप्रकृष्टस्तु नामार्थस्तदर्थो न
फलान्वयी । इत्युक्तैः ।
३ तन्त्रवार्तिके । ४ अभिलाषोपनीतमित्यपि पाठः ।
६ कात्यायनश्रौतसूत्रम् ।
नर्थिकैव भवति । अथ यागः स्वर्गकामार्थः । ततोऽसौ पुरुषस्योपकरोति । तं
पुरुषः स्वार्थेन करोतीति । तथाच, कर्मचोदनार्थवतांभवति; तस्माद्यागः स्वर्ग-
कामस्योपकारकः । स्वर्गकामस्यानेक उपकारः, पुत्रपश्वन्नाद्यादिलाभरूपः, स
यदि तत्रान्नाद्यादीनामन्यतमं करोति तदा स्वर्गशब्दोऽविवक्षितार्थः पुरुषमात्र-
वचनो भवति । तथाचाऽऽनर्थक्यमेव । अन्तरेणापि हि तद्वचनं पुरुषमात्रमा-
ख्यातादेव गम्यते । तस्माद्यागात्स्वर्गो भवतीति निश्चीयते । अतश्च स्वर्गकामो
यागेन कुर्यादिति वाक्यार्थः । अत्र स्वर्गं प्रार्थयमानस्यानुष्ठानमनूद्य यागस्तस्यो-
पायत्वेन विधीयते । अतः स्वर्गादिकं यागादेः फलमिति सिद्धम् । फलवन्ति
कर्माणीति च । अतः कर्मणां फलवत्त्वात् कर्मजन्यफलभोक्तृत्वापरपर्यायोऽधि-
कारोपि पुरुषस्याग्निहोत्रादिकर्मसु सिध्यति ॥ २ ॥
( अधिकारविचारः )
अधिकारो वक्ष्यत इति प्रतिज्ञातम् । स केषामित्यपेक्षायामाह-
सर्वेषामविशेषात् ॥ १ । १ । ३ ॥
सर्वेषां कर्मानुष्ठानसमर्थानामसमर्थानां चान्धामूकपङ्गुबधिरदेवर्षिति-
रश्चां कर्मस्वधिकारो भवति । कुतः ? अविशेषात् । फलार्थित्वस्य सर्वेषामविशि-
ष्टत्वात् । फलं हि सर्वैरिष्यत एव । तत्राचेतनानां वृक्षादीनां कामनाभावदन-
धिकारः । तिरश्चां तु भवति। तिर्यञ्चश्चोङ्गितास्तापेन तप्ताश्छायां व्रजन्ति। शीत-
पीडिताश्चातपम् । ननु तिर्यञ्चः प्रत्यासन्नमेव जानन्ति न तु कालान्तरभावि-
फलम् । वैदिकानि च कर्माणि कालान्तरफलान्येव । अतः कथं तिरश्चां तत्र
प्रवृत्तिः? उच्यते, कालान्तरेऽपि फलं कामयमाना दृश्यन्ते । श्वानश्चतुर्दश्यामप-
वसन्ति । श्येनाश्चाष्टम्यामिति । लिङ्गान्यपि वेदे सन्ति । “देवा ह वै सत्रमासत,”
“ वनस्पतयः सत्रमासत ” “ गावो वा एतत्सत्रमासत ” इत्यादीनि । तानि.
च देवानां सर्पाणां वनस्पतीनां गवां चाधिकारं दर्शयन्ति ।
नन्वेतेऽन्धादयो यथोक्तं कर्म कर्तुं न शक्ष्यन्तीति कथमधिकार एषाम् ?
उच्यते, यजेतेत्यादिप्रधानवाक्येन सर्वाधिकारं कर्मावगतम् । तदनुसारिणी
चाङ्गवाक्यानि न तत्सङ्कोचे समर्थानि, अतश्चक्षुष्मन्तं प्रत्याज्यावेक्षणविधिः,
अचक्षुषस्तुतद्विध्यभावात्तद्रहितमेवफलसाधनम्, एवं बधिरस्य वाचनरहितम्,
१ फलार्थत्वात्कर्मणः शास्त्रं सर्वाधिकारं स्यादित्यधिकरणमत्रानुसन्धेयम् ।
मूकस्य मन्त्रोच्चारणरहितम्, पङ्गोश्च विष्णुक्रमणरहितमिति सर्वेषामर्थिनामशक्या-
ङ्गरहितकर्मानुष्ठानात्सिद्धोऽधिकार इति पूर्वः पक्षः ॥ ३ ॥
सिद्धान्तमाह—
मनुष्याणां वारम्भसामर्थ्यात् ॥ १ । १ । ४ ॥
वाशब्दः पक्षव्यावृत्तौ । न सर्वेषामधिकारः, किन्तु मनुष्याणामेव । कुतः ?
आरम्भसामर्थ्यात् । मनुष्या एव हि यथाश्रुतं कर्मारब्धुं, कर्तुं च समर्था न देव-
र्षितिर्यगादयः । तत्र देवानां देवतान्तराभावादनधिकारः । न ह्यात्मानमुद्दिश्य
त्यागः सम्भवति । किञ्च, देवाश्च प्राप्तस्वर्गादिकामाः । न च तेषां किञ्चिदवास-
व्यमस्ति, यदर्थं कर्माणि कुर्वते । ऋषीणां चार्षेयाभावादनधिकारः । न हि
भृग्वादयो भृग्वादिसगोत्रा भवन्ति ।
तन्त्ररत्ने तु विशेषः । अनादिर्हि कालोऽस्माकं मीमांसकानाम् । तेन
भृगोरपि पूर्वपूर्वभृग्वन्तरसम्भवात्ततः पूर्वमप्येवमेवेति सम्भवत्येव भृगोर्भार्गव-
त्वमित्यस्त्येव ऋषीणामप्यधिकारः । तथा, येषां शब्द एव देवता तेषामिद्यु-
क्तम्, यद्देवानां देवतान्तराभावादनधिकार इति । शक्यते हीन्द्रेणापीन्द्रशब्दो-
च्चारणेन हविस्त्यक्तुम् । तस्माद्देवाना मप्यधिकार इति । नच तिरश्चाङ्गवादीना-
मधिकारः । प्रधानमात्रेऽपि सामर्थ्यात् । आसन्नचेतनत्वाच्च १ । ते ह्यासन्नमेव
चेतयन्ते न पारलौकिकं फलमिति । ननूक्तं शुनश्चतुर्दश्यामुपवासदर्शनात्,
श्येनस्य त्वष्टम्यामुपवासदर्शनाच्च तेऽपि पारलौकिकं जानन्तीति । तत्कथमव-
गम्यत एते धर्मार्थमुपवसन्तीति । ये हि वेदस्मृतिपुराणादिकं पठन्ति त एव
जानन्ति यदनेन कर्मणा इदं फलममुत्राप्यत इति, नचैते वेदादिकं पठन्ति,
नाप्यन्येभ्य आगमयन्ति, तेन शास्त्रार्थमविद्वांसः, फलमामुष्मिकमकामयन्तः
कथं तत्साधनं कर्म कुर्युः ? तस्मान्न धर्मार्थमुपवसन्तीति । किमर्थं तर्हितेषा-
मुपवासः ? उच्यते, रोगादरुचिरेतेषाम् । तर्हि नियतकाले कथं रोगः ?
उच्यते, नियतकाला अपि रोगा भवन्ति । यथा तृतीयकचातुर्थिकादिज्वराः ।
अधनाश्चैते । तस्मान्न गवादीनां तिरश्चामधिकारः । यानि पुनर्लिङ्गानि “ देवा
ह वै सत्रमासत ” इत्यादीनि अर्थवादास्ते विधिप्ररोचनार्थाः । इत्थं सत्राणि
प्रशस्तानि यानि कृतकृत्या अपि देवा आसते । आसन्नचेतनास्तिर्यञ्चोऽपि ।
अचेतना वनस्पतयोऽपि । किं पुनर्मनुष्या यथाश्रुतम नुष्ठातुं समर्था इति ।
१ आसन्नेषु समीपवर्तिषु चेतना बुद्धिर्येषामिति विग्रहः ।
८ कात्यायनश्रौतसूत्रम् ।
तस्माद्यथाश्रुतकरणसामर्थ्यान्मनुष्याणामेवाधिकारो, न गवादीनामिति
सिद्धम् ॥ ४ ॥
एवमपि मनुष्याणामधिकारे प्राप्ते आह-
( अङ्गहीनादीनामधिकारः )
अङ्गहीनाश्रोत्रियषण्ढशूद्रवर्जम् ॥ १ । १ । ५ ॥
अङ्गहीनाश्रोत्रियषण्ढशूद्रान्वर्ज्जयित्वा मनुष्याणामधिकारः कर्मसु भवति ।
मनुष्या अपि ये अङ्गहीना अङ्गेन चक्षुरादिना हीना अन्धपङ्गुमूकबधिरादयः,
अश्रोत्रिया अनधीतवेदाः, षण्ढा नपुंसकाः, शूद्राश्च नैतेषामधिकार इत्यर्थः ।
आरम्भसामर्थ्यादित्यत्राप्यनुवर्त्तते। न चैतेऽङ्गहीनादयो यथाश्रुतं कर्म्मारब्धुं, कर्त्तुं
वा शक्नुवन्ति । तद्यथा, नह्यन्ध आज्यावेक्षणं कर्त्तुं शक्नोति, मूको मन्त्रोच्चार-
णम्, पङ्गुश्च विष्णुक्रमणम्, बधिरश्च प्रैषश्रवणम् । अनधीतवेदोऽश्रोत्रिय इत्यु-
च्यते । स च न किमपि मन्त्रसाध्यं कर्म कर्त्तुं शक्नोति । षण्ढो नपुंसकः । तस्या-
प्यनधीतवेदत्वादद्रव्यत्वादशुचित्वाच्च नाधिकारः । शूद्रस्य चानधीतवेदत्वाद-
नधिकारः । आज्यावेक्षणादिभिश्च विना कर्मणो वैगुण्यं भवत्येव । ननूक्तमश-
क्याङ्गरहितकर्मानुष्ठानादधिकारो भविष्यतीति । अत्रोच्यते, भवेदेवं यदि
आज्यमवेक्षत इत्यादीन्यङ्गवाक्यानि स्वातन्त्र्येण पुरुषैः सम्बध्येरन् । प्रधानवा-
क्यशेषत्वात्तेषां तदङ्गयुक्तेन प्रधानवाक्येन तदङ्गयुक्तः क्रतुः पुरुषैः सम्बध्यमा-
नोऽसमर्थान् परित्यज्य समर्थान्प्रति ज्ञायते । तेनान्धस्यक्रतुरेवाविहितो, न त्वा-
ज्यावेक्षणमेवाविहितमितरच्च विहितमिति मन्तव्यम् । न च प्रधानवाक्यविरोधः,
सर्वाधिकारानिश्चयात्, विशेषाभावाद्धि सर्वाधिकारः स्यादस्त्यविशेष आर-
म्भसामर्थ्यम् । अतः समर्थानामेवाधिकारः ।
यत्र तु प्रधानवाक्यविरोधो यावज्जीवं यजेतेत्यादौ । तत्र यथाशक्ति-
प्रयोगादपि फलं भवति । तद्विरोधे तु सर्वाङ्गयुक्तकर्मानुष्ठानमेव फलम् । न
तु, आरम्भसामर्थ्यादित्यनेनैव गवादीनामिवान्धादीनामप्यधिकाराभावसिद्धेः,
किमर्थं पुनरङ्गहीनादिवर्जमित्युक्तम् ? उच्यते-नियमार्थम् । एतेषामेवानधिका-
१ “नैवाज्यावेक्षणादीनां पुरुषं प्रति चोदना । क्रतुं प्रति विधिस्तस्मान्नाशक्त-
स्याधिकारिता ” इत्युक्तेः । “नाश्रोत्रियकृते यज्ञे ग्रामयाजिहुते तथा । स्त्रिया
क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित्' इति स्मृतेस्तेषां गृहे भोजनस्यापि
निषेधः, कुतो यज्ञाधिकारः ? यज्ञान्ते ब्राह्मणभोजनस्यावश्यकत्वात् ।
[Header] देवयाज्ञिकभाष्यसमेतम् । ९
रो न निर्धनस्य। तस्य चाधिकारो भवत्येव । न त्वारम्भसामर्थ्याभावादनधि-
कारः । अतो निर्धनोऽपि क्रत्वर्थं धनमर्जनादिना सम्पाद्यावश्यं यजेतेति ।
एवमन्धादिरपि ओषधिशास्त्रादिनाऽन्धत्वादिकं स्फोटयितुं शक्नोति तस्याप्यधि-
कारो भवत्येव । पूर्वमङ्गहीनत्वावस्थायामाहिताग्निश्चेदकस्माद्रोगादिनाऽङ्गवैकल्ये
जाते कर्मस्वधिकारो न भवति । नित्येषु तु यथाशक्ति कुर्वन्नधिक्रियत एव ।
अङ्गवैकल्ये सति अग्न्याधेयं न भवत्येव ।
(त्रिकाण्ड) मण्डनः—
“ दर्शेटिं पौर्णमासेष्टिं सोमेड्यामनिसङ्ग्रहम् । अग्निहोत्रं विवाहं च
प्रयोगे प्रथमे स्थितम् । न कुर्याज्जनके १ज्येष्ठे सोदरेचाप्यकुर्वति । ज्येष्ठे श्रद्धा-
विहीने सत्याधेयं तदनुज्ञया । पितुः सत्यप्यनुज्ञाते ना
१० कात्यायनश्रौतसूत्रम् ।
( शूद्राणामनधिकारः )
ब्राह्मणराजन्यवैश्यानाञ्च्श्रुतेः ॥ १ । १ । ६ ॥
शूद्रस्य कुतो नाधिकार इत्यत्र हेतुः। ब्राह्मणराजन्यवैश्यानामेवाधानं श्रू-
यते । यतो ब्राह्मणादीनां त्रयाणामेवाधानं श्रूयते, न शूद्रस्य । तथाहि—“ व-
सन्ते ब्राह्मणोऽग्नीनादधीत, ग्रीष्मे राजन्यः, शरदि वैश्यः” इति । अतः शूद्रस्या-
ग्न्याधानश्रवणाभावादनग्निः शूद्रः । अतस्तस्याग्निसाध्ये कर्मण्यधिकाराभावः ।
नन्वनाहितानेवाग्नीन् क्रीतलब्धानादाय करिष्यति । मैवम् । आदधीतेत्यात्मने-
पदाद्धातोरेव फलेन भवितव्यम्, कर्मयोग्यता चाग्नीनां तत्फलम्, अतोऽन्येऽन्या-
हिता अन्यस्य कर्म न साधयन्ति । तेनानाहितानामग्नीनामुपादानमयुक्तम् ।
अतः शूद्रस्याधाना श्रवणात्तदेकोपायसाध्यानामग्नीनाम
ब्राह्मणं स्वर्गकामं च पुरुषमेवाधिकृत्य यजेतेत्येष उच्चरितः, स्त्रियं पुमांसं वेति ।
किं तावत्प्राप्तम् ? पुंलिङ्गनिर्देशात्पुरुषस्यैवाधिकारः । कुतः ? अत्र १'लिङ्गस्य
प्रकृत्यर्थतया विवक्षितत्वात् । यथा " ग्रहं संमाष्टिं " इत्यत्र । अतः पुरुषस्यै-
वाधिकारो, न स्त्रियाः, अद्रव्यत्वत्वात् । यतः स्त्री निर्धना; अतः सा द्रव्य-
त्यागात्मकं कर्म कर्तुं कथं शक्नोति ? द्रव्याभावात् । द्रव्याभावश्च " भार्या
पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्ध-
नम् " इति । स्मृतेः तस्मात्पुरुषस्यैवाधिकार इति प्राप्त आह—
(पुंसा सहैव स्त्रिया अधिकारः)
स्त्री चाविशेषात् ॥ १ । १ । ७ ॥
स्त्री च अग्निहोत्रादिकर्मस्वधिकारिणी भवति । कुत ? अविशेषात् ।
यतः स्वर्गकामो ब्राह्मण इत्येतत् पुंलिङ्गं श्रूयमाणमपि न विशेषकरम् । यत
इदमुपदिश्यमानस्य विशेषणम् । यः स्वर्गकामः स यजेतेत्येवम् । तेन विधिसं-
स्पर्शाभावाद्विवक्षितम् ।
अतो न पुरुषस्यैवाधिकारः । किन्तु स्त्रिया अपि । अथवा अविशेषादित्यर्थः ।
तदुक्तं जैमिनिना " फलोत्साहाविशेषाच्च " इति (६-१-३-१३)
ननूक्तं निर्द्धनत्वान्नाधिकार इति । मैवम्, धनवती हि सा, तस्या अपि
कर्तनादिना द्रव्यार्जनस्य सम्भवात् । पितृभ्रातृभर्त्रादिदत्तसम्भवादज्जितस्यो-
भयसाधारणत्वाच्च । " धर्मे चार्थे च कामे च नातिचरितव्या (इत्युक्तेः)
पाणिग्रहाद्धि सहत्वं कर्मसु तथा कर्मफलेषु च " " द्रव्यपरिग्रहेषु च" इत्यादि-
स्मरणात् ।
ननूक्तं "यत्ते समधिगच्छन्ति" इत्यादिकम्:। तत्रोच्यते स्मृतिप्रमाण्यान्निर्ध-
नतया भवितव्यम् । श्रुतिविशेषात् फलार्थिना यष्टव्यम्, यदि स्मृतिमनुरुध्य
भार्या परवशान्निर्धना स्यात् । यजेतेत्युक्ता सति न यजेत । तत्र स्मृत्या श्रुति-
र्बाध्येत । न चैतद्युक्तम् । तस्मात्फलार्थिनी सती स्मृतिमप्रमाणीकृत्य द्रव्यं
परिगृह्णीयात्, यजेत चेति । अतः स्मर्यमाणमपि निर्धनत्वमन्याय्यमेव । श्रुति-
१ 'लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः" इति जैमिनीयं पूर्वपक्षसूत्रं मनसि
निधायोक्तमत्रेत्यादि ।
१२ कात्यायनश्रौतसूत्रम् ।
विरोधात् । अतो निर्धनत्वप्रतिपादकं वचनमस्वातन्त्र्यपरं व्याख्येयम् । तस्मा-
त्स्त्रिया अपि फलार्थित्वाविशेषाद्धनवत्त्वाच्चाधिकारो भवति ॥ ७ ॥
दर्शनाच्च ॥ १ । १ । ८ ॥
दृश्यते चायमर्थो वेदे । यत्पत्न्यपि कर्मस्वधिक्रियत इति । "मेखलया
यजमानं दीक्षयति योक्त्रेण पत्नीम्" इति "पत्नी लौह" इति "पत्नी च
गार्हपत्ये तूष्णीम्" इति च । अत्र योक्त्रादिविधिपरेषु वाक्येषु पत्न्या अपि कर्म-
स्वधिकारदर्शनात्पत्न्यप्यधिक्रियत इत्युक्तम् । अथवा वेदे पत्न्या अपि धनव-
त्त्वाददर्शनाच्च पत्न्यप्यधिक्रियते । तथाहि "भयदा पत्नीं संयाजयन्ति भयद्धीर्या
हि पत्न्यो भयदा वा एताः परगृहाणामैश्वर्यमवरुन्धत" इति । एवं पत्न्या अ-
धिकारे सिद्धे, इदं चिन्त्यते । किं पत्नी पृथग्यजेत, यजमानश्च पृथक्, उतोभौ
सम्भूय यजेयातामिति । किं प्राप्तम् ? पृथक् पृथगिति । कुतः ? यजेतेत्याख्या-
तप्रत्ययगताया एकलसङ्ख्याया उद्देश्यगतत्वाभावेन विवक्षाया वारयितुमशक्य-
त्वात् । अत एककर्त्तृत्वसिद्धये यजमानेन पत्न्या च पृथग्यागः कर्तव्य इति
पूर्वः पक्षः ।
सिद्धान्तस्तु । न पृथग्यागः कार्यः कुतः ? वैगुण्यसम्भवात् । दर्शपूर्ण-
मासादौ आज्यस्य पत्न्यवेक्षणं यजमानावक्षणं चेत्युभयमाम्नातम्स्ति । तत्र
पृथक् प्रयोगे क्रियमाणे यजमानकर्तृके यागे पत्न्यवेक्षणं लुप्येत, पत्नीकर्तृके च
यजमानावक्षणम् । तस्माद्वैगुण्याय सहैव दम्पती यजेयाताम् । ननु पृथगपि
यजमानः पुमानध्वर्त्वादिवत्परिक्रयेणाज्यावेक्षणार्थं पत्नीं सम्पादयिष्यति स्त्री
च यजमानम् । मैवम्, स्वामिनः परिक्रयेणासम्पन्नत्वात् । न हि या काचित् स्त्री
पत्नी शब्दवाच्या । यज्ञस्वामिनी हि सा । "पत्युर्नोयज्ञसंयोगे" इति पाणिनि-
स्मरणात् । एवं यजमानशब्दमपि यज्ञस्वामिन्येव स्मरन्ति । तस्मात्सहैव कर्तृ-
त्वमुभयोः । न च यजेतेत्येकवचनं विरुद्धम् । अग्नीषोमौ देवतेत्यत्र यथा
व्यासक्तयोर्देवतात्वाद्देवैक्यम्, तथा दम्पत्योरेकमेव कर्तृत्वमित्यङ्गीकारात् ।
अनयोर्हि उद्वाहकाल एव द्रव्यसाधारण्यमुक्तम् । "धर्मे चार्थे च कामे च
नातिचरितव्या" इत्यनेन । अतो यस्त्यागः स इतरेतरसंसृष्टयोरेव दम्पत्योः । नहि
साधारणमेकेन त्यक्तुं शक्यते । भिन्नयोरपि दम्पत्योः संसृष्टद्रव्ययोः पृथक्
स्वतन्त्रकर्तुमप्रभवतोरेकमेव स्वातन्त्र्यलक्षणं कर्तृत्वम् ।
देवयाज्ञिकभाष्यसमेतम् । १३
ननु सत्रिवत्कर्तृभेद इति युक्तमेकवचनम् । सत्रिणां हि पृथग्द्रव्यतया
पृथगेव कर्तृशक्तिर्वाचनिकानेकर्तृत्वसिद्ध्यर्थं तु कर्तॄणां साहित्यम् । इह
तु सहैव कर्तृत्वमिति विशेषः ।
ननु साधारणमपि धनं विभज्य पृथग्यागः सम्भवति, मैवम्, यतस्तयो-
र्विभागः प्रतिषिद्धो न भर्त्रा सह विभजेदिति । तस्मान्न विभज्य यागः ।
अतो द्रव्यसाधारण्याद्विभागप्रतिषेधाद् “ धर्मे चार्थे च कामे च नातिचरित-
व्या ” इतिवचनात्पृथक्प्रयोगे प्रागुक्तवैगुण्यापत्तेश्च स्वामिभ्यां समुचिताभ्या-
मेवेक्षितस्याज्यस्य कर्माङ्गत्वान् न पृथक् कर्तृत्वम्, किन्तु सहैव । एवंच यजमान-
विद्वत्तयैव पत्न्या अपि कार्यसिद्धेर्नाविद्वत्तया तस्या अधिकारभङ्गः । अत एव
सूत्रकारः “ अनुचरीर्वा फलाधिकारादितरासाम् ” इति पत्न्या अपि फलं
दर्शयति । तिरपि “ दिवि ज्योतिरजरमारभेत ” इति । तथा च स्मृतिः ।
“ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । शुश्रूषयति भर्त्तारं तेन
स्वर्गे महीयते ” इति ।
एवं दम्पत्योः सहाधिकारे तुल्यफलत्वे च सिद्धे इदं चिन्त्यते । किं सर्वं
याजमानं पत्न्या अपि कर्त्तव्यम् ? उत यावदुक्तमाशीर्ब्रह्मचर्यादिकमिति । किं
प्राप्तम् ? तस्या अपि यजमानत्वेन तुल्यत्वात्सर्वं याजमानं तयापि कर्त्तव्यमित्ये-
वं प्राप्ते ब्रूमः । अत्र जैमिनिसूत्रम्, “तस्या यावदुक्तमाशीर्ब्रह्मचर्य्यमतुल्यत्वात्”
इति । ( ६-१-६-२४ ) तस्या यावदुक्तं स्यात् । अतुल्यत्वात् । यजमानस्तु
पुमान् विद्वांश्च । पत्नी च स्त्रीत्वाविशेषाच्च । अतः ऋत्वर्थेषु यानि यजमानं
गृह्णन्ति । तद्यथा “ यजमानो वेदं बध्नाति ” “पात्राण्यासादयति” “ शुक्र-
मन्वारभेत ” इत्यादीनि । तत्र यजमानस्योपादेयत्वादेकवचनं विवक्षितम् ।
अतस्तत्र पत्न्या न कर्तृत्वम् । एवमेव “ पत्न्याज्यमवेक्षते ” “ श्रदस्मै नर
इत्येनमवेक्षते पत्नी ” इत्यादौ पत्न्या एव कर्तृत्वं न यजमानस्य, उक्तादेवहेतोः,
यानि च ऋत्वर्थानि समन्त्रकाणि तेष्वविषयत्वात्पत्नी न स्यात् । स्त्रीणामध्ययन-
प्रतिषेधात्सा मन्त्रोच्चारणं कर्तुं न शक्नोति । न चान्यथानुपपत्त्या तस्या अप्यध्य-
यनं कल्पयितुं शक्यते । सम्पन्नविद्येन पुंसा तेषामनुष्ठानसिद्धेः । यद्धि ऋत्वर्थं
तदेकेन येन केनचित्कर्तव्यम् । अतोऽनुपपत्तेः क्षीणत्वात्प्रतिषिद्धस्य पत्न्या अ-
ध्ययनस्य पुनः प्रसवे न किंचित्प्रमाणमस्ति, तस्मात्तदपि पत्न्या न कर्त्तव्यम् ।
याश्चाशिषो यच्च ब्रह्मचर्यं तत्पुरुषं प्रति गुणभूतं न तत्रान्यतरेण कृते सि-
ध्यति, अन्यतरस्य संस्कारो हीयेत । नच तत्र यजमानस्योपादेयत्वेन श्रवणम् ।
तस्माल्लिङ्गमप्यविवक्षितम् । अत आसां ब्रह्मचर्यमुभयोः “आशीः”शब्देनात्र-
संस्कारा लक्ष्यन्ते । व्रत्याशनाधःशयनपावनाक्षाञ्जनाभ्यञ्जनादयः । ते ह्युभयो-
र्भवन्ति । संस्कारेष्वपि पत्न्या वपनं न भवति । कुतः ? वपनविधौ “केशश्मश्रु-
वपते” इति समाहारद्वन्द्वोऽयम् । तत्र केशश्मश्रुणोरितरेतरयोगे सति शास्त्रोक्तं
वपनं न सम्पद्यते । न च पन्त्यास्तयोः साहित्यमस्ति । श्मश्वभावात् । अतस्त-
स्या न वपनमसामस्त्यादिति तन्त्ररत्ने । ब्रह्मचर्यग्रहणं काम्यानां लक्षणार्थम् ।
ब्रह्मचर्याशीर्ग्रहणेनैव लक्षितत्वात् । कामा अपि पत्न्या भवन्ति, तदभावेऽधि-
कारानुपपत्तेः । ये मन्त्राः क्रत्वर्थकास्तेष्वपि यजमान एव कर्त्ता विद्वत्त्वात्स्व-
तन्त्रत्वाच्च । अतः सर्वं समन्त्रकममन्त्रकं च याजमानं यजमानेनैव कर्त्तव्यम् ।
आहत्य विहितं त्वाज्यावेक्षणादि पत्न्या कर्त्तव्यं नान्यत् । तदेवमङ्गहीनादिवर्जि-
तानां ब्राह्मणक्षत्रियवैश्यानां पत्नीसहितानामग्निहोत्रादिकर्मस्वधिकार उक्तः ॥८॥
(रथकारस्याधान एवाधिकारः)
अथ रथकारस्याधिकारमाह-
रथकारस्याधाने ॥ १ । १ । ९ ॥
रथकारस्याधाने अग्न्याधानकर्मणि अधिकारो भवति । “वर्षासु रथ-
कार आदधीत” इतिश्रुतेः । अत्रेदं सन्दिह्यते । किं त्रैवर्णिकानामन्यतमो
रथकरणयोगाद्रथकार इत्युच्यते ? आहोस्विन्नियतं किञ्चिज्जात्यन्तरमिति ।
किं तावत्प्राप्तम् ? त्रैवर्णिकानामन्यतम एवेति । कुतः ? सोऽपि हि रथं करोती-
त्ति योगाद्रथकार इत्युच्यते । तस्य च त्रैवर्णिकत्वादाधानं प्राप्तमेव । ऋतुमात्रं विधे-
यम् । तथा सत्येकार्थविधानाद्वाक्यभेदो न भवति, लाघवं च । जात्यन्तरपक्षे
तु तस्याधानं विधातव्यमृतुसम्बन्धश्च । तथा सति वर्षास्वादधीत रथकार आद-
धीतेत्येवं वाक्यभेदः स्यात् । अपि तु शूद्रस्त्वसमर्थत्वात्प्रतिषिद्धः । तस्मा-
त्त्रैवर्णिकानामन्यतम एवेति पूर्वः पक्षः ॥ ९ ॥
सिद्धान्तमाह—
नियतं च ॥ १ । १ । १० ॥
चो वेत्यर्थे । वाशब्दश्च पूर्वपक्षनिरासार्थः । न त्रैवर्णिको रथकारः । तस्या-
शिल्पोपजीवनस्य प्रतिषिद्धत्वात् । किन्तु नियतं जात्यन्तरमेव । अत्र केचिदेव-
माहुः-वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः, शूद्रायां वैश्यादुत्पन्ना करणी, तस्यां