सामग्री पर जाएँ
सर्वकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 19, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 19

देवयाज्ञिकभाष्यसमेतम् । १३
ननु सत्रिवत्कर्तृभेद इति युक्तमेकवचनम् । सत्रिणां हि पृथग्द्रव्यतया
पृथगेव कर्तृशक्तिर्वाचनिकानेकर्तृत्वसिद्ध्यर्थं तु कर्तॄणां साहित्यम् । इह
तु सहैव कर्तृत्वमिति विशेषः ।
ननु साधारणमपि धनं विभज्य पृथग्यागः सम्भवति, मैवम्, यतस्तयो-
र्विभागः प्रतिषिद्धो न भर्त्रा सह विभजेदिति । तस्मान्न विभज्य यागः ।
अतो द्रव्यसाधारण्याद्विभागप्रतिषेधाद् “ धर्मे चार्थे च कामे च नातिचरित-
व्या ” इतिवचनात्पृथक्प्रयोगे प्रागुक्तवैगुण्यापत्तेश्च स्वामिभ्यां समुचिताभ्या-
मेवेक्षितस्याज्यस्य कर्माङ्गत्वान् न पृथक् कर्तृत्वम्, किन्तु सहैव । एवंच यजमान-
विद्वत्तयैव पत्न्या अपि कार्यसिद्धेर्नाविद्वत्तया तस्या अधिकारभङ्गः । अत एव
सूत्रकारः “ अनुचरीर्वा फलाधिकारादितरासाम् ” इति पत्न्या अपि फलं
दर्शयति । तिरपि “ दिवि ज्योतिरजरमारभेत ” इति । तथा च स्मृतिः ।
“ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । शुश्रूषयति भर्त्तारं तेन
स्वर्गे महीयते ” इति ।
एवं दम्पत्योः सहाधिकारे तुल्यफलत्वे च सिद्धे इदं चिन्त्यते । किं सर्वं
याजमानं पत्न्या अपि कर्त्तव्यम् ? उत यावदुक्तमाशीर्ब्रह्मचर्यादिकमिति । किं
प्राप्तम् ? तस्या अपि यजमानत्वेन तुल्यत्वात्सर्वं याजमानं तयापि कर्त्तव्यमित्ये-
वं प्राप्ते ब्रूमः । अत्र जैमिनिसूत्रम्, “तस्या यावदुक्तमाशीर्ब्रह्मचर्य्यमतुल्यत्वात्”
इति । ( ६-१-६-२४ ) तस्या यावदुक्तं स्यात् । अतुल्यत्वात् । यजमानस्तु
पुमान् विद्वांश्च । पत्नी च स्त्रीत्वाविशेषाच्च । अतः ऋत्वर्थेषु यानि यजमानं
गृह्णन्ति । तद्यथा “ यजमानो वेदं बध्नाति ” “पात्राण्यासादयति” “ शुक्र-
मन्वारभेत ” इत्यादीनि । तत्र यजमानस्योपादेयत्वादेकवचनं विवक्षितम् ।
अतस्तत्र पत्न्या न कर्तृत्वम् । एवमेव “ पत्न्याज्यमवेक्षते ” “ श्रदस्मै नर
इत्येनमवेक्षते पत्नी ” इत्यादौ पत्न्या एव कर्तृत्वं न यजमानस्य, उक्तादेवहेतोः,
यानि च ऋत्वर्थानि समन्त्रकाणि तेष्वविषयत्वात्पत्नी न स्यात् । स्त्रीणामध्ययन-
प्रतिषेधात्सा मन्त्रोच्चारणं कर्तुं न शक्नोति । न चान्यथानुपपत्त्या तस्या अप्यध्य-
यनं कल्पयितुं शक्यते । सम्पन्नविद्येन पुंसा तेषामनुष्ठानसिद्धेः । यद्धि ऋत्वर्थं
तदेकेन येन केनचित्कर्तव्यम् । अतोऽनुपपत्तेः क्षीणत्वात्प्रतिषिद्धस्य पत्न्या अ-
ध्ययनस्य पुनः प्रसवे न किंचित्प्रमाणमस्ति, तस्मात्तदपि पत्न्या न कर्त्तव्यम् ।
याश्चाशिषो यच्च ब्रह्मचर्यं तत्पुरुषं प्रति गुणभूतं न तत्रान्यतरेण कृते सि-