सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

॥ काशिका ॥ ७ ॥ १ ॥ ६४५

बहुलं छन्दसि ॥ ८ ॥

छन्दसि विषये बहुलं रुडागमो भवति । देवा अदुह्र । गन्धर्वा अप्स-
रसो अदुह्र । दुहेर्लङि झकारस्यादादेशे कृते रुट् । लोपस्त आत्मनेपदेष्विति
तकारलोपः । न च भवति । अदुहत । बहुलवचनादन्यत्रापि भवति । अदृश्र-
मस्य केतवः । ऋदृशोऽङि गुण इत्येतदपि बहुलवचनादेवात्र न भवति ॥

अतो भिस ऐस् ॥ ९ ॥

अकारान्तादङ्गादुत्तरस्य भिस ऐसित्ययमादेशो भवति । वृक्षैः । प्लक्षैः ।
अतिजरसैः । जरामतिक्रान्तैरिति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसा-
देशो भवति । एकदेशविकृतमनन्यवद्भवतीति जराशब्दस्य जरसादेशः । संनि-
पातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषेयमनित्या कष्टाय क्रमणेति

६४६ ॥ काशिका ॥ ७ । १ ॥
अत इति किम् । सख्या । पत्या । अतिजरसिन अतिजरसादिति केचिदि-
च्छन्ति । यथा तु भाष्ये तथा नैतदिष्यतइति लक्ष्यते ॥
ङेर्यः ॥ १३ ॥
ङेरिति चतुर्थ्येकवचनस्य ग्रहणम् । अकारान्तादङ्गादुत्तरस्य ङे इत्येतस्य
य इत्ययमादेशो भवति । वृक्षाय । प्लक्षाय । अत इत्येव । सख्ये । पत्ये । संनिपा-
तलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषेयमनित्या तेन दीर्घो भवति ॥
सर्वनाम्नः स्मै ॥ १४ ॥
अकारान्तात्सर्वनाम्न उत्तरस्य ङेः स्मै इत्ययमादेशो भवति । सर्वस्मै ।
विश्वस्मै । यस्मै । कस्मै । तस्मै । अत इत्येव । भवते । अथात्रास्मै इत्यन्वा-
देशे ऽनादेशे एकादेशः प्राप्नोति तत्रान्तरङ्गत्वादेकादेशात्पूर्वं स्मैभावः क्रियते
पश्चादेकादेश

[Header] ॥ काशिका ॥ ७ । १ ॥ ६४९

ओकारोयं शौविधे। ङिद्गृहीतो ङित्त्वास्माकं नास्ति कोयं प्रकारः ।
सामान्यार्थस्तस्य चाषंजनेस्मिन्ङित्कार्ये ते श्यां प्रसक्तं स दोषः ॥
ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णो यत्स्यात्तच्च विद्यात्तदादौ ।
वर्णश्चायं तेन ङित्त्वेप्यदोषो निर्देशोयं पूर्वसूत्रेण वा स्यात् ॥
नपुंसकाच्च ॥ १९ ॥
नपुंसकादङ्गादुत्तरस्य औङः शी इत्ययमादेशो भवति । कुण्डे तिष्ठतः ।
कुण्डे पश्य । यस्येति लोपः प्राप्तः ॥ श्यां प्रतिषेधो वक्तव्यः ॥ * ॥ इति न
भवति । दधिनी । मधुनी । त्रपुणी । जतुनी ॥
जश्शसोः शिः ॥ २० ॥
नपुंसकादङ्गादुत्तरयोर्जश्शसोः शि इत्ययमादेशो भवति । कुण्डानि तिष्ठ-
न्ति । कुण्डानि पश्य । दधीनि । मधूनि । त्रपूणि । जतूनि । जसा साहचर्या-
त्तस्य शसो ग्रहणादिह न भवति । कुण्डशो ददाति । वनशः प्रविशन्तीति ॥
अष्टाभ्य औश् ॥ २१ ॥
अष्टाभ्य इति कृताकारोष्टशब्दो गृह्यते । तस्मादुत्तरयोर्जश्शसोरौशित्य-
यमादेशो भवति । अष्टौ तिष्ठन्ति । अष्टौ पश्य । कृताकारस्य ग्रहणं किम् ।
अष्ट तिष्ठन्ति । अष्ट पश्य । एतदेव कृतात्वस्य ग्रहणं ज्ञापकमष्टन आ विभ-
क्तावित्यस्यात्वविकल्पस्य । षड्भ्यो लुगित्यस्यायमपवादो नाप्राप्ते तस्मिन्निदमार-
भ्यते । यस्तु सुपो धातुप्रातिपदिकयोरिति तस्मिन्प्राप्ते चाप्राप्ते चेति स न
बाध्यते । अष्टपुत्रः । अष्टभार्य्य, इति । तदन्तग्रहणमत्रेष्यते । परमाष्टौ । उत्त-
माष्टौ । प्रियाष्टान इत्यत्रात्वस्याभावादौश्त्वं न भवति ॥
षड्भ्यो लुक् ॥ २२ ॥
षट्संज्ञकेभ्य उत्तरयोर्जश्शसोर्लुग्भवति । षट् तिष्ठन्ति । षट् पश्य ।
पञ्च । सप्त । नव । दश । षट्प्रधानात्तदन्तादपि भवति । परमषट् । उत्त-
मषट् । यत्र तूपसर्जनं षट् ततो न भवति । प्रियषषः, प्रियपञ्चान इति ॥
स्वमोर्नपुंसकात् ॥ २३ ॥
सु अम् इत्येतयोर्नपुंसकादुत्तरयोर्लुग्भवति । दधि तिष्ठति । दधि पश्य । मधु
तिष्ठति । मधु पश्य । त्रपु । जतु । तद्बृहत्कुकुलमित्यत्र लुका त्यदाद्यत्वं बाध्यते
पूर्वविप्रतिषेधेन नित्यत्वाद्वा । लुको हि निमित्तमतोमिति लक्षणान्तरेण विहन्यते
न पुनस्त्यदाद्यत्वेनैव, यस्य च लक्षणान्तरेणनिमित्तं विहन्यते न तदनित्यं भवति ॥
अतो ऽम् ॥ २४ ॥

६४८ ॥ काशिका ॥ ७ ॥ १ ॥
आकारान्तान्नपुंसकादुत्तरयोः स्वमोरमित्ययमादेशो भवति । कुण्डं ति-
ष्ठति । कुण्डं पश्य । वनम् । पीठम् । मकारः कस्मान्न क्रियते । दीर्घत्वं प्राप्नोति ॥
अड् डतरादिभ्यः पञ्चभ्यः ॥ २५ ॥
डतरादिभ्यः परयोः स्वमोरड्ड् इत्ययमादेशो भवति । कतरत्तिष्ठति ।
कतरत्पश्य । कतमत्तिष्ठति । कतमत्पश्य । इतरत् । अन्यतरत् । अन्यत् । पञ्चभ्य
इति किम् । नेमं तिष्ठति । नेमं पश्य । डित्करणं किम् । कतरत्तिष्ठतीत्यत्र पूर्वसव-
र्णदीर्घो मा भूत् । इह तु कतरत्पश्येति स्थानिवद्भावादमि पूर्वरूपेणापि सिद्ध्यति ।
एवं तर्हि तकारादेश एव कस्मान्न विधीयते, हे कतरदिति संबुद्धेर्लोपो मा भूत् ।
अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु ।
अड्ङ्गित्त्वादडुतरादीनां न लोपो नापि दीर्घता ॥
नेतराच्छन्दसि ॥ २६ ॥
इतरशब्दादुत्तरयोः स्वमोश्छन्दसि विषये अड्डादेशो न भवति । इत-
रमिरमण्डमजायत । वाचेन्नमितरम् । छन्दसीति किम् । इतरत्काष्ठम् । इत-
रत्कुड्यम् । अतोमित्यस्मादनन्तरमितराच्छन्दसीति वक्तव्यं नेतराच्छन्दसीति
वचनं योगविभागार्थम् ॥ एकतरात्तु सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते ॥
एकतरं तिष्ठति । एकतरं पश्येति ॥
युष्मदस्मद्भ्यां ङसो ऽश् ॥ २७ ॥
युष्मदस्मदित्येताभ्यामुत्तरस्य ङसो ऽशित्ययमादेशो भवति । तव स्वम् ।
मम स्वम् । शित्करणं सर्वादेशार्थम् । अन्यथा ह्यादेशव्यपदेशप्रक्लृप्त्यर्थमादेरेव
स्यात् ततश्च योचीत्येव स्यात् ॥
ङे प्रथमयोरम् ॥ २८ ॥
ङे इत्यविभक्तिको निर्देशः । ङे इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथ-
माद्वितीययोर्युष्मदस्मद्भ्यामुत्तरयोरमित्ययमादेशो भवति । तुभ्यं दीयते । मह्यं
दीयते । प्रथमयोः । त्वम् । अहम् । युवाम् । आवाम् । यूयम् । वयम् ।
त्वाम् । माम् । युषाम् । आवाम् ॥
शसो न ॥ २९ ॥
युष्मदस्मद्भ्यामुत्तरस्य शसो नकारादेशो भवति । युष्मान् ब्राह्मणान् ।
अस्मान् ब्राह्मणान् । युष्मान् ब्राह्मणीः । अस्मान् ब्राह्मणीः । युष्मान् कुलानि ।
अस्मान्कुलानि * ॥

  • तस्माच्छसो नः पुंसीति सिद्धे स्त्रीनपुंसकार्थं वचनम् । अलिङ्गे वा युष्मदस्मदी ।
    इत्यधिकं पुस्तकान्तरे ।

॥ काशिका ॥ ७ । १ ॥ ६४६
भ्यसो भ्यम् ॥ ३० ॥
युष्मदस्मद्भ्यामुत्तरस्य भ्यसो भ्यमित्ययमादेशो भवति । युष्मभ्यं दीयते ।
अस्मभ्यं दीयते । भ्यमादेशे कृते शेषे लोपे च बहुवचने झल्येतीत्येत्वं प्राप्नोति ।
तदङ्गवृत्ते पुनर्वृत्तावविधिनिष्ठितस्येति न भवति । के चित्पुनरभ्यमादेशमेत्व-
निवृत्त्यर्थं कुर्वन्ति । येषां तु शेषे लोपष्टिलोपास्तेषामभ्यमादेश एव । उदात्तनि-
वृत्तिस्वरश्चादेरेव भवति ॥
पञ्चम्या अत् ॥ ३१ ॥
पञ्चम्या भ्यसो युष्मदस्मद्भ्यामुत्तरस्य अदित्ययमादेशो भवति । युष्मद्ग-
च्छन्ति । अस्मद्गच्छन्ति ॥
एकवचनस्य च ॥ ३२ ॥
पञ्चम्या एकवचनस्य युष्मदस्मद्भ्यामुत्तरस्यादित्ययमादेशो भवति । त्वद्ग-
च्छन्ति । मद्गच्छन्ति ॥
साम आकम् ॥ ३३ ॥
साम इति षष्ठीबहुवचनमागतसुट्कं गृह्यते । तस्य युष्मदस्मद्भ्यामुत्तर-
स्याकमित्ययमादेशो भवति । युष्माकम् । अस्माकम् । अथ किमर्थमागतसुट्को
गृह्यते । नह्यादेशविधानकाले सुड्विद्यते । तस्यैव तु भाविनः सुटो निवृत्त्य-
र्थम् । आदेशे कृते हि शेषे लोपे युष्मदस्मदोरकारान्तत्वात्सुट् प्राप्नोति । स
स्थानिन्यन्तर्भूतत्वान्निवर्त्तते । दीर्घाच्चारणं सवर्णदीर्घार्थम् । अकमि तु सति
ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति । तत्सामर्थ्यमेत्वं प्रति
भविष्यतीति । अकारकरणमेत्वनिवृत्त्यर्थमिति । अतो गुणे पररूपत्वं स्यात् ॥
आत औ णलः ॥ ३४ ॥
आकारान्तादङ्गादुत्तरस्य णल औकारादेशो भवति । पपौ । तस्थौ ।
जग्लौ । मम्लौ । अत्रौत्वमेकादेशः स्थानिवद्भावो द्विवचनमित्यनेन क्रमेण कार्याणि
क्रियन्ते । एकादेशादनवकाशत्वादौत्वं द्विवचनादपि परत्वादेकादेश इति ॥
तुह्योस्तातङाशिष्यन्यतरस्याम् ॥ ३५ ॥
तु हि इत्येतयोराशिषि विषये तातङादेशो भवत्यन्यतरस्याम् । जीव-
ताद्‍भवान् । जीवतात्त्वम् । जीवतु भवान् । जीव त्वम् । ङित्करणं गुणवृद्धि-
प्रतिषेधार्थमिति सर्वादेशस्तातङ् भवति । ङित्त्वाच्चास्य स्थानिवद्भावाद्यापित्त्वं
प्राप्नोति तन्निवर्त्तते, हिञ्च पिच्च भवति । तेन ब्रुव ईडिडिति ब्रूताद्भवानीतीङ्
न भवति । आशिषीति किम् । ग्रामं गच्छतु भवान् । गच्छ त्वम् ।

तातङि ङित्वं संक्रमकृत्स्यादन्त्यविधिश्चेतन्न तथा न ।
हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकमाह ॥
तातङे। ङित्वसामर्थ्यान्नायमन्त्यविधिः स्मृतः ।
न तद्वदनङादीनां तेन तेऽन्त्यविकारजाः ॥
विदेः शतुर्वसुः ॥ ३६ ॥
विद ज्ञानेत्येतस्माद्धातोहत्तरस्य शतुर्वसुरादेशो भवति । विद्वान् ।
विद्वांसौ । विद्वांसः । स्थानिवद्भावादुगित्कार्ये सिद्धे वसोर्हकारकरणं वसोः
संप्रसारणमित्यत्र क्वसोरपि सामान्यग्रहणार्थम् । एकानुबन्धकग्रहणे न द्व्यनुब-
न्धकस्येत्येतदपि न भवति । तथा सत्युकारकरणमनर्थकं स्यात् । अन्यतरस्यां-
ग्रहणं के चिदनुवर्त्तयन्ति । विदन् । विदन्तौ । विदन्तः ॥
समासे ऽनञ्पूर्वे क्त्वो ल्यप् ॥ ३७ ॥
समासे ऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यबित्ययमादेशो भवति । प्रकृत्य ।
प्रहृत्य । पार्श्वतःकृत्य । नानाकृत्य । द्विधाकृत्य । समासइति किम् । कृत्वा ।
हृत्वा । अनञ्पूर्वइति किम् । अकृत्वा । अहृत्वा । परमकृत्वा । उत्तमकृत्वा ।
अनञिति हि नञा ऽन्यदनञ् नञ्सदृशमव्ययं परिगृह्यते । तेन नञ् अनव्ययं
चानञ् न भवति । स्नात्वाकालकादिषु मयूरव्यंसकादिषु निपातनाल्ल्यबादेशो
न भवति । अथ वा समासइति निर्धारणे सप्तमी । तेन क्त्वान्तः समास एव
परिगृह्यते । स च येन विधिस्तदन्तस्येत्यनेन तदन्तविधिना, न तु कृद्ग्रहणे
गतिकारकपूर्वस्यापीति । तथा चानञ्पूर्वइत्युच्यते । गतिकारकपूर्वस्यैव तु ग्रहणे
सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति । नञ्न गतिर्न च कारकमिति । प्रधाय प्रस्थाये-
त्यादिषु ह्विप्रभृतीनान्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधतएवेति ज्ञापितम् ॥
क्त्वापि छन्दसि ॥ ३८ ॥
समासे ऽनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययमादेशो भवति अपिशब्दा-
ल्यबपि भवति छन्दसि विषये । कृष्णां वासो यजमानं परिधापयित्वा । प्रत्य-
ञ्चमर्कं प्रत्यर्थयित्वा । ल्यबपि भवति । उद्धृत्य जुहोति । वाछन्दसीति नोक्तं
सर्वोपाधिव्यभिचारार्थम् । तेनासमासे ल्यब्भवति । अर्च्य तान् देवान् गतः ।
छन्दोधिकार आञ्जसेरसुगिति यावत् * ॥
सुपां सुलुकपूर्वसवर्णाच्छेयाडाड्यायाजालः ॥ ३९ ॥
छन्दसि विषये सुपां स्थाने सु लुक् पूर्वसवर्ण आ आत् शे या डा ड्या

  • वा छन्दसीत्यारभ्य यावदित्यन्तः पाठः कुत्र चित्पुस्तके ऽस्ति ।

याच् आल् इत्येते आदेशा भवन्ति । सु । अनुत्तरा ऋजवः सन्तु पन्थाः ।
पन्थान इति प्राप्ते ॥ सुपां सुपो भवन्तीति वक्तव्यम् ॥ * ॥ धुरि दक्षिणायाः ।
दक्षिणायामिति प्राप्ते ॥ तिङां तिङो भवन्तीति वक्तव्यम् ॥ * ॥ चषालं
ये अश्वयूपाय तक्षति । तक्षन्तीति प्राप्ते । लुक् । आर्द्रं चर्मन् । लोहिते चर्मन् ।
चर्मणीति प्राप्ते । हविर्द्धाने * यत्सुन्वन्ति तत्सामिधेनीरन्वाह । यस्मिन्सु-
न्वन्ति तस्मिन्सामिधेनीरिति प्राप्ते । पूर्वसवर्णः । धीती । मती । सुष्टुती ।
धीत्या मत्या सुष्टुत्या इति प्राप्ते । आ । उभा यन्तरौ । उभौ यन्तरौ इति
प्राप्ते । आत् । न ताद्ब्राह्मणाद् निन्दामि । न तान् ब्राह्मणानिति प्राप्ते ।
शे । न युष्मे वाजबन्धवः । अस्मे इन्द्राबृहस्पती । यूयं वयमिति प्राप्ते । यूया-
देशो वयादेशश्च छान्दसत्वाच्च भवति । या । उरुया । धृष्णुया । उरुणा धृष्णु-
नेति प्राप्ते । डा । नाभा पृथिव्याम् । नाभौ पृथिव्यामिति प्राप्ते । ड्या ।
अनुष्टुभा च्यावयतात् । अनुष्टुभेति प्राप्ते । याच् । साधुया । साध्विति सोर्लुकि
प्राप्ते । आल् । वसन्ता यजेत । वसन्त इति प्राप्ते ॥ इयाडियाजीकाराणामुप-
संख्यानम् ॥ * ॥ इया । उर्विया परिधानम् । दार्विया । उरुणा दारुणेति
प्राप्ते । डियाच् । सुक्षेत्रिया । सुगातुया । सुक्षेत्रिणा सुगातुनेति प्राप्ते ।
ईकारः । दृतिं न शुष्कं सरसी शयानम् । सरसि शयानमिति प्राप्ते ॥ आङ्याज्-
यारामुपसंख्यानम् ॥ * ॥ आङ् । प्रबाहवा । प्रबाहुनेति प्राप्ते । अयाच् । स्वप्नया
सच सेवनम् । स्वप्नेनेति प्राप्ते । अयार् । सिन्धुमिव नावया । नावेति प्राप्ते † ॥
अमो मश् ॥ ४० ॥
अम् इति मिबादेशो गृह्यते । तस्य छन्दसि विषये मशादेशो भवति ।
वधीं वृत्रम् । क्रमीं वृत्तस्य शाखाम् ‡ । लुङि बहुलं छन्दस्यमाङ्योगेपीत्यडा-
गमाभावः । शित्करणं सर्वादेशार्थम् । मकारस्यापि हि मकारवचनमनुस्वार-
निवृत्त्यर्थं स्यात् ॥
लोपस्त आत्मनेपदेषु ॥ ४१ ॥
आत्मनेपदेषु यस्तकारस्तस्य छन्दसि विषये लोपो भवति । देवा
अदुह्र । गन्धर्वाप्सरसो अदुह्र । अदुहृतेति प्राप्ते । दुहामश्विभ्यां पयो यद्-
र्येयम् । दुग्धामिति प्राप्ते । दक्षिणतः शये । शेतइति प्राप्ते । अपीत्यधिका-
राच्च भवति । तत्र आत्मानमनृतं कृणुते । आत्मनेपदेष्विति किम् । वत्सं
दुहन्ति कलशं चतुर्बिलम् ॥
* हविर्धानायेति पाठान्तरम् ।
† अयारिति रेफ उपोत्तमं रितीत्युपोत्तमस्योदात्तार्थः । अधिकोयं पाठ एकस्मिन् पुस्तके ।
‡ अवधिवमक्रमिषमिति प्राप्ते । इत्यार्थिकं पुस्तकान्तरे ।

६५२ ॥ काशिका ॥ ७ । १ ॥
ध्वमो ध्वात् ॥ ४२ ॥
छन्दसि विषये ध्वमो ध्वादित्ययमादेशो भवति । आन्तरेणोष्माणं
वारयध्वात् । वारयध्वमिति प्राप्ते ॥
यजध्वैनमिति च ॥ ४३ ॥
यजध्वमित्येतस्य एनमित्येतस्मिन्परतो मकारलोपो निपात्यते वकारस्य
च यकारश्छन्दसि विषये । यजध्वैनं प्रियमेधाः । यजध्वमेनमिति प्राप्ते ॥
तस्य तात् ॥ ४४ ॥
तशब्दस्य लोट्मध्यमपुरुषबहुवचनस्य स्थाने तादित्ययमादेशो भवति ।
गात्रंगात्रमस्या नूनं शृणुतात् । शृणुतेति प्राप्ते । ऊरुध्ये गोष्ठं पार्थिवं खन-
तात् । खनतेति प्राप्ते । अस्मरक्तः संसृजतात् । संसृजतेति प्राप्ते । सूर्ये चक्षु-
र्गमयतात् । गमयतेति प्राप्ते ॥
तप्तनप्तनथनाश्च ॥ ४५ ॥
तस्येति वर्तते । छन्दसि विषये तस्य स्थाने तप् तनप् तन थन इत्येते
आदेशा भवन्ति । तप् । शृणोत ग्रावाणः । शृणुतेति प्राप्ते । सुनोत । सुनुतेति
प्राप्ते । तनप् । संघरत्रा दधातन । धत्तेति प्राप्ते । तन । जुजुष्टन । जुषतेति प्राप्ते ।
छान्दसत्वात् श्लुः । थन । यदिष्ठन । यदिच्छथेति प्राप्ते । पित्करणमङित्त्वार्थम् ॥
इदन्तो मसि ॥ ४६ ॥
छन्दसि विषये मसित्ययं शब्द इकारान्तो भवति । मसः सकारान्तस्य
इकारागमो भवति स च तस्यान्तो भवति, तद्ग्रहणेन एतद्गृह्यतइत्यर्थः । पुनस्त्वां
दीपयामसि । दीपयाम इति प्राप्ते । शलभं भञ्जयामसि । भञ्जयाम इति
प्राप्ते । त्वयि रात्रिं वासयामसि । वासयाम इति प्राप्ते ॥
क्त्वो यक् ॥ ४७ ॥
क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये । दत्त्वाय सविता
धियः । दत्त्वेति प्राप्ते । क्त्वापिच्छन्दसीत्यस्यानन्तरमिदं कस्मान्नोच्यते ।
समासइति तत्रानुवर्त्तते ॥
इष्ट्वीनमिति च ॥ ४८ ॥
इष्ट्वीनमित्ययं शब्दो निपात्यते छन्दसि विषये । यजेः क्त्वाप्रत्ययान्तस्य
ईनमादेशोऽन्त्यस्य निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा देवानिति प्राप्ते ॥ पीत्वी-
नमित्यपीष्यते ॥ चकारस्यानुक्तसमुच्चयार्थत्वात्सिद्धम् ॥
स्नात्व्यादयश्च ॥ ४९ ॥

॥ काशिका ॥ ७ । १ ॥ ६५३
स्नात्वी इत्येवमादयः शब्दा निपात्यन्ते छन्दसि विषये । स्नात्वी
मलादिव । स्नात्वेति । प्राप्ते । पीत्वी सोमस्य वावृधे । पीत्वेति प्राप्ते ।
प्रकारार्थोऽयमादिशब्दः ॥
आज्जसेरसुक् ॥ ५० ॥
अवर्णान्तादङ्गादुत्तरस्य जसेरसुगागमो भवति छन्दसि विषये । ब्राह्म-
णासः पितरः सोम्यासः । ब्राह्मणाः सोम्या इति प्राप्ते । ये पूर्वासो यऽपरास
इत्यत्र परत्वादसुकि पुनः प्रसङ्गविज्ञानाच्छभावः प्राप्तः । सकृद्गतौ विप्रति-
षेधे यद्बाधितं तद्बाधितमेवेति न भवति ॥
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ ५१ ॥
छन्दसीत्यतः प्रभृति निवृत्तम् । अश्व क्षीर वृष लवण इत्येतेषामङ्गाना-
मात्मप्रीतिविषये क्यचि परतो ऽसुगागमो भवति । अश्वस्यति वडवा । क्षीर-
स्यति माणवकः । वृषस्यति गौः । लवणस्यत्युष्ट्रः । आत्मप्रीताविति किम् ।
अश्वीयति । क्षीरीयति । वृषीयति । लवणीयति ॥ अश्ववृषयोर्मैथुनेच्छाया-
मिति वक्तव्यम् ॥ * ॥ क्षीरलवणयोर्लालसायामिति वक्तव्यम् ॥ * ॥ तृष्णा-
तिरेको लालसा । अन्यत्रात्मप्रीतावपि न भवति । अपर आह ॥ सर्वप्राति-
पदिकेभ्यो लालसायामसुक वक्तव्यः ॥ * ॥ दध्यस्यति, मध्वस्यति, इत्येवमाद्य-
र्थेम् । अपर आह ॥ सुव्वक्तव्यः ॥ * ॥ दधिस्यति, मधुस्यति, इत्येवमाद्यर्थम् ॥
आमि सर्वनाम्नः सुट् ॥ ५२ ॥
आदिति वर्तते । अवर्णात्सर्वनाम्न उत्तरस्यामः सुडागमो भवति । सर्वेषाम् ।
विश्वेषाम् । येषाम् । तेषाम् । सर्वासाम् । यासाम् । तासाम् । आदित्येव । भव-
ताम् । आमीति षष्ठीबहुवचनं गृह्यते, न ङेराम् नद्याम्नीभ्य इति, तस्य हि परत्वा-
डाड्याटस्याटो भवन्ति । यश्च घादामः, आमश्च लिटि न तौ सर्वनाम्नः स्तः ।
सानुबन्धकविधिर्वा न गृह्यते । आमीति सप्तमीनिर्देश उत्तरार्थः । इह तु
सर्वनाम्न इति पञ्चमीनिर्देशात्तस्मादित्युत्तरस्येति षष्ठीप्रकॢप्तिर्भविष्यति ॥
त्रेस्त्रयः ॥ ५३ ॥
त्रि इत्येतस्य आमि परे त्रय इत्ययमादेशो भवति । त्रयाणाम् ॥
त्रीणामित्यपि छन्दसीष्यते ॥ त्रीणामपि समुद्राणामिति ॥
ह्रस्वनद्यापो नुट् ॥ ५४ ॥
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चोत्तरस्यामो नुडागमो भवति । ह्रस्वान्ता-
सावत् । वृक्षाणाम् । प्लक्षाणाम् । अग्नीनाम् । वायूनाम् । कर्तॄणाम् * ।

  • हर्तॄणामित्यपि बहुषु पुस्तकेष्वस्ति ।

६५४ ॥ काशिका ॥ ७ ॥ १ ॥

नद्यन्तात् । कुमारीणाम् । किशोरीणाम् । गौरीणाम् । शार्ङ्गरवीणाम् ।
लक्ष्मीणाम् । ब्रह्मबन्धूनाम् । वीरबन्धूनाम् । आबन्तात् । खट्वानाम् । माला-
नाम् । बहुराजानाम् । कारीषगन्ध्यानाम् ॥
षट्चतुर्भ्यश्च ॥ ५५ ॥
षट्संज्ञकेभ्यश्चतुःशब्दाच्चोत्तरस्यामो नुडागमो भवति । षण्णाम् ।
पञ्चानाम् । सप्तानाम् । नवानाम् । दशानाम् । चतुर्णाम् । रेफान्तायाः
संख्यायाः षट्संज्ञा न विहिता । षड्भ्यो लुगिति लुग् मा भूत् । बहुवचन-
निर्देश्याच्च संख्याप्रधानस्य ग्रहणं भवति । परमषण्णाम् । परमपञ्चानाम् ।
परमसप्तानाम् । परमचतुर्णाम् । उपसर्जनीभूतायास्तु संख्याया न भवति ।
प्रियषषाम् । प्रियपञ्चाम् । प्रियचतुरामिति ॥
श्रीग्रामण्योश्छन्दसि ॥ ५६ ॥
श्री ग्रामणी इत्येतयोश्छन्दसि विषये आमो नुडागमो भवति । श्रीणा-
मुदारो धरुणो रयीणाम् । अप्यत्र सूतयामणीनाम् । श्रीशब्दस्य वामीति
विकल्पेन नदीसंज्ञा तत्र नित्यार्थं वचनम् । सूतग्रामणीनामिति यदा सूताश्च
ते ग्रामण्यश्च सूतग्रामण्यो भवन्ति तदर्थमिदं वचनम् । यदा तु सूतश्च
ग्रामणीश्च सूतग्रामणि । सूतग्रामणि च सूतग्रामणि च सूतग्रामणि चेति
सूतग्रामणीनामिति, तदा ह्रस्वादित्येव सिद्धम् ॥
गोः पादान्ते ॥ ५७ ॥
गो इत्येतस्मात्पादान्ते वर्तमानादुत्तरस्यामो नुडागमो भवति ।
विद्माहि त्वा सत्यपतिं शूरगोनाम् । पादान्तइति किम् । गवां गोत्रमुदसृजो
यदङ्गिरः । सर्वे विधयश्छन्दसि विकल्प्यन्तइति पादान्तेऽपि क्व चिन्न भवति ।
हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
इदितो नुम् धातोः ॥ ५८ ॥
इदितो धातोर्नुमागमो भवति । कुडि । कुण्डिता । कुण्डितुम् ।
कुण्डितव्यम् । हुडि । हुण्डिता । हुण्डितुम् । हुण्डितव्यम् । कुण्डा । हुण्डा ।
इदित इति किम् । पचति । पठति । अयं धातूपदेशावस्थायामेव नुमागमो
भवति, कुण्डा हुण्डेति गुरोश्च हल इत्यकारप्रत्ययो यथा स्यात् । तथाचेदि-
न्धिन्विक्कृण्व्योर चेति प्रत्ययविधावेव नुमनुषक्तयोर्ग्रहणम् । धातुग्रहणं चेह
क्रियते धातूपदेशकालएव नुमागमो यथा स्यादित्येवमर्थम् । तासिसिचोरि-
दित्कार्यं नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते । अमंस्तेत्येवमादौ
हि, हनः सिजिति कित्त्वविधानसामर्थ्यान्नकारलोपो न भवति । मन्तेत्यत्रा-

॥ काशिका ॥ ७ ॥ १ ॥ ६५५
प्यसिद्धवदत्राभादिति टिलोपस्यासिद्धत्वाच्चलोपो न भवति इह कस्मान्न
भवति । भेत्ता छेत्तेति । इरितां समुदायस्येत्संज्ञेतीदित्वं नास्ति । अवयवशो
पीत्संज्ञायां सत्यां गोः पादान्तदन्तान्नहणमनुवर्त्तयितव्यम् । तेनान्तेदितो
धातवो गृह्यन्ते ॥
शे मुचादीनाम् ॥ ५९ ॥
शे प्रत्यये परतो मुचादीनां नुमागमो भवति । मुञ्च् । मुञ्चति । लुप् ।
लुम्पति । विद्ऌ । विन्दति । लिपि । लिम्पति । सिच् । सिञ्चति । कृतीँ ।
कृन्तति । खिद । खिन्दति । पिश । पिंशति । शे इति किम् । मोक्ता । मोक्तुम् ।
मोक्तव्यम् । मुचादीनामिति किम् । तुदति । नुदति ॥ शे तृम्फादीनामुप-
संख्यानं कर्तव्यम् ॥ * ॥ के पुनस्तृम्फादयः । तृफ तृम्फ तृप्तौ । दृफ दृम्फ
उत्क्लेशे । गुफ गुम्फ ग्रन्थे । उभ उम्भ पूरणे । शुभ शुम्भ शोभार्थे, इत्यत्र ये
सानुबन्धास्तृम्फादय,स्तेषामनिदितां हल उपधायाः क्ङितीत्यनुनासिकलोपे कृते
नुम्विधीयते । स च विधानसामर्थ्यान्न लुप्यते । तृम्फति । दृम्फति । गुम्फति ।
उम्भति । शुम्भति । ये तु निरनुबन्धास्तेषां तृफति दृफति गुफति उभति
शुभतीत्येवं भवति ॥
मस्जिनशोर्झलि ॥ ६० ॥
मस्जि नशि इत्येतयोर्द्वयोर्झलादौ प्रत्यये नुमागमो भवति । मङ्क्ता ।
मङ्क्तुम् । मङ्क्तव्यम् । नंष्टा । नंष्टुम् । नंष्टव्यम् । झलीति किम् । मज्जनम् ।
नशिता ॥ मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गादिलोपार्थम् ॥ मग्नः । मग्नवान् ॥
रधिजभोरचि ॥ ६१ ॥
रधि जभि इत्येतयोरजादौ प्रत्यये नुमागमो भवति । रन्धयति ।
रन्धकः । साधुरन्थी । रन्धो वर्त्तते । जम्भयति । जम्भकः । साधुजम्भी । जम्भं-
जम्भम् । जम्भो वर्त्तते । परापि सती वृद्धिर्नुमा बाध्यते नित्यत्वात् । अचीति
किम् । रद्धा । जब्धम् ॥
नेड्यलिटि रधेः ॥ ६२ ॥
इडादावलिटि प्रत्यये परे रधेर्नुमागमो न भवति । रधिता । रधितुम् ।
रधितव्यम् । इटीति किम् । रन्धनम् । रन्ध्रः । अलिटीति किम् । ररन्धिथ ।
ररन्धिम । नुम्रि कृते संयोगान्तत्त्वादसंयोगाल्लिट्किदिति कित्त्वं नास्तीति
नलोपो न भवति । अथ क्वसौ कथं भवितव्यं, रेधिवानिति । कथ,मेत्वाभ्या-
सलोपयोः कृतयोरिडागमः क्रियते ततो नुमागमस्तस्यौपदेशिककित्त्वाश्रयो
लोपः । अथ इटि, लिटीत्येवं नियमः कस्मान्न क्रियते लिट्येवेटि नान्यत्रेति ।

६५६ ॥ काशिका ॥ ७ । १ ॥
विपरीतमप्यवधारणं संभाव्यते इत्येव लिटि नान्यत्रेति । तथा हि सति ररन्धे-
त्यत्र न स्यात्, रधितेत्यत्र च स्यादेव ॥
रभेरशब्लिटोः ॥ ६३ ॥
रभेरङ्गस्य शब्लिङ्वर्जिते ऽजादौ प्रत्यये परतो नुमागमो भवति । आर-
म्भयति । आरम्भकः । साधारम्भी । आरम्भमारम्भम् । आरम्भो वर्तते । अश-
ब्लिटोरिति किम् । आरभते । आरभे । अचीत्येव । आरब्धा ॥
लभेश्च ॥ ६४ ॥
लभेश्चाजादौ प्रत्यये शब्लिङ्वर्जिते नुमागमो भवति । लम्भयति । लम्भकः ।
साधुलम्भी । लम्भंलम्भम् । लम्भो वर्तते । अशब्लिटोरित्येव । लभते । लेभे ।
अचीत्येव । लब्धा । लभेश्च पृथग्योगकरणमुत्तरार्थम् ॥
आङो यि ॥ ६५ ॥
आङ उत्तरस्य लभेर्यकारादिप्रत्ययविषये नुमागमो भवति । आलभ्या
गौः । आलभ्या वडवा । प्राक्प्रत्ययोत्पत्तेर्नुमि कृते विहतमदुपधत्वमिति ऋह-
लोर्ण्यदिति ण्यत्प्रत्ययस्तत्र कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वेनान्तस्वरितत्वं
भवति । यति तु पुनरुत्तरपदाद्युदात्तत्वं स्यात् । आङ इति किम् । लभ्यः * ।
कथमग्निष्टोम आलभ्य इति । सर्वे विधयश्छन्दसि विकल्प्यन्ते । अथ वा
आलम्भ्य इत्यत्र नुमि कृते ऽनुषङ्गलोपः क्रियते ॥
उपात्प्रशंसायाम् ॥ ६६ ॥
उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमा-
गमो भवति । उपलभ्या भवता विद्या । उपलभ्यानि धनानि । ण्यत्प्रत्यया-
न्तत्वादन्तस्वरितत्वमेव । प्रशंसायामिति किम् । उपलभ्यमस्माद्दुर्बलात्किं-
चित् । पोरदुपधत्वाद्यत्प्रत्ययान्तमिदम् ॥
उपसर्गात्खल्घञोः ॥ ६७ ॥
उपसर्गादुत्तरस्य लभेः खल्घञोः परतो नुमागमो भवति । ईषत्प्रलम्भः ।
सुप्रलम्भः । दुष्प्रलम्भः । घञि । प्रलम्भो, विप्रलम्भः । सिद्धे सत्यारम्भो नियम-
मार्थः । उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, नान्यत्र । ईष-
ल्लभः । लाभो वर्तते ॥
न सुदुर्भ्यां केवलाभ्याम् ॥ ६८ ॥
सु दुरित्येताभ्यां केवलाभ्यामन्योपसर्गरहिताभ्यामुपसृष्टस्य लभेः खल्-

  • अदुपधत्वाद्यत्प्रत्ययान्तमेतत् । यीति किम् । आलब्धा । इत्यधिकमस्तिपुस्तके ।

॥ काशिका ॥ ७ ॥ १ ॥ ६५७
घञोः परतो नुमागमो भवति । सुलभम् । दुर्लभम् । घञि । सुलाभो दुर्लाभः ।
केवलाभ्यामिति किम् । सुप्रलम्भः । दुष्प्रलम्भः । सुदुर्भ्यामिति तृतीयां मत्वा
केवलग्रहणं क्रियते । पञ्चम्यां हि व्यवहितत्वादेवाप्रसङ्गः । अतिसुलभमित्यत्र
कर्मप्रवचनीयत्वादतेः केवल एव सुशब्द उपसर्ग इति भवति प्रतिषेधः । यदा
त्वतिशब्दो न कर्मप्रवचनीयस्तदा नुम्भवत्येवातिसुलम्भ इति । पञ्चमीनिर्देश-
पक्षेऽप्येवमर्थं केवलग्रहणं कर्तव्यम् ॥
विभाषाचिण्णमुलोः ॥ ६९ ॥
चिण् णमुल् इत्येतयोर्विभाषा लभेर्नुम्भवति । अलाभि । अलम्भि ।
लाभम् २ । लम्भम् २ । व्यवस्थितविभाषा चेयं, तेनानुपसृष्टस्य विकल्प, उप-
सृष्टस्य नित्यं नुम्भवति । प्रालम्भि । प्रलम्भम् ॥
उगिदचां सर्वनामस्थाने ऽधा

३५८ ॥ काशिका ॥ ७ ॥ १ ॥
इको ऽचि विभक्तौ ॥ ७३ ॥
इगन्तस्य नपुंसकस्याङ्गस्याजादौ विभक्तौ नुमागमो भवति । त्रपुणी ।
जतुनी । तुम्बुरुणी । त्रपुणे । जतुने । तुम्बुरुणे । इक इति किम् । कुण्डे ।
पीठे । अङ्गग्रहणमुत्तरार्थम् । यद्येवं, तत्रैव कर्तव्यम् । इह तु करणे एतत्प्रयो-
जनं हे त्रपो इत्यत्र नुम् मा भूदिति, । न ङिसंबुद्ध्योरिति नलोपप्रतिषेधः
स्यात् । ननु च न लुमताङ्गस्येति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव नास्ति ।
एतदेवाङ्गग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधोऽत्र न भवतीति । तथा च संबुद्धि-
गुणः क्रियते । विभक्ताविति किम् । ताम्बुरवं चूर्णम् ।
इकोचि व्यञ्जने माभूदस्तु लोपः स्वरः कथम् ।
स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति ॥
रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि ।
नुट् वाच्य उत्तरार्थे तु इह किं चित्रपो इति ॥
तृतीयादिषु भाषित पुंस्कं पुंवद्गालवस्य ॥ ७४ ॥
तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कं नपुंसकलिङ्गमङ्गं गाल-
वाचाय्र्यस्य मतेन पुंवद्भवति । यथा पुंसि ह्रस्वनुमौ न भवतस्तद्वदत्रापि न
भवत इत्यर्थः । ग्रामणीर्ब्राह्मणः । ग्रामणि ब्राह्मणकुलम् । ग्रामण्या ब्राह्म-
णकुलेन । ग्रामणिना ब्राह्मणकुलेन । ग्रामण्ये ब्राह्मणकुलाय । ग्रामणिने
ब्राह्मणकुलाय । ग्रामण्यो ब्राह्मणकुलात् । ग्रामणिनो ब्राह्मणकुलात् ।
ग्रामण्यो ब्राह्मणकुलस्य । ग्रामणिनो ब्राह्मणकुलस्य । ग्रामण्योर्ब्राह्मणकु-
लयोः । ग्रामणिनोर्ब्राह्मणकुलयोः । ग्रामण्यां ब्राह्मणकुलानाम् । नुमचि
रेति पूर्वविप्रतिषेधेन नुट् । ग्रामणीनां ब्राह्मणकुलानाम् । ग्रामण्यां ब्राह्म-
णकुले । ग्रामणिनि ब्राह्मणकुले । शुचिर्ब्राह्मणः । शुचि ब्राह्मणकुलम् ।
शुचिना ब्राह्मणकुलेन १ । शुचये ब्राह्मणकुलाय । शुचिने ब्राह्मणकुलाय ।
शुचेर्ब्राह्मणकुलात् । शुचिनो ब्राह्मणकुलात् । शुचेर्ब्राह्मणकुलस्य । शुचिनो
ब्राह्मणकुलस्य । शुच्योर्ब्राह्मणकुलयोः । शुचिनोर्ब्राह्मणकुलयोः । शुचौ ब्राह्मण-
कुले । शुचिनि ब्राह्मणकुले । तृतीयादिष्विति किम् । ग्रामणिनी ब्राह्मण-
कुले । शुचिनी ब्राह्मणकुले । भाषितपुंस्कमिति किम् । त्रपुणे ।, जतुने । इह
कस्मान्न भवति । पीलुवृक्षः पीलु फलं, पीलुने फलायेति । समानायामाकृतौ
यद्भाषितपुंस्कं तुल्ये प्रवृत्तिनिमित्ते तस्य पुंवद्भावः । इह तु वृक्षाकृतिः प्रवृत्ति-
निमित्तं पुंसि शब्दस्य । फलाकृतिर्नपुंसके । तदेतदेवं कथं भवति भाषितपुं-
स्कमिति । भाषितः पुमान्यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कशब्देनोच्यते ।

॥ काशिका ॥ ७ ॥ १ ॥ ६५९
तद्योगादभिधेयमपि यन्नपुंसकं तदपि भाषितपुंस्कम् । तस्य प्रतिपादिकं
यच्छब्दरूपं तदपि भाषितपुंस्कमिति । इक इत्येव । कीलालपा ब्राह्मणः ।
कीलालपं ब्राह्मणकुलम् । कीलालपेन ब्राह्मणकुलेन । अचीत्येव । ग्रामणीभ्यां
ब्राह्मणकुलाभ्याम् ॥
अस्थिदधिसक्थ्यक्ष्णामनडुदात्तः ॥ ७५ ॥
अस्थि दधि सक्थि अक्षि इत्येतेषां नपुंसकानां तृतीयादिष्वजादिषु
विभक्तिषु परतो ऽनङित्ययमादेशो भवति, स चोदात्तो भवति । अस्था ।
अस्थ्ने । दध्ना । दध्ने । सक्थ्ना । सक्थ्ने । अक्ष्णा । अक्ष्णे । अस्थ्यादय चानु-
दात्तास्तेषामनङादेशः स्थानिवद्भावादनुदात्तः स्यादित्युदात्तवचनम् । तत्र भसं-
ज्ञायामल्लोपे कृते उदात्तनिवृत्तिस्वरेण विभक्तिरुदात्ता भवति ॥ इतरस्यादि-
भिर्नपुंसकैर्नपुंसकस्याप्यङ्गस्य तदन्तग्रहणमिष्यते ॥ प्रियास्था ब्राह्मणेन ।
प्रियदध्ना * । तृतीयादिष्विति किम् । अस्थिनी । दधिनी । अचीत्येव ।
अस्थिभ्याम् । दधिभ्याम् ॥
छन्दस्यपि दृश्यते ॥ ७६ ॥
अस्थिदधिसक्थ्यक्ष्णामनङ् छन्दस्यपि दृश्यते । यत्र विहितस्ततोऽन्य-
त्रापि दृश्यते । अचीत्युक्तमनजादावपि दृश्यते । इन्द्रो दधीचो अस्थभिः ।
भद्रं पश्येमाक्षभिः । तृतीयादिष्वित्युक्तमतृतीयाविषु दृश्यते । अस्थ्यान्युत्कृत्य
जुहोति । विभक्तावित्युक्तमविभक्तावपि दृश्यते । अवद्यव्रता लाहुडेन । अस्थ-
न्वन्तं यदनस्था बिभर्ति ॥
ई च द्विवचने ॥ ७७ ॥
द्विवचने परतश्छन्दसि विषये ऽस्थ्यादीनामीकारादेशो भवति, स
चोदात्तः । अक्षी ते इन्द्रपिङ्गले कपोतेव । अक्षीभ्यां ते नासिकाभ्याम् । अती
रत्यत्र नुम्परत्वादीकारेण बाध्यते । तत्र कृते सकृद्गतौ विप्रतिषेधे यद्वाधितं
तद्बाधितमेवेति पुनर्नुम्न क्रियते ॥
नाभ्यस्ताच्छतुः ॥ ७८ ॥
नाभ्यस्तादङ्गादुत्तरस्य शतुर्नुम्न भवति । ददत् । ददतौ । ददतः । दधत् ।
दधतौ । दधतः । जक्षत् । जक्षतौ । जक्षतः । जाग्रत् । जाग्रतौ । जाग्रतः ।
शतुरनन्तर ईकारो न विहित इति व्यवहितस्यापि नुमः प्रतिषेधो विज्ञायते ॥
वा नपुंसकस्य ॥ ७९ ॥

  • प्रियास्थ्ये । प्रियदध्न्ये । प्रियसक्थ्ना । प्रियसक्थ्ने । प्रियाक्ष्णा । प्रियाक्ष्णे । इत्यनुदात्त-
    स्वरूपविकाशश्चैतस्मिन् पुस्तके ।

६६० ॥ काशिका ॥ ७ ॥ १ ॥
अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस्तदन्तस्य नपुंसकस्य वा नुमागमो
भवति । ददति ददन्ति कुलानि । दधति दधन्ति कुलानि । जक्षति जक्षन्ति
कुलानि । जाग्रति जाग्रन्ति कुलानि ॥
आच्छीनद्योर्नुम् ॥ ८० ॥
अवर्णान्तादङ्गादुत्तरस्य शतुर्वा नुमागमो भवति शीनद्योः परतः । तुदती
कुले । तुदन्ती कुले । तुदन्ती ब्राह्मणी । तुदती ब्राह्मणी । याती कुले ।
यान्ती कुले । याती ब्राह्मणी । यान्ती ब्राह्मणी । करिष्यती कुले । करिष्यन्ती
कुले । करिष्यती ब्राह्मणी । करिष्यन्ती ब्राह्मणी । अत्रान्तरङ्गत्वादेकादेशे
कृते व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति न युज्यते वक्तुम् । उभयत
आश्रये नान्तादिवदित्यान्तादिवद्भावोपि नास्ति । भूतपूर्वगत्याश्रयणे वा ऽदती
धतीत्येवमादिष्वतिप्रसङ्ग इति । अत्र समाधिं के चिदाहुः । शतुरवयवे शतृ-
शब्दो वर्तते । अवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति * । अपरे पुनराहुः ।
आदित्येतेन शीनद्यावेव विशेष्येते । अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः
परतः शत्रन्तस्य नुम्भवतीति । तत्र येन नाववधानं तेन व्यवहितेपि वचन-
प्रामाण्यादिति तकारेणैव व्यवधानमाश्रयिष्यते । आदिरिति किम् । कुर्वती ।
सुन्वती । शीनद्योरिति किम् । तुदताम् । नुदताम् ॥
शप्श्यनोर्नित्यम् ॥ ८१ ॥
शप् श्यन् इत्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति ।
पचन्ती कुले । पचन्ती ब्राह्मणी । दीव्यन्ती कुले । दीव्यन्ती ब्राह्मणी ।
सीव्यन्ती कुले । सीव्यन्ती ब्राह्मणी । नित्यग्रहणं वेत्यस्याधिकारस्य निवृत्त्य-
र्थम् । इहारम्भसामर्थ्यान्नित्यमुत्तरत्र विकल्प एवेत्याशङ्क्येत ॥
सावनडुहः ॥ ८२ ॥
सौ परतो ऽनडुहोऽङ्गस्य नुमागमो भवति । अनड्वान् । हे अनडुन् ।
अत्र के चिदादित्यधिकारादाममोः कृतयोर्नुमं कुर्वन्ति । तेन नुमामामागमो न
बाध्यते, आमम्भ्यां च नुमिति । अपरे तु सत्यपि सामान्यविशेषत्वे आममो-
र्नुमश्च समावेशमिच्छन्ति । न बाध्यबाधकभावं, यथा चिचीषत्यादिषु दीर्घ-
त्वद्विर्वचनयोरिति ॥
दृक्श्ववस्स्वतवसां छन्दसि ॥ ८३ ॥
दृक् श्ववस् स्वतवस् इत्येतेषां सौ परतो नुमागमो भवति छन्दसि
विषये । ईदृङ् । तादृङ् । यादृङ् । सदृङ् । श्ववान् । स्वतवान्वायुरग्ने ॥

  • यथा ग्रामो दग्ध इति ग्रामैकदेशे ग्रामशब्दो निर्दिश्यतइत्यधिकमेकस्मिन्पुस्तके ।

॥ काशिका ॥ ६ ॥ १ ॥ ६६१
दिव औत् ॥ ८४ ॥
दिवित्येतस्य सौ परतो औदित्ययमादेशो भवति । द्यौः । दिविति
प्रातिपदिकमस्ति निरनुबन्धकम् । धातुस्तु सानुबन्धकः स इह न गृह्यते ।
अतद्द्यूः ॥
पथिन्मथ्यृभुक्षामात् ॥ ८५ ॥
पथिन् मथिन् ऋभुक्षिन् इत्येतेषामङ्गानां सौ परतः आकार आदेशो
भवति । पन्थाः । मन्थाः । ऋभुक्षाः । स्थानिन्यनुनासिके ऽपि आकारो ऽनु-
नासिको न भवति । भाव्यमानेन सवर्णानां ग्रहणं न भवतीति * शुद्धो ऽय-
मुच्चार्यते ॥
इतोऽत्सर्वनामस्थाने ॥ ८६ ॥
पन्थादीनामिकारस्य स्थाने आकारादेशो भवति । सर्वनामस्थाने
परतः । पन्थाः । पन्थानौ । पन्थानः । मन्थाः । मन्थानौ । मन्थानः । मन्था-
नम् । मन्थानौ । पन्थानम् । पन्थानौ । ऋभुक्षाः । ऋभुक्षाणौ । ऋभुक्षाणः ।
ऋभुक्षाणम् । ऋभुक्षाणौ । आदिति वर्तमाने पुनरद्ग्रहणं अपूर्वार्थम् । ऋभुक्ष-
णमित्यत्र वा अपूर्वस्य निगमेऽति दीर्घविकल्पः ॥
थोन्थः ॥ ८७ ॥
पथिन्मथोस्थकारस्य स्थाने न्थ इत्ययमादेशो भवति सर्वनामस्थाने
परतः । पन्थाः । पन्थानौ । पन्थानः । मन्थाः । मन्थानौ । मन्थानः ॥
भस्य टेर्लोपः ॥ ८८ ॥
पन्थादीनां भसंज्ञकानां टेर्लोपो भवति । पथः । पथा । पथे । मथः ।
मथा । मथे । ऋभुक्षः । ऋभुक्षा । ऋभुक्षे । सर्वनामस्थानइत्यनुवर्त्तमानमपि
विरोधादिह न संबध्यते ॥
पुंसो ऽसुङ् ॥ ८९ ॥
पुंस इत्येतस्य सर्वनामस्थाने परतो ऽसुङित्ययमादेशो भवति । पुमान् ।
पुमांसौ । पुमांसः † । इह परमपुमानिति प्रागेव विभक्त्युत्पत्तेः समासान्तोदात्त-
त्वमुत्पन्नायां विभक्तौ असुङित्यनिष्टः स्वरः प्राप्नोति । तदर्थमसमुद्युपदेशिवद्वचनं
कर्तव्यम् । तेन परमपुमानित्यन्तोदात्तो भवति । पुमानित्ययं पुनराद्युदात्त एव ॥
गोतो णित् ॥ ९० ॥

  • भाव्यमानो ऽण् सवर्णान्न गृह्णातीति पा० २ ।
    † सर्वनामस्थान इत्येव । पुंसः पश्येत्यधिकमेकस्मिन्पुस्तके ।

इष्यते ॥ हे उशनन् ॥

Line 25:
न ङिसंबुद्ध्योरिति नलोपप्रतिषेधोऽपि पक्षे दृश्यते ॥ हे उशन । तथा चोक्तम् ।
Wait, look at "पक्षे दृश्यते":
Line 25 has: "पक्षेदृष्यते" or "पक्षे दृश्यते"?
There's "पक्षेदृश्यते" (or "पक्षे दृश्यते"). Let's write "पक्ष दृश्यते" / "पक्षेदृश्यते". It looks like "पक्षेदृष्यते" (ष or श). In old prints, श and ष are sometimes interchangeable or look similar. "पक्षे दृश्यते" is the correct Sanskrit and very close.

Line 26:
संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।

Line 27:
माध्यन्दिनिर्वैष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥

Line 28:
इति । तपरकरणमसन्देहार्थम् ॥

Line 29:
तृज्वत्क्रोष्टुः ॥ ९५ ॥

Line 30:
क्रोष्टुशब्दस्तुन्प्रत्ययान्तः संज्ञाशब्दः सर्वनामस्थाने ऽसंबुद्धौ परतः

Line 31:
तृज्वद्भवति । तृजन्तस्य यद्रूपं तदस्य भवतीत्यर्थ

॥ काशिका ॥ ७ । १ ॥ ६६३

शस्तेश्च क्रोष्टुरेव तृजन्तस्य यद्रूपं तदतिदिश्यते । तच्च क्रोष्टु इत्येतदन्तो-
दात्तम् । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । सर्वनामस्था-
नइत्येव । क्रोष्टून् । असंबुद्धावित्येव । हे क्रोष्टो ॥
स्त्रियां च ॥ ९६ ॥
असर्वनामस्थानार्थमारम्भः । स्त्रियां च क्रोष्टुशब्दस्य तृज्वद्भवति । क्रोष्ट्री ।
क्रोष्ट्रीभ्याम् । क्रोष्ट्रीभिः । क्रोष्टुशब्दं के चिद्गौरादिषु पठन्ति । ते ङीषि प्रत्यये
तृज्वद्भावं कुर्वन्ति । तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतः पञ्चक्रोष्ट्रीभीरथैरिति स्त्रीश-
ब्दस्य * लुकि कृते न सिद्ध्यति । तत्र प्रतिविधेयम् । ये तु गौरादिषु न पठन्ति ।
तेषां स्त्रियामित्यर्थनिर्देशः, स्त्रियां वर्त्तमानः क्रोष्टुशब्दः तृज्वद्भवति । कृते ऽति-
देशे ऋन्नेभ्यो ङीबिति ङीप्प्रत्ययः । तत्रोदात्तयणो हल्पूर्वादित्यन्तोदात्त एव
क्रोष्ट्रीशब्दो भवति ॥
विभाषा तृतीयादिष्वचि ॥ ९७ ॥
तृतीयादिषु विभक्तिष्वजादिषु क्रोष्टुर्विभाषा तृज्वद्भवति । क्रोष्ट्रा ।
क्रोष्टुना । क्रोष्ट्रे । क्रोष्टवे । क्रोष्टुः । क्रोष्टोः । क्रोष्टुरि । क्रोष्टौ । क्रोष्ट्रोः । क्रोष्ट्वोः ।
तृतीयादिष्विति किम् । क्रोष्टून् । अचीति किम् । क्रोष्टुभ्याम् । क्रोष्टुभिः ॥
तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम्नुटौ भवतः ॥ * ॥ प्रियक्रोष्टवे ऽरण्याय ।
प्रियक्रोष्टुने वृषलाय । नुट् । क्रोष्टूनाम् ॥
चतुरनडुहोरामुदात्तः ॥ ९८ ॥
चतुर् अनडुह् इत्येतयोः सर्वनामस्थाने परत आमागमो भवति, स
चोदात्तः । चत्वारः । अनड्वान् । अनड्वाहौ । अनड्वाहः । अनड्वाहम् ॥ तदन्त-
विधिरत्रेष्यते ॥ प्रियचत्वाः । प्रियचत्वारौ । प्रियचत्वारः । प्रियानड्वान् । प्रिया-
नड्वाहौ । प्रियानड्वाहः ॥ अनडुहः स्त्रियां वेति वक्तव्यम् ॥ * ॥ अनडुही ।
अनड्वाही । गौरादिपाठात्सिद्धम् ॥
अम्संबुद्धौ ॥ ९९ ॥
संबुद्धौ परतश्चतुरनडुहोरामागमो भवति । पूर्वस्यायमपवादः । हे प्रिय-
चत्वः । हे प्रियानड्वन् ॥
ऋत इद्धातोः ॥ १०० ॥
ऋकारान्तस्य धातोरङ्गस्य इकारादेशो भवति । किरति । गिरति ।
आस्तीर्णम् । विस्तीर्णम् । धातोरिति किम् । पितॄणाम् । मातृणाम् ॥ साव-

  • स्त्रीप्रत्ययस्येति पा० २ ।

६६४ ॥ काशिका ॥ ७ ॥ २ ॥
ऋतिकस्याप्यत्र ग्रहणमिष्यते ॥ चिकीर्षतीत्यत्रापि यथा स्यादिति धातुग्रहणं
क्रियते * ॥
उपधायाश्च ॥ १०१ ॥
उपधायाश्च ऋकारस्य इकारादेशो भवति । कीर्त्तयति । कीर्त्तयतः ।
कीर्त्तयन्ति ॥
उदोष्ठ्यपूर्वस्य ॥ १०२ ॥
ओष्ठ्यः पूर्वो यस्माद् ऋकारादसावोष्ठ्यपूर्वस्तदन्तस्य धातोरङ्गस्य उका-
रादेशो भवति । पूर्तः पिण्डः । पुपूर्षति । मुमूर्षति । दन्त्योष्ठ्यपूर्वाच्चोष्ठ्यपूर्वो
भवतीत्यत्रापि भवति । वुवूर्षति ऋत्विजम् । प्रावुवूर्षति कम्बलम् । ओष्ठ्योऽत्र
प्रत्यासत्तेरङ्गावयव एव गृह्यते तेन ऋ गतावित्यस्य संपूर्वस्य समीर्षमिति
भवति † ॥ इत्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन ॥ * ॥ आस्तरणम् ।
आस्तारकः । निपरणम् । निपारकः । निगरणम् । निगारकः ॥
बहुलं छन्दसि ॥ १०३ ॥
छन्दसि विषये ऋकारान्तस्य धातोरङ्गस्य बहुलमुकारादेशो भवति ।
ओष्ठ्यपूर्वस्येत्युक्तमनोष्ठ्यपूर्वस्यापि भवति । मित्रावरुणौ ततुरिः । दूरे ह्यध्वा
जगुरिः । ओष्ठ्यपूर्वस्यापि न भवति । पप्रितमम् । क्व चिद् भवति पपुरिः ॥
इति काशिकायां वृत्तौ सप्तमाध्यायस्य प्रथमः पादः ॥
॥ अथ सप्तमाध्यायस्य द्वितीयः पादः ॥
सिचि वृद्धिः परस्मैपदेषु ॥ १ ॥
परस्मैपदे परे सिचि परत इगन्तस्या