सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 651, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 651

तातङि ङित्वं संक्रमकृत्स्यादन्त्यविधिश्चेतन्न तथा न ।
हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकमाह ॥
तातङे। ङित्वसामर्थ्यान्नायमन्त्यविधिः स्मृतः ।
न तद्वदनङादीनां तेन तेऽन्त्यविकारजाः ॥
विदेः शतुर्वसुः ॥ ३६ ॥
विद ज्ञानेत्येतस्माद्धातोहत्तरस्य शतुर्वसुरादेशो भवति । विद्वान् ।
विद्वांसौ । विद्वांसः । स्थानिवद्भावादुगित्कार्ये सिद्धे वसोर्हकारकरणं वसोः
संप्रसारणमित्यत्र क्वसोरपि सामान्यग्रहणार्थम् । एकानुबन्धकग्रहणे न द्व्यनुब-
न्धकस्येत्येतदपि न भवति । तथा सत्युकारकरणमनर्थकं स्यात् । अन्यतरस्यां-
ग्रहणं के चिदनुवर्त्तयन्ति । विदन् । विदन्तौ । विदन्तः ॥
समासे ऽनञ्पूर्वे क्त्वो ल्यप् ॥ ३७ ॥
समासे ऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यबित्ययमादेशो भवति । प्रकृत्य ।
प्रहृत्य । पार्श्वतःकृत्य । नानाकृत्य । द्विधाकृत्य । समासइति किम् । कृत्वा ।
हृत्वा । अनञ्पूर्वइति किम् । अकृत्वा । अहृत्वा । परमकृत्वा । उत्तमकृत्वा ।
अनञिति हि नञा ऽन्यदनञ् नञ्सदृशमव्ययं परिगृह्यते । तेन नञ् अनव्ययं
चानञ् न भवति । स्नात्वाकालकादिषु मयूरव्यंसकादिषु निपातनाल्ल्यबादेशो
न भवति । अथ वा समासइति निर्धारणे सप्तमी । तेन क्त्वान्तः समास एव
परिगृह्यते । स च येन विधिस्तदन्तस्येत्यनेन तदन्तविधिना, न तु कृद्ग्रहणे
गतिकारकपूर्वस्यापीति । तथा चानञ्पूर्वइत्युच्यते । गतिकारकपूर्वस्यैव तु ग्रहणे
सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति । नञ्न गतिर्न च कारकमिति । प्रधाय प्रस्थाये-
त्यादिषु ह्विप्रभृतीनान्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधतएवेति ज्ञापितम् ॥
क्त्वापि छन्दसि ॥ ३८ ॥
समासे ऽनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययमादेशो भवति अपिशब्दा-
ल्यबपि भवति छन्दसि विषये । कृष्णां वासो यजमानं परिधापयित्वा । प्रत्य-
ञ्चमर्कं प्रत्यर्थयित्वा । ल्यबपि भवति । उद्धृत्य जुहोति । वाछन्दसीति नोक्तं
सर्वोपाधिव्यभिचारार्थम् । तेनासमासे ल्यब्भवति । अर्च्य तान् देवान् गतः ।
छन्दोधिकार आञ्जसेरसुगिति यावत् * ॥
सुपां सुलुकपूर्वसवर्णाच्छेयाडाड्यायाजालः ॥ ३९ ॥
छन्दसि विषये सुपां स्थाने सु लुक् पूर्वसवर्ण आ आत् शे या डा ड्या

  • वा छन्दसीत्यारभ्य यावदित्यन्तः पाठः कुत्र चित्पुस्तके ऽस्ति ।