काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 661, कुल 828 में से
संदर्भ में पढ़ें६६० ॥ काशिका ॥ ७ ॥ १ ॥
अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस्तदन्तस्य नपुंसकस्य वा नुमागमो
भवति । ददति ददन्ति कुलानि । दधति दधन्ति कुलानि । जक्षति जक्षन्ति
कुलानि । जाग्रति जाग्रन्ति कुलानि ॥
आच्छीनद्योर्नुम् ॥ ८० ॥
अवर्णान्तादङ्गादुत्तरस्य शतुर्वा नुमागमो भवति शीनद्योः परतः । तुदती
कुले । तुदन्ती कुले । तुदन्ती ब्राह्मणी । तुदती ब्राह्मणी । याती कुले ।
यान्ती कुले । याती ब्राह्मणी । यान्ती ब्राह्मणी । करिष्यती कुले । करिष्यन्ती
कुले । करिष्यती ब्राह्मणी । करिष्यन्ती ब्राह्मणी । अत्रान्तरङ्गत्वादेकादेशे
कृते व्यपवर्गाभावादवर्णान्तादङ्गादुत्तरस्य शतुरिति न युज्यते वक्तुम् । उभयत
आश्रये नान्तादिवदित्यान्तादिवद्भावोपि नास्ति । भूतपूर्वगत्याश्रयणे वा ऽदती
धतीत्येवमादिष्वतिप्रसङ्ग इति । अत्र समाधिं के चिदाहुः । शतुरवयवे शतृ-
शब्दो वर्तते । अवर्णान्तादङ्गादुत्तरो यः शत्रवयव इति * । अपरे पुनराहुः ।
आदित्येतेन शीनद्यावेव विशेष्येते । अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः
परतः शत्रन्तस्य नुम्भवतीति । तत्र येन नाववधानं तेन व्यवहितेपि वचन-
प्रामाण्यादिति तकारेणैव व्यवधानमाश्रयिष्यते । आदिरिति किम् । कुर्वती ।
सुन्वती । शीनद्योरिति किम् । तुदताम् । नुदताम् ॥
शप्श्यनोर्नित्यम् ॥ ८१ ॥
शप् श्यन् इत्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति ।
पचन्ती कुले । पचन्ती ब्राह्मणी । दीव्यन्ती कुले । दीव्यन्ती ब्राह्मणी ।
सीव्यन्ती कुले । सीव्यन्ती ब्राह्मणी । नित्यग्रहणं वेत्यस्याधिकारस्य निवृत्त्य-
र्थम् । इहारम्भसामर्थ्यान्नित्यमुत्तरत्र विकल्प एवेत्याशङ्क्येत ॥
सावनडुहः ॥ ८२ ॥
सौ परतो ऽनडुहोऽङ्गस्य नुमागमो भवति । अनड्वान् । हे अनडुन् ।
अत्र के चिदादित्यधिकारादाममोः कृतयोर्नुमं कुर्वन्ति । तेन नुमामामागमो न
बाध्यते, आमम्भ्यां च नुमिति । अपरे तु सत्यपि सामान्यविशेषत्वे आममो-
र्नुमश्च समावेशमिच्छन्ति । न बाध्यबाधकभावं, यथा चिचीषत्यादिषु दीर्घ-
त्वद्विर्वचनयोरिति ॥
दृक्श्ववस्स्वतवसां छन्दसि ॥ ८३ ॥
दृक् श्ववस् स्वतवस् इत्येतेषां सौ परतो नुमागमो भवति छन्दसि
विषये । ईदृङ् । तादृङ् । यादृङ् । सदृङ् । श्ववान् । स्वतवान्वायुरग्ने ॥
- यथा ग्रामो दग्ध इति ग्रामैकदेशे ग्रामशब्दो निर्दिश्यतइत्यधिकमेकस्मिन्पुस्तके ।