काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 650, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ७ । १ ॥ ६४६
भ्यसो भ्यम् ॥ ३० ॥
युष्मदस्मद्भ्यामुत्तरस्य भ्यसो भ्यमित्ययमादेशो भवति । युष्मभ्यं दीयते ।
अस्मभ्यं दीयते । भ्यमादेशे कृते शेषे लोपे च बहुवचने झल्येतीत्येत्वं प्राप्नोति ।
तदङ्गवृत्ते पुनर्वृत्तावविधिनिष्ठितस्येति न भवति । के चित्पुनरभ्यमादेशमेत्व-
निवृत्त्यर्थं कुर्वन्ति । येषां तु शेषे लोपष्टिलोपास्तेषामभ्यमादेश एव । उदात्तनि-
वृत्तिस्वरश्चादेरेव भवति ॥
पञ्चम्या अत् ॥ ३१ ॥
पञ्चम्या भ्यसो युष्मदस्मद्भ्यामुत्तरस्य अदित्ययमादेशो भवति । युष्मद्ग-
च्छन्ति । अस्मद्गच्छन्ति ॥
एकवचनस्य च ॥ ३२ ॥
पञ्चम्या एकवचनस्य युष्मदस्मद्भ्यामुत्तरस्यादित्ययमादेशो भवति । त्वद्ग-
च्छन्ति । मद्गच्छन्ति ॥
साम आकम् ॥ ३३ ॥
साम इति षष्ठीबहुवचनमागतसुट्कं गृह्यते । तस्य युष्मदस्मद्भ्यामुत्तर-
स्याकमित्ययमादेशो भवति । युष्माकम् । अस्माकम् । अथ किमर्थमागतसुट्को
गृह्यते । नह्यादेशविधानकाले सुड्विद्यते । तस्यैव तु भाविनः सुटो निवृत्त्य-
र्थम् । आदेशे कृते हि शेषे लोपे युष्मदस्मदोरकारान्तत्वात्सुट् प्राप्नोति । स
स्थानिन्यन्तर्भूतत्वान्निवर्त्तते । दीर्घाच्चारणं सवर्णदीर्घार्थम् । अकमि तु सति
ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति । तत्सामर्थ्यमेत्वं प्रति
भविष्यतीति । अकारकरणमेत्वनिवृत्त्यर्थमिति । अतो गुणे पररूपत्वं स्यात् ॥
आत औ णलः ॥ ३४ ॥
आकारान्तादङ्गादुत्तरस्य णल औकारादेशो भवति । पपौ । तस्थौ ।
जग्लौ । मम्लौ । अत्रौत्वमेकादेशः स्थानिवद्भावो द्विवचनमित्यनेन क्रमेण कार्याणि
क्रियन्ते । एकादेशादनवकाशत्वादौत्वं द्विवचनादपि परत्वादेकादेश इति ॥
तुह्योस्तातङाशिष्यन्यतरस्याम् ॥ ३५ ॥
तु हि इत्येतयोराशिषि विषये तातङादेशो भवत्यन्यतरस्याम् । जीव-
ताद्भवान् । जीवतात्त्वम् । जीवतु भवान् । जीव त्वम् । ङित्करणं गुणवृद्धि-
प्रतिषेधार्थमिति सर्वादेशस्तातङ् भवति । ङित्त्वाच्चास्य स्थानिवद्भावाद्यापित्त्वं
प्राप्नोति तन्निवर्त्तते, हिञ्च पिच्च भवति । तेन ब्रुव ईडिडिति ब्रूताद्भवानीतीङ्
न भवति । आशिषीति किम् । ग्रामं गच्छतु भवान् । गच्छ त्वम् ।