काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 653, कुल 828 में से
संदर्भ में पढ़ें६५२ ॥ काशिका ॥ ७ । १ ॥
ध्वमो ध्वात् ॥ ४२ ॥
छन्दसि विषये ध्वमो ध्वादित्ययमादेशो भवति । आन्तरेणोष्माणं
वारयध्वात् । वारयध्वमिति प्राप्ते ॥
यजध्वैनमिति च ॥ ४३ ॥
यजध्वमित्येतस्य एनमित्येतस्मिन्परतो मकारलोपो निपात्यते वकारस्य
च यकारश्छन्दसि विषये । यजध्वैनं प्रियमेधाः । यजध्वमेनमिति प्राप्ते ॥
तस्य तात् ॥ ४४ ॥
तशब्दस्य लोट्मध्यमपुरुषबहुवचनस्य स्थाने तादित्ययमादेशो भवति ।
गात्रंगात्रमस्या नूनं शृणुतात् । शृणुतेति प्राप्ते । ऊरुध्ये गोष्ठं पार्थिवं खन-
तात् । खनतेति प्राप्ते । अस्मरक्तः संसृजतात् । संसृजतेति प्राप्ते । सूर्ये चक्षु-
र्गमयतात् । गमयतेति प्राप्ते ॥
तप्तनप्तनथनाश्च ॥ ४५ ॥
तस्येति वर्तते । छन्दसि विषये तस्य स्थाने तप् तनप् तन थन इत्येते
आदेशा भवन्ति । तप् । शृणोत ग्रावाणः । शृणुतेति प्राप्ते । सुनोत । सुनुतेति
प्राप्ते । तनप् । संघरत्रा दधातन । धत्तेति प्राप्ते । तन । जुजुष्टन । जुषतेति प्राप्ते ।
छान्दसत्वात् श्लुः । थन । यदिष्ठन । यदिच्छथेति प्राप्ते । पित्करणमङित्त्वार्थम् ॥
इदन्तो मसि ॥ ४६ ॥
छन्दसि विषये मसित्ययं शब्द इकारान्तो भवति । मसः सकारान्तस्य
इकारागमो भवति स च तस्यान्तो भवति, तद्ग्रहणेन एतद्गृह्यतइत्यर्थः । पुनस्त्वां
दीपयामसि । दीपयाम इति प्राप्ते । शलभं भञ्जयामसि । भञ्जयाम इति
प्राप्ते । त्वयि रात्रिं वासयामसि । वासयाम इति प्राप्ते ॥
क्त्वो यक् ॥ ४७ ॥
क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये । दत्त्वाय सविता
धियः । दत्त्वेति प्राप्ते । क्त्वापिच्छन्दसीत्यस्यानन्तरमिदं कस्मान्नोच्यते ।
समासइति तत्रानुवर्त्तते ॥
इष्ट्वीनमिति च ॥ ४८ ॥
इष्ट्वीनमित्ययं शब्दो निपात्यते छन्दसि विषये । यजेः क्त्वाप्रत्ययान्तस्य
ईनमादेशोऽन्त्यस्य निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा देवानिति प्राप्ते ॥ पीत्वी-
नमित्यपीष्यते ॥ चकारस्यानुक्तसमुच्चयार्थत्वात्सिद्धम् ॥
स्नात्व्यादयश्च ॥ ४९ ॥