सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 656, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 656

॥ काशिका ॥ ७ ॥ १ ॥ ६५५
प्यसिद्धवदत्राभादिति टिलोपस्यासिद्धत्वाच्चलोपो न भवति इह कस्मान्न
भवति । भेत्ता छेत्तेति । इरितां समुदायस्येत्संज्ञेतीदित्वं नास्ति । अवयवशो
पीत्संज्ञायां सत्यां गोः पादान्तदन्तान्नहणमनुवर्त्तयितव्यम् । तेनान्तेदितो
धातवो गृह्यन्ते ॥
शे मुचादीनाम् ॥ ५९ ॥
शे प्रत्यये परतो मुचादीनां नुमागमो भवति । मुञ्च् । मुञ्चति । लुप् ।
लुम्पति । विद्ऌ । विन्दति । लिपि । लिम्पति । सिच् । सिञ्चति । कृतीँ ।
कृन्तति । खिद । खिन्दति । पिश । पिंशति । शे इति किम् । मोक्ता । मोक्तुम् ।
मोक्तव्यम् । मुचादीनामिति किम् । तुदति । नुदति ॥ शे तृम्फादीनामुप-
संख्यानं कर्तव्यम् ॥ * ॥ के पुनस्तृम्फादयः । तृफ तृम्फ तृप्तौ । दृफ दृम्फ
उत्क्लेशे । गुफ गुम्फ ग्रन्थे । उभ उम्भ पूरणे । शुभ शुम्भ शोभार्थे, इत्यत्र ये
सानुबन्धास्तृम्फादय,स्तेषामनिदितां हल उपधायाः क्ङितीत्यनुनासिकलोपे कृते
नुम्विधीयते । स च विधानसामर्थ्यान्न लुप्यते । तृम्फति । दृम्फति । गुम्फति ।
उम्भति । शुम्भति । ये तु निरनुबन्धास्तेषां तृफति दृफति गुफति उभति
शुभतीत्येवं भवति ॥
मस्जिनशोर्झलि ॥ ६० ॥
मस्जि नशि इत्येतयोर्द्वयोर्झलादौ प्रत्यये नुमागमो भवति । मङ्क्ता ।
मङ्क्तुम् । मङ्क्तव्यम् । नंष्टा । नंष्टुम् । नंष्टव्यम् । झलीति किम् । मज्जनम् ।
नशिता ॥ मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गादिलोपार्थम् ॥ मग्नः । मग्नवान् ॥
रधिजभोरचि ॥ ६१ ॥
रधि जभि इत्येतयोरजादौ प्रत्यये नुमागमो भवति । रन्धयति ।
रन्धकः । साधुरन्थी । रन्धो वर्त्तते । जम्भयति । जम्भकः । साधुजम्भी । जम्भं-
जम्भम् । जम्भो वर्त्तते । परापि सती वृद्धिर्नुमा बाध्यते नित्यत्वात् । अचीति
किम् । रद्धा । जब्धम् ॥
नेड्यलिटि रधेः ॥ ६२ ॥
इडादावलिटि प्रत्यये परे रधेर्नुमागमो न भवति । रधिता । रधितुम् ।
रधितव्यम् । इटीति किम् । रन्धनम् । रन्ध्रः । अलिटीति किम् । ररन्धिथ ।
ररन्धिम । नुम्रि कृते संयोगान्तत्त्वादसंयोगाल्लिट्किदिति कित्त्वं नास्तीति
नलोपो न भवति । अथ क्वसौ कथं भवितव्यं, रेधिवानिति । कथ,मेत्वाभ्या-
सलोपयोः कृतयोरिडागमः क्रियते ततो नुमागमस्तस्यौपदेशिककित्त्वाश्रयो
लोपः । अथ इटि, लिटीत्येवं नियमः कस्मान्न क्रियते लिट्येवेटि नान्यत्रेति ।