काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 649, कुल 828 में से
संदर्भ में पढ़ें६४८ ॥ काशिका ॥ ७ ॥ १ ॥
आकारान्तान्नपुंसकादुत्तरयोः स्वमोरमित्ययमादेशो भवति । कुण्डं ति-
ष्ठति । कुण्डं पश्य । वनम् । पीठम् । मकारः कस्मान्न क्रियते । दीर्घत्वं प्राप्नोति ॥
अड् डतरादिभ्यः पञ्चभ्यः ॥ २५ ॥
डतरादिभ्यः परयोः स्वमोरड्ड् इत्ययमादेशो भवति । कतरत्तिष्ठति ।
कतरत्पश्य । कतमत्तिष्ठति । कतमत्पश्य । इतरत् । अन्यतरत् । अन्यत् । पञ्चभ्य
इति किम् । नेमं तिष्ठति । नेमं पश्य । डित्करणं किम् । कतरत्तिष्ठतीत्यत्र पूर्वसव-
र्णदीर्घो मा भूत् । इह तु कतरत्पश्येति स्थानिवद्भावादमि पूर्वरूपेणापि सिद्ध्यति ।
एवं तर्हि तकारादेश एव कस्मान्न विधीयते, हे कतरदिति संबुद्धेर्लोपो मा भूत् ।
अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु ।
अड्ङ्गित्त्वादडुतरादीनां न लोपो नापि दीर्घता ॥
नेतराच्छन्दसि ॥ २६ ॥
इतरशब्दादुत्तरयोः स्वमोश्छन्दसि विषये अड्डादेशो न भवति । इत-
रमिरमण्डमजायत । वाचेन्नमितरम् । छन्दसीति किम् । इतरत्काष्ठम् । इत-
रत्कुड्यम् । अतोमित्यस्मादनन्तरमितराच्छन्दसीति वक्तव्यं नेतराच्छन्दसीति
वचनं योगविभागार्थम् ॥ एकतरात्तु सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते ॥
एकतरं तिष्ठति । एकतरं पश्येति ॥
युष्मदस्मद्भ्यां ङसो ऽश् ॥ २७ ॥
युष्मदस्मदित्येताभ्यामुत्तरस्य ङसो ऽशित्ययमादेशो भवति । तव स्वम् ।
मम स्वम् । शित्करणं सर्वादेशार्थम् । अन्यथा ह्यादेशव्यपदेशप्रक्लृप्त्यर्थमादेरेव
स्यात् ततश्च योचीत्येव स्यात् ॥
ङे प्रथमयोरम् ॥ २८ ॥
ङे इत्यविभक्तिको निर्देशः । ङे इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथ-
माद्वितीययोर्युष्मदस्मद्भ्यामुत्तरयोरमित्ययमादेशो भवति । तुभ्यं दीयते । मह्यं
दीयते । प्रथमयोः । त्वम् । अहम् । युवाम् । आवाम् । यूयम् । वयम् ।
त्वाम् । माम् । युषाम् । आवाम् ॥
शसो न ॥ २९ ॥
युष्मदस्मद्भ्यामुत्तरस्य शसो नकारादेशो भवति । युष्मान् ब्राह्मणान् ।
अस्मान् ब्राह्मणान् । युष्मान् ब्राह्मणीः । अस्मान् ब्राह्मणीः । युष्मान् कुलानि ।
अस्मान्कुलानि * ॥
- तस्माच्छसो नः पुंसीति सिद्धे स्त्रीनपुंसकार्थं वचनम् । अलिङ्गे वा युष्मदस्मदी ।
इत्यधिकं पुस्तकान्तरे ।