काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
११० ॥ काशिका ॥ २ ॥ ३ ॥
वक्तव्यम् ॥ * ॥ मूत्राय कल्पते यवागूः । उच्चाराय कल्पते यवागूः । कृपीत्य-
र्थेनिर्देशः । मूत्राय संपद्यते यवागूः । मूत्राय जायते यवागूः ॥ उत्पातेन
ज्ञाप्यमाने चतुर्थी वक्तव्या ॥ * ॥
वाताय कपिला विद्युदातपायातिलोहिनी ।
पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥
हितयोगे चतुर्थी वक्तव्या ॥ * ॥ गोभ्यो हितम् । अरोचकिने हितम् ॥
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ १४ ॥
क्रिया क्रियार्था उपपदं यस्य सो ऽयं क्रियार्थोपपदः । तुमुन्ण्वुलौ
क्रियायां क्रियार्थायामित्येष विषयो लक्ष्यते । क्रियार्थोपपदस्य च स्थानिनो
ऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर्भवति । द्वितीयापवादो
योगः । एधेभ्यो व्रजति । पुष्पेभ्यो व्रजति । क्रियार्थोपपदस्येति किम् । प्रविश्य
पिण्डीम् । प्रविशतर्पणम् । भक्तिरत्र स्थानी न तु क्रियार्थोपपदः । कर्मणीति
किम् । एधेभ्यो व्रजति शकटेन । स्थानिन इति किम् । एधानाहर्तुं व्रजति ॥
तुमर्थाच्च भाववचनात् ॥ १५ ॥
तुमुना समानार्थस्तुमर्थः । तुमर्थभाववचनप्रत्ययान्तात् प्रातिपदिकाच्च-
तुर्थी विभक्तिर्भवति । भाववचनाश्चेति वक्ष्यति, तस्येदं ग्रहणम् । पाकाय
व्रजति । त्यागाय व्रजति । भूतये व्रजति । संपत्तये व्रजति । तुमर्थादिति
किम् । पाकः, त्यागो, रागः । भाववचनादिति किम् । कारको व्रजति ॥
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ॥ १६ ॥
नमः स्वस्ति स्वाहा स्वधा ऽलं वषट् इत्येतैर्योगे चतुर्थी विभक्तिर्भव-
ति । नमो देवेभ्यः । स्वस्ति प्रजाभ्यः । स्वाहा ऽग्नये । स्वधा पितृभ्यः ।
अलं मल्लॊ मल्लाय । अलमिति पर्याप्त्यर्थग्रहणम् । प्रभुर्मल्लो मल्लाय । शक्तो
मल्लॊ मल्लाय । वषडग्नये । वषडिन्द्राय । चकारः पुनरस्यैव समुच्चयार्थः ।
तेनाशीर्विवक्षायामपि षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो
भूयात् । स्वस्ति ब्राह्मणेभ्यः ॥
मन्यकर्मण्यनादरे विभाषा ऽप्राणिषु ॥ १७ ॥
मन्यतेः कर्मणि, मन्यकर्मणि । मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी
विभक्तिर्भवति अनादरे गम्यमाने । अनादरस्तिरस्कारः । न त्वा तृणं मन्ये ।
न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये । न त्वा बुसाय मन्ये । मन्यातिग्रहणं
किम् । न त्वा तृणं चिन्तयामि । विकरणनिर्देशः किमर्थः । न त्वा तृणं
मन्वे । अनादरेति किम् ।
॥ काशिका ॥ २ ॥ ३ ॥ १११
अश्मानं दृषदं मन्ये मन्ये काष्ठमुलूखलम् ।
वन्ध्यायास्तं सुतं मन्ये यस्य माता न पश्यति ॥
अप्राणिष्विति किम् । न त्वा शृगालं मन्ये ॥ यदेतदप्राणिष्विति तद-
न्नावादिष्विति वक्तव्यम् ॥ * ॥ व्यवस्थितविभाषा च ज्ञेया । न त्वा नावं
मन्ये । नावमुत्तीर्णे न नाव्यम् । न त्वा ऽन्नं मन्ये । यावन्न भुक्तं श्राद्धम् । प्राणिषु
तूभयम् । न त्वा काकं मन्ये । न त्वा शृगालं मन्ये । इह चतुर्थी द्वितीया
च भवतः । न त्वा श्वानं मन्ये । न त्वा शुने मन्ये । युष्मदः कस्मान्न भवति
चतुर्थी, एतदपि हि मन्यतेः कर्म, व्यवस्थितविभाषाविज्ञानादेव न भवति ॥
कर्तृकरणयोस्तृतीया ॥ १८ ॥
कर्तरि करणे च कारके तृतीया विभक्तिर्भवति । देवदत्तेन कृतम् । यज्ञद-
त्तेन भुक्तम् । करणे । दात्रेण लुनाति । परशुना छिनत्ति ॥ तृतीयाविधाने प्रकृत्या-
दीनामुपसंख्यानम् ॥ * ॥ प्रकृत्या ऽभिरूपः । प्रकृत्या दर्शनीयः । प्रायेण याज्ञिकः ।
प्रायेण वैयाकरणः । गार्ग्यो ऽस्मि गोत्रेण । समेन धावति । विषमेण धावति ।
द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । सहस्रेण पशून्
क्रीणाति ॥
सहयुक्ते ऽप्रधाने ॥ १९ ॥
सहार्थेन युक्ते ऽप्रधाने तृतीया विभक्तिर्भवति । पुत्रेण सहागतः पिता ।
पुत्रेण सह गोमान् । पितुरत्र क्रियादिसंबन्धः शब्देनोच्यते, पुत्रस्य तु प्रतीय-
मान, इति तस्याप्राधान्यम् । सहार्थेन च योगे विधानात्पर्यायप्रयोगेपि भवति ।
पुत्रेण सार्द्धमिति । विनापि सहशब्देन भवति । वृद्धो यूनेति निदर्शनात् ।
अप्रधान इति किम् । शिष्येण सहोपाध्यायस्य गौः ॥
येनाङ्गविकारः ॥ २० ॥
अङ्गशब्दो ऽत्राङ्गसमुदाये शरीरे वर्तते, येनेति च तदवयवो हेतुत्वेन
निर्दिश्यते । येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया विभक्तिर्भ-
वति । अक्षा काणः । पादेन खञ्जः । पाणिना कुण्ठः* । नावयवधर्मेण समु-
दायो व्यपदिश्यते । अङ्गविकार इति किम् । अक्षिकामस्य ॥
इत्थंभूतलक्षणे ॥ २१ ॥
कं चित्प्रकारं प्राप्त इत्थंभूतः, तस्य लक्षणमित्थंभूतलक्षणं, ततस्तृतीया
विभक्तिर्भवति । अपि भवान् कमण्डलुना छात्रमद्राक्षीत् । छात्रेणोपाध्यायम् ।
- कुणिरिति पाठान्तरम् ।
११२ ॥ काशिका ॥ २ ॥ ३ ॥
शिखया परिव्राजकम् । इह न भवति । कमण्डलुपाणिश्च्छात्र इति । लक्षकस्य
समासे ऽन्तर्भूतत्वात् । इत्थंभूत इति किम् । वृक्षं प्रति विद्योतनम्* ॥
संज्ञो ऽन्यतरस्यां कर्मणि ॥ २२ ॥
संपूर्वस्य जानातेः कर्मणि कारके द्वितीयायां प्राप्तायामन्यतरस्यां
तृतीया विभक्तिर्भवति । पित्रा संजानीते । पितरं संजानीते । मात्रा संजा-
नीते । मातरं संजानीते† ॥
हेतौ ॥ २३ ॥
फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते । तद्वाचिनस्तृतीया विभक्ति-
र्भवति । धनेन कुलम् । कन्यया शोकः । विद्यया यशः ॥
अकर्तर्यृणे पञ्चमी ॥ २४ ॥
हेताविति वर्तते । कर्तृवर्जितं यदृणं हेतुस्ततः पञ्चमी विभक्तिर्भवति ।
तृतीयापवादो योगः । शताद्बद्धः । सहस्राद्बद्धः । अकर्तरीति किम् । शतेन
बन्धितः । शतमृणं च भवति, प्रयोजकत्वाच्च कर्तृसंज्ञम् ॥
विभाषा गुणे ऽस्त्रियाम् ॥ २५ ॥
हेताविति वर्तते । गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर्भ-
वति‡ । जाड्याद्बद्धः । जाड्येन बद्धः । पाण्डित्यान् मुक्तः । पाण्डित्येन मुक्तः ।
गुणग्रहणं किम् । धनेन कुलम् । अस्त्रियामिति किम् । बुद्ध्या मुक्तः । प्रज्ञया मुक्तः ॥
षष्ठी हेतुप्रयोगे ॥ २६ ॥
हेतोः प्रयोगो हेतु प्रयोगः । हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी
विभक्तिर्भवति । अन्नस्य हेतोर्वसति ॥
सर्वनाम्नस्तृतीया च ॥ २७ ॥
सर्वनाम्नो हेतुशब्दप्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर्भवति षष्ठी च ।
पूर्वेण षष्ठ्यामेव प्राप्तायामिदमुच्यते । कस्य हेतोर्वसति । केन हेतुना वसति ॥
यस्य हेतोर्वसति । येन हेतुना वसति ॥ निमित्तकारणहेतुषु सर्वासां प्रायदर्श-
नम् ॥ * ॥ किं निमित्तं वसति । केन निमित्तेन वसति । कस्मै निमित्ताय
वसति । कस्मान्निमित्ताद्वसति । कस्य निमित्तस्य वसति । कस्मिन्निमित्ते
वसति । एवं कारणहेत्वोरप्युदाहार्यम् । अर्थग्रहणं चैतत् । पर्यायोपादानं तु
- इत्थंभूत इत्यारभ्य विद्योतनमित्यन्तः पाठो बहुषु पुस्तकेषु न दृश्यते ।
† संपूर्वः किम् । मातरं जानाति । पितरं जानाति । कर्मणीति किम् । पुत्रेण गुणैः
संजानीते पिता । इत्यधिकं क्व चित् ।
‡ तृतीयापवादो ऽयं योग इत्यधिकं कुत्र चित् ।
स्वरूपविधिर्मा विज्ञायीति । तेनेहापि भवति । किं प्रयोजनं वसति । केन
प्रयोजनेन वसति । कस्मै प्रयोजनाय वसति । कस्मात्प्रयोजनाद् वसति ।
कस्य प्रयोजनस्य वसति । कस्मिन् प्रयोजने वसति ॥
अपादाने पञ्चमी ॥ २८ ॥
अपादाने कारके पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति । पर्वताद-
वरोहति । वृकेभ्यो बिभेति । अध्ययनात्पराजयते । पञ्चमीविधाने ल्यब्लोपे
कर्मण्युपसंख्यानम् ॥ * ॥ प्रासादमारुह्य प्रेक्षते, प्रासादात्प्रेक्षते ॥ अधिकरणे
चोपसंख्यानम् ॥ * ॥ आसने उपविश्य प्रेक्षते, आसनात्प्रेक्षते । शयनात्प्रेक्षते ॥
प्रश्नाख्यानयोश्च पञ्चमी वक्तव्या ॥ * ॥ कुतो भवान्, पाटलिपुत्रात् ॥ यत-
श्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्या ॥ * ॥ गवीधुमतः सांकाश्यं चत्वारि
योजनानि । कार्त्तिक्या आग्रहायणी मासे ॥ तद्युक्तात्काले सप्तमी वक्तव्या ॥ * ॥
कार्त्तिक्या आग्रहायणी मासे ॥ अध्वनः प्रथमा सप्तमी च वक्तव्या ॥ * ॥
गवीधुमतः सांकाश्यं चत्वारि योजनानि, चतुर्षु योजनेषु वा ॥
अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ २९ ॥
अन्य आरात् इतर ऋते दिक्शब्द अञ्चूत्तरपद आच् आहि इत्येतैर्योगे
पञ्चमी विभक्तिर्भवति । अन्य इत्यर्थग्रहणम् । तेन पर्यायप्रयोगेपि भवति ।
अन्यो देवदत्तात् । भिन्नो देवदत्तात् । अर्थान्तरं देवदत्तात् । विलक्षणो देवद-
त्तात् । आराच्छब्दो दूरान्तिकार्थे वर्तते । तत्र दूरान्तिकार्थैः षष्ठ्यन्यतरस्या-
मिति प्राप्ते पञ्चमी विधीयते । आराद्देवदत्तात् । आराद्यज्ञदत्तात् । इतर इति
निर्देश्यमानप्रतियोगी पदार्थ उच्यते । इतरो देवदत्तात् । ऋते इति चाव्ययं
वर्जनार्थे । ऋते देवदत्तात् । ऋते यज्ञदत्तात् । दिक्शब्दः । पूर्वो ग्रामात् ।
उत्तरो ग्रामात् । पूर्वो ग्रीष्माद्वसन्तः । उत्तरो ग्रीष्मो वसन्तात् । दिक्शब्द इत्यत्र
शब्दग्रहणं देशकालवृत्तिनापि दिक्शब्देन योगे यथा स्यात् । इतरथा हि
दिग्वृत्तिनैव स्यात् । इयमस्याः पूर्वेति । इह तु न स्यात् । अयमस्मात्पूर्वः काल
इति । अञ्चूत्तरपद । प्राग् ग्रामात् । प्रत्यग् ग्रामात् । ननु चायमपि दिक्शब्द
एव । षष्ठ्यतसर्थप्रत्ययेनेति वक्ष्यति, तस्यायं पुरस्तादपकर्षः । आच् । दक्षिणा
ग्रामात् । उत्तरा ग्रामात् । आहि । दक्षिणाद्हि ग्रामात् । उत्तराद्हि ग्रामात् ॥
षष्ठ्यतसर्थप्रत्ययेन ॥ ३० ॥
दक्षिणोत्तराभ्यामतसुजिति वक्ष्यति, तस्येदं ग्रहणम् । अतसर्थेन प्रत्य-
येन युक्ते षष्ठी विभक्तिर्भवति । दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । पुरस्ताद्
ग्रामस्य । उपरि ग्रामस्य । उपरिष्टाद्ग्रामस्य ॥
८
१९४ ॥ काशिका ॥ २ ॥ ३ ॥
एनपा द्वितीया ॥ ३१ ॥
एनबन्यादन्यतरस्यामदूरे पञ्चम्या इति वक्ष्यति । तेन युक्ते द्वितीया विभक्तिर्-
भवति । पूर्वेण षष्ठ्यां प्राप्तायामिदं वचनम् । दक्षिणेन ग्रामम् । उत्तरेण ग्रामम् ।
षष्ठ्यपीष्यते । दक्षिणेन ग्रामस्य । उत्तरेण ग्रामस्य । तदर्थं योगविभागः कर्तव्यः ॥
पृथग्वि नानानाभिस्तृतीया ऽन्यतरस्याम् ॥ ३२ ॥
पञ्चमीग्रहणमनुवर्तते । पृथक् विना नाना इत्येतैर्योगे तृतीया विभक्ति-
र्भवति अन्यतरस्यां पञ्चमी च । पृथग् देवदत्तेन । पृथग् देवदत्तात् । विना
देवदत्तेन । विना देवदत्तात् । नाना देवदत्तेन । नाना देवदत्तात् । पृथग्वि-
नानानाभिरिति योगविभागे द्वितीयार्थः ।
विना वातं विना वर्षं विद्युत्प्रपतनं विना ।
विना हस्तिकृतान्दोषान्केनेमौ पातितौ द्रुमौ ॥
करणे च स्तोकाल्पकृच्छ्रकतिपयस्या-
सत्त्ववचनस्य ॥ ३३ ॥
स्तोक अल्प कृच्छ्र कतिपय इत्येतेभ्यो ऽसत्त्ववचनेभ्यः करणे कारके
ऽन्यतरस्यां तृतीया भवति । पञ्चम्यत्र पक्षे विधीयते, तृतीया तु करणेत्येव
सिद्धा । यदा तु धर्ममात्रं करणतया विवक्ष्यते न द्रव्यं, तदा स्तोकादीनाम-
सत्त्ववचनता । स्तोकान्मुक्तः । स्तोकेन मुक्तः । अल्पान्मुक्तः । अल्पेन मुक्तः ।
कृच्छ्रान्मुक्तः । कृच्छ्रेण मुक्तः । कतिपयान्मुक्तः । कतिपयेन मुक्तः । असत्त्ववच-
नस्येति किम् । स्तोकेन विषेण हतः । अल्पेन मधुना मत्तः । करणेति किम् ।
क्रियाविशेषणे कर्मणि मा भूत् । स्तोकं मुञ्चति ॥
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥ ३४ ॥
पञ्चम्यनुवर्तते । दूरान्तिकार्थैः शब्दैर्यगे षष्ठी विभक्तिर्भवत्यन्यतरस्यां
पञ्चमी च । दूरं ग्रामात् । दूरं ग्रामस्य । विप्रकृष्टं ग्रामात् । विप्रकृष्टं ग्रामस्य ।
अन्तिकं ग्रामात् । अन्तिकं ग्रामस्य । अभ्याशं ग्रामात् । अभ्याशं ग्रामस्य । अन्य-
तरस्यांग्रहणं पञ्चम्यर्थम् । इतरथा हि तृतीया पक्षे स्यात् ॥
दूरान्तिकार्थेभ्यो द्वितीया च ॥ ३५ ॥
पञ्चम्यनुवर्तते । दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति,
चकारात्पञ्चमी तृतीयापि समुच्चीयते । दूरं ग्रामस्य । दूराद्ग्रामस्य । दूरेण
ग्रामस्य । अन्तिकं ग्रामस्य । अन्तिकाद्ग्रामस्य । अन्तिकेन ग्रामस्य । प्रातिपदि-
कार्थे विधानम् । असत्त्ववचनग्रहणं चानुवर्तते । सत्त्वशब्देभ्यो यथायथं विभ-
क्तयो भवन्ति । दूरः पन्थाः । दूराय पथे देहि । दूरस्य पथः स्वम् ॥
Here is the line-by-line transcription of the Sanskrit text from the provided image:
॥ काशिका ॥ २ ॥ ३ ॥ १९५
सप्तम्यधिकरणे च ॥ ३६ ॥
सप्तमी विभक्तिर्भवत्यधिकरणे कारके, चकाराद्दूरान्तिकार्थेभ्यश्च । कटे
आस्ते । शकटे आस्ते । स्थाल्यां पचति । दूरान्तिकार्थेभ्यः खल्वपि । दूरे ग्रामस्य ।
अन्तिकेग्रामस्य । अभ्याशे ग्रामस्य । दूरान्तिकार्थेभ्यश्चतस्रो विभक्तयो भवन्ति,
द्वितीयातृतीयापञ्चमीसप्तम्यः ॥ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्या-
नम् ॥ * ॥ अधीती व्याकरणे । परिगणिती याज्ञिके । आम्नासी च्छन्दसि ॥ साध्व-
साधुप्रयोगे च सप्तमी वक्तव्या ॥ * ॥ साधुर्देवदत्तो मातरि । असाधुः पितरि ॥
कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या ॥ * ॥ आढ्येषु भुञ्जानेषु दरिद्रा
आसते । ब्राह्मणेषु तरत्सु वृषला आसते ॥ अकारकार्हाणां चाकारकत्वे सप्तमी
वक्तव्या ॥ * ॥ दरिद्रेष्वासीनेषु आढ्या भुञ्जते । वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति ॥
तद्विपर्यासे च सप्तमी वक्तव्या ॥ * ॥ आढ्येष्वासीनेषु दरिद्रा भुञ्जते । ब्राह्मणे-
ष्वासीनेषु वृषलास्तरन्ति ॥ निमित्तात्कर्मयोगे सप्तमी वक्तव्या ॥ * ॥
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
केशेषु* चमरीं हन्ति सीम्नि पुष्कलको हतः ॥
यस्य च भावेन भावलक्षणम् ॥ ३७ ॥
सप्तमीति वर्तते । भावः क्रिया । यस्य च भावेन यस्य च क्रियया
क्रियान्तरं लक्ष्यते ततो भाववतः सप्तमी विभक्तिर्भवति । प्रसिद्धा च क्रिया
क्रियान्तरं लक्षयति । गोषु दुह्यमानासु गतः । दुग्धास्वागतः । अग्निषु हूय-
मानेषु गतः । हुतेष्वागतः । भावेनेति किम् । यो जटाभिः स भुङ्क्ते । पुनर्-
भावग्रहणं किम् । यो भुङ्क्ते स देवदत्तः ॥
षष्ठी चानादरे ॥ ३८ ॥
पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात्सापि भवति । अना-
दराधिके भावलक्षणे भाववतः षष्ठीसप्तम्यौ विभक्ती भवतः । रुदतः प्रात्रा-
जीत् । रुदति प्राव्राजीत् । क्रोशतः प्राव्राजीत् । क्रोशति प्राव्राजीत् । क्रोश-
न्तमनादृत्य प्रव्रजित इत्यर्थः ॥
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ॥ ३९ ॥
षष्ठीसप्तम्यौ वर्तेते । स्वामिन् ईश्वर अधिपति दायाद साक्षिन् प्रतिभू
प्रसूत इत्येतैर्योगे षष्ठीसप्तम्यौ विभक्ती भवतः । गवां स्वामी । गोषु स्वामी ।
गवामीश्वरः । गोष्वीश्वरः । गवामधिपतिः । गोष्वधिपतिः । गवां दायादः ।
* बालेष्विति पाठान्तरम् ।
११६ ॥ काशिका ॥ २ । ३ ॥
गोषु दायादः । गवां साक्षी । गोषु साक्षी । गवां प्रतिभूः । गोषु प्रतिभूः ।
गवां प्रसूतः । गोषु प्रसूतः । षष्ठ्यामेव प्राप्तायां पक्षे सप्तमीविधानार्थं वचनम् ॥
आयुक्तकुशलाभ्यां चासेवायाम् ॥ ४० ॥
षष्ठीसप्तम्यौ वर्तेते । आयुक्तो व्यापारितः * कुशलो निपुणः ताभ्यां
योगे आसेवायाम् गम्यमानायां षष्ठीसप्तम्यौ विभक्ती भवतः । आसेवा तात्प-
र्यम् । आयुक्तः कटकरणस्य । आयुक्तः कटकरणे । कुशलः कटकरणस्य । कुशलः
कटकरणे । आसेवायामिति किम् । आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ।
तत्र सप्तम्येवाधिकरणे भवति ॥
यतश्च निर्धारणम् ॥ ४१ ॥
षष्ठीसप्तम्यौ वर्तेते । जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं
निर्धारणम् । यतो निर्धारणम् ततः षष्ठीसप्तम्यौ विभक्तौ भवतः । मनुष्याणां क्षत्रियः
शूरतमः । मनुष्येषु क्षत्रियः शूरतमः । गवां कृष्णा संपन्नक्षीरतमा । गोषु । कृष्णा
संपन्नक्षीरतमा । अध्वगानां धावन्तः शीघ्रतमाः । अध्वगेषु धावन्तः शीघ्रतमाः ॥
पञ्चमी विभक्ते ॥ ४२ ॥
यतश्च निर्धारणमिति वर्तते । षष्ठीसप्तम्यपवादो योगः । विभागो
विभक्तम् । यस्मिन्निर्धारणाश्रये विभक्तमस्ति ततः पञ्चमी विभक्तिर्भवति ।
माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः । आढ्यतराः ॥
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ ४३ ॥
साधु निपुण इत्येताभ्यां योगे ऽर्चायां गम्यमानायां सप्तमी विभक्ति-
र्भवति, न चेत् प्रतिः प्रयुज्यते । मातरि साधुः । पितरि साधुः । मातरि
निपुणः । पितरि निपुणः । अर्चायामिति किम् । साधुर्भृत्यो राज्ञः । तत्त्वक-
थने न भवति । अप्रतेरिति किम् । साधुर्देवदत्तो मातरं प्रति ॥ अप्रत्यादि-
भिरिति वक्तव्यम् ॥ * ॥ साधुर्देवदत्तो मातरं परि । मातरमनु ॥
प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥
प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर्भवति, चकारात्सप्त-
मी च । प्रसितः प्रसक्तो, यस्तत्र नित्यमेवावबद्धः स उच्यते । केशैः प्रसितः ।
केशेषु प्रसितः । केशैरुत्सुकः । केशेषूत्सुकः ॥
नक्षत्रे च लुपि ॥ ४५ ॥
तृतीयासप्तम्यावनुवर्तेते । लुबन्तान्नक्षत्रशब्दात् तृतीयासप्तम्यौ विभक्ती
भवतः । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् । मघाभिः पक्तौ-
- व्यापृत इति बहुषु पुस्तकेषु पाठः ।
दनम् । मघासु पललौदनम् । नतच्छ्रदिति किम् । पञ्चालेषु वसति । लुपीति
किम् । मघासु यः । इह कस्मान्न भवति । अद्य पुष्यः । अद्य कृत्तिका ।
अधिकरणेति वर्तते । वचनं तु षष्ठे तृतीयाविधानार्थम् ॥
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ ४६ ॥
प्रातिपदिकार्थः सत्ता । लिङ्गं स्त्रीलिङ्गपुंलिङ्गनपुंसकानि । परिमाणं,
द्रोणः खारी आढकम्* । वचन,मेकत्वद्वित्वबहुत्वानि । मात्रशब्दः प्रत्येकम-
भिसंबध्यते । प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे वचनमात्रे प्रथमा
विभक्तिर्भवति । प्रातिपदिकार्थमात्रे । उच्चैः । नीचैः । लिङ्गग्रहणं किम् ।
कुमारी, वृक्षः, कुण्डम्, इत्यत्रापि यथा स्यात् । परिमाणग्रहणं किम् । द्रोणः,
खारी, आढकम्, इत्यत्रापि यथा स्यात् । वचनग्रहणं किम् । एकत्वादियुक्ते-
ष्वाप यथा स्यात् । एकः, द्वौ, बहवः । प्रातिपदिकग्रहणं किम् । निपातस्यान-
र्थकस्य प्रातिपदिकत्वमुक्तं ततो ऽपि यथा स्यात् । प्रलम्बते । अव्यागच्छति ॥
संबोधने च ॥ ४७ ॥
आभिमुख्यकरणं संबोधनम्, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नो-
तीति वचनमारभ्यते । संबोधने च प्रथमा विभक्तिर्भवति । हे देवदत्त । हे
देवदत्तौ । हे देवदत्ताः ॥
सा ऽऽमन्त्रितम् ॥ ४८ ॥
संबोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसंज्ञं भवति । तथा चैवो-
दाहृतम् । आमन्त्रितप्रदेशा आमन्त्रितं पूर्वमविद्यमानवद् इत्येवमादयः † ॥
एकवचनं संबुद्धिः ॥ ४९ ॥
आमन्त्रितप्रथमाया यदेकवचनं तत्संबुद्धिसंज्ञं भवति । हे पटो । हे देव-
दत्त । संबुद्धिप्रदेशा एङ्ह्रस्वात्संबुद्धेरित्येवमादयः ॥
षष्ठी शेषे ॥ ५० ॥
कर्मादिभ्यो ऽन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेष-
स्तत्र षष्ठी विभक्तिर्भवति । राज्ञः पुरुषः । पशोः पादः । पितुः पुत्रः ॥
ज्ञो ऽविदर्थस्य करणे ॥ ५१ ॥
‡ जानातेरविदर्थस्याज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर्भवति ।
सर्पिषो जानीते । मधुनो जानीते । सर्पिषा करणेन प्रवर्ततइत्यर्थः । प्रवृत्तिक-
* 'परिमाणं प्रस्थादि' इति पा० ३ ।
† 'आमन्त्रितस्य च' इत्येवमादयः । इति पा० ३ ।
‡ अत्र 'शेषइत्यनुवर्तते' इत्यधिकं क्व चित् ।
१९८ ॥ काशिका ॥ २ ॥ ३ ॥
ध्मो जानातिरविदर्थः । अथ वा मिथ्याज्ञानवचनः । सर्पिषि रक्तः प्रतिहतो
वा । चित्तभ्राम्या तदात्मना सर्वमेव ग्राह्यं प्रतिपद्यते । मिथ्याज्ञानमज्ञानमेव ।
अविदर्थस्येति किम् । स्वरेण पुत्रं जानाति ॥
अधीगर्थदयेशां कर्मणि ॥ ५२ ॥
शेषइति वर्तते । अधीगर्थाः स्मरणार्थाः । दय दानगतिरक्षणेषु । ईश
ऐश्वर्ये । एतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । मातु-
रध्येति । मातुः स्मरति । सर्पिषो दयते । सर्पिष ईष्टे । मधुन ईष्टे । कर्म-
णीति किम् । मातुर्गुणैः स्मरति । शेषइति किम् । मातरं स्मरति ॥
कृञः प्रतियत्ने ॥ ५३ ॥
सतो गुणान्तराधानं प्रतियत्नः । करोतेः कर्मणि कारके शेषत्वेन विव-
क्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर्भवति । एधोदकस्योपस्कुरुते । शस्त्रपञ्च-
स्योपस्कुरुते । प्रतियत्नइति किम् । कटं करोति । कर्मणीति किम् । एधोदक-
स्योपस्कुरुते प्रज्ञया । शेषइत्येव । एधोदकमुपस्कुरुते ॥
रुजार्थानां भाववचनानामज्वरेः ॥ ५४ ॥
रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि
कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । चौरस्य रुजति रोगः । चौर-
स्यामयत्यामयः । रुजार्थानामिति किम् ॥
एति जीवन्तमानन्दो नरं वर्षशतादपि ।
जीव पुत्रक मामेवं तपः साहसमाचर* ॥
भाववचनानामिति किम् । नदी कूलानि रुजति । अज्वरेरिति किम् ।
चौरं ज्वरयति ज्वरः ॥ अज्वरिसन्ताप्योरिति वक्तव्यम् ॥ * ॥ चौरं सन्तापयति
तापः । शेषइत्येव । चौरं रुजति रोगः ॥
आशिषि नाथः ॥ ५५ ॥
नाथृ नाधृ याञ्चोपतापैश्वर्याशीःषु पठ्यते, तस्याशीःक्रियस्य कर्मणि
कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । सर्पिषो नाथते । मधुनो
नाथते । आशिषीति किम् । माणवकमुपनाथति, अङ्ग पुत्रकाधीष्व ॥
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ॥ ५६ ॥
जासि निप्रहण नाट क्राथ पिष् इत्येतेषां धातूनां हिंसाक्रियायां कर्मणि
- कस्याश्चि खलु मातेयं लौकिको प्रतिभाति मे ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ इति पाठान्तरम् ॥
॥ काशिका ॥ २ ॥ ३ ॥ १९८
कारके षष्ठी विभक्तिर्भवति । जसु हिंसायां, जसु ताडने, इति च चुरादौ पठ्यते
तस्येदं ग्रहणं, न दैवादिकस्य जसु मोक्षणे इत्यस्य *। चौरस्योज्जासयति। वृषल-
स्योज्जासयति । निप्रहण इति संघातविगृहीतविपर्यस्तग्रहणम्। चौरस्य निप्रघ्न-
न्ति। चौरस्य निहन्ति। चौरस्य प्रहन्ति। चौरस्य प्रणिहन्ति। चौरस्योन्नाटयति ।
वृषलस्योन्नाटयति । चौरस्य क्राथयति । वृषलस्य क्राथयति । निपातनाद् दीर्घः ।
अयं हि घटादौ पठ्यते अथ क्रथ क्लथ क्रथ हिंसायां इति, तत्र घटादयो मित इति
मित्संज्ञायां मितां ह्रस्व इति ह्रस्वत्वं स्यात् । चौरस्य पिनष्टि। वृषलस्य पिनष्टि।
हिंसायामिति किम् । धानाः पिनष्टि। शेषइत्येव । चौरमुज्जासयति । एषामिति
किम् । चौरं हिनस्ति । निप्रहण इति किम् । चौरं विहन्ति † ॥
व्यवहृपणोः समर्थयोः ॥ ५७ ॥
व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभ-
क्तिर्भवति । द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः । शतस्य व्यवहरति ।
सहस्रस्य व्यवहरति । शतस्य पणते। सहस्रस्य पणते। आयप्रत्ययः कस्मान्न भवति।
स्तुत्यर्थस्य पणतेरायप्रत्यय इष्यते ‡॥ समर्थयोरिति किम् । शलाकां व्यवहरति ।
विक्षिपतीत्यर्थ
१२० ॥ काशिका ॥ २ ॥ ३ ॥
प्रेष्य इति इष्यतेर्दैवादिकस्य लोट्मध्यमपुरुषस्यैकवचनं, तत्साहचर्याद्
ब्रुविरपि तद्विषय एव गृह्यते । प्रेष्यब्रुवोर्हविषः कर्मणः षष्ठी विभक्तिर्भवति देव-
तासंप्रदाने सति । अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य । अग्नये छागस्य
हविषो वपाया मेदसोनुब्रू३हि । प्रेष्यब्रुवोरिति किम् । अग्नये छागं हविर्वपां मेदो
जुहुधि । हविष इति किम् । अग्नये गोमयान् प्रेष्य । देवतासंप्रदान इति किम् ।
माणवकाय पुरोडाशं प्रेष्य ॥ हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः ॥ * ॥ इन्द्रा-
ग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रे३ष्य ॥
चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥
छन्दसि विषये चतुर्थ्यर्थे षष्ठी विभक्तिर्भवति * बहुलम् । पुरुषमृगश्चन्द्र-
मसः । पुरुषमृगश्चन्द्रमसे । गोधा कालका दार्वाघाटस्ते वनस्पतीनाम् । ते वनस्पति-
भ्यः । बहुलग्रहणं किम् । कृष्णो रात्र्यै, हिमवतो हस्ती ॥ षष्ठ्यर्थे चतुर्थी वक्त-
व्या ॥ * ॥ या खर्वेण पिबति तस्यै खर्वो जायते । या दतो धावति तस्यै श्याव-
दन् । या नखानि कृन्तति तस्यै कुनखः । या ऽऽङ्क्ते तस्यै काणः । या ऽभ्यङ्क्ते
तस्यै दुश्चर्मा । या केशान् प्रलिखति तस्यै खलतिः । अहल्यायै जारः ॥
यजेश्च करणे ॥ ६३ ॥
यजेर्धातोः करणे कारके छन्दसि बहुलं षष्ठी विभक्तिर्भवति । घृतस्य
यजते । घृतेन यजते । सोमस्य यजते । सोमेन यजते † ॥
कृत्वोऽर्थप्रयोगे काले ऽधिकरणे ॥ ६४ ॥
छन्दसि बहुलमिति निवृत्तम् । कृत्वोऽर्थानां प्रत्ययानां प्रयोगे काले ऽधि-
करणे षष्ठी विभक्तिर्भवति । पञ्चकृत्वो ऽह्नो भुङ्क्ते । द्विरह्नो ऽधीते । कृत्वोऽर्थ-
ह्वयं किम् । अह्नि शेते । रात्रौ शेते । प्रयोगग्रहणं किम् । अहनि भुक्तम् । गम्यते
हि द्विस्त्रिश्चतुरिति, न त्वप्रयुज्यमाने भवति । कालग्रहणं किम् । द्विः कांस्यपा-
त्र्यां भुङ्क्ते । अधिकरणइति किम् । द्विरह्नो भुङ्क्ते । शेषइत्येव । द्विरहन्यधीते ॥
कर्तृकर्मणोः कृति ॥ ६५ ॥
कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति । भवतः शायिका ।
भवत आसिका । कर्मणि । अपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्त्ता । कर्तृक-
र्मणोरिति किम् । शरेण भेत्ता । कृतीति किम् । तद्धितप्रयोगे मा भूत् ।
कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । शेषइति निवृत्तं, पुनः कर्मग्रहणात् ।
इतरथा हि कर्तरि च कृतीति ब्रूयात् ॥
- अत्र ‘देवतासंप्रदाने सति’ इत्याधिकं क्व चित् ।
† अत्र ‘कारकेइति किम् । अन्यत्र मा भूत्’ इत्याधिकं क्व चित् ।
॥ काशिका ॥ २ ॥ ३ ॥ १२१
उभयप्राप्तौ कर्मणि ॥ ६६ ॥
पूर्वेण षष्ठी प्राप्ता नियम्यते । उभयप्राप्ताविति बहुव्रीहिः । उभयोः
प्राप्तिर्यस्मिन्कृति सोयमुभयप्राप्तिस्तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न
कर्तरि । आश्चर्यो गवां दोहो ऽगोपालेन । रोचते मे ओदनस्य भोजनं देव-
दत्तेन । साधु खलु पयसः पानं यज्ञदत्तेन । बहुव्रीहिविज्ञानादिह नियमो न
भवति । आश्चर्यमिदमোদনस्य नाम पाको ब्राह्मणानां च प्रादुर्भाव इति ॥
अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति वक्तव्यम् ॥ * ॥ भेदिका देवदत्तस्य
काष्ठानाम् । चिकीर्षा देवदत्तस्य कटस्य ॥ शेषे विभाषा ॥ * ॥ अकाकारयोः
स्त्रीप्रत्यययोर्ग्रहणात् तदपेक्षयाशेषः स्त्रीप्रत्यय एव गृह्यते । विचित्रा हि
सूत्रस्य कृतिः पाणिनेः पाणिनिना वा ॥ के चिद्विशेषेणैव विभाषामिच्छन्ति ॥
शब्दानामनुशासनमाचार्येण, चाचार्यस्येति वा ॥
क्तस्य च वर्तमाने ॥ ६७ ॥
न लोकाव्ययनिष्ठाेति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते । क्तस्य वर्त-
मानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति । राज्ञां मतः । राज्ञां बुद्धः ।
राज्ञां पूजितः । क्तस्येति किम् । ओदनं पचमानः । वर्तमानइति किम् । ग्रामं
गतः ॥ नपुंसके भावउपसंख्यानम् ॥ * ॥ छात्रस्य हसितम् । मयूरस्य नृत्तम् ।
कोकिलस्य व्याहृतम् ॥ शेषविज्ञानात् सिद्धम् ॥ * ॥ तथा च कर्तृविवक्षायां
तृतीयापि भवति । छात्रेण हसितमिति ॥
अधिकरणवाचिनश्च ॥ ६८ ॥
क्तोधिकरणे चेति यत्प्रति, तस्य प्रयोगे षष्ठी विभक्तिर्भवति । अयमपि
प्रतिषेधापवादो योगः । इदमेषामासितम् । इदमेषां शयितम् । इदमहेः सृतम् ।
इदं वनमृगेर्यातम् । इदमेषां भुक्तम् । इदमेषामशितम् । द्विकर्मकाणां प्रयोगे
कर्तरि कृति द्वयोरपि षष्ठी द्वितीयावत् । नेता ऽश्वस्य ग्रामस्य चैत्रः । अन्ये
प्रधाने कर्मण्याहुः । तदा नेताऽश्वस्य ग्रामं चैत्रः * ॥
न लोकाव्ययनिष्ठाखलर्थतृनाम् ॥ ६९ ॥
कर्तृकर्मणोः कृतीति षष्ठी प्राप्ता प्रतिषिध्यते । ल उ उक अव्यय निष्ठा
खलर्थ तृन् इत्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । ल इति शतृशानचौ काञ्
क्वसू किकिनौ च गृह्यन्ते । ओदनं पचन् । ओदनं पचमानः । ओदनं पेचानः ।
ओदनं पेचिवान् । पपिः सोमम् । ददिर्गाः । उ । कटं चिकीर्षुः । ओदनं बुभुक्षुः ।
कन्यामलंक रिष्णुः । इष्णुचोपि प्रयोगे निषेधः । † उक । आगामुकं वाराणसीं रक्षः
- द्विकर्मकाणां प्रयोगात्प्रारभ्य ग्रामं चैत्र इत्येवमन्तोग्रन्थो बहुषु पुस्तकेषु नास्ति ।
† इष्णुचो ऽपि प्रयोगे निषेध इति बहुषु पुस्तकेषु नास्ति ।
[Header] १२२ ॥ काशिका ॥ २ ॥ ३ ॥
चाहुः ॥ उकप्रतिषेधे कमेर्भाषायां प्रतिषेधः ॥ * ॥ दास्याः कामुकः । अव्यय ।
काष्ठं भित्त्वा । ओदनं भुक्त्वा ॥ अव्ययप्रतिषेधे तोसुन्कसुनोःप्रतिषेधः ॥ * ॥
पुरा सूर्यस्योदेतोराधेयः । पुरा क्रूरस्य विसृपो विरप्शिन् । निष्ठा । ओदनं भुक्त-
वान् । देवदत्तेन कृतम् । खलर्थ । ईषत्करः कटो भवता । दुष्पानः सोमो
भवता । तृन्निति प्रत्याहारग्रहणं, लटः शतृशानचावित्यतआरभ्य आ तृनो नकारात् ।
तेन शानज्वानशेशतृवतृनामपि प्रतिषेधो भवति । सोमं पवमानः । नट माघ्नानः । *
अधीयान् पारायणम् । कर्ता कटान् । वदिता जनापवादान् ॥ द्विषः शतुर्वा-
वचनम् ॥ * ॥ चौरं द्विषन् , चौरस्य द्विषन् ॥
अकेनोर्भविष्यदाधमर्ण्ययोः ॥ ७० ॥
अकस्य भविष्यति काले विहितस्येनेस्तु भविष्यति चाधमर्ण्ये च विहि-
तस्य प्रयोगे षष्ठी विभक्तिर्न भवति । कटं कारको व्रजति । ओदनं भोजको
व्रजति । इनः खल्वपि । ग्रामं गमी । ग्रामं गामी । आधमर्ण्ये । शतं दायी ।
सहस्रं दायी । भविष्यदाधमर्ण्ययोरिति किम् । यत्राणां लावकः । सक्तूनां
पायकः । अवश्यं करो कटस्य । इह कस्मान्न भवति वर्षशतस्य पूरकः, पुत्र-
पौत्राणां दर्शक इति । भविष्यदधिकारे विहितस्याकस्येदं ग्रहणम् ॥
कृत्यानां कर्तरि वा ॥ ७१ ॥
कर्तृकर्मणोः कृतीति नित्यं षष्ठी प्राप्ता कर्त्तरि विकल्प्यते । कृत्यानां
प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि * । भवता कटः कर्तव्यः ।
भवतः कटः कर्तव्यः । कर्त्तरीति किम् । गेयो माणवकः साम्नाम् ॥ उभयप्राप्तौ
कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः ॥ * ॥ द्रष्टव्या ग्रामं शाखा देवदत्तेन । नेतव्या
ग्राममजा देवदत्तेन ॥
तुल्यार्थैरतुलोपमाभ्यां तृतीया ऽन्यतरस्याम् ॥ ७२ ॥
तुल्यार्थैः शब्दैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्यां, पक्षे षष्ठी च,
तुलोपमाशब्दौ वर्जयित्वा । शेषे विषये तृतीयाविधानात् तया मुक्ते षष्ठ्येव
भवति । तुल्यो देवदत्तेन । तुल्यो देवदत्तस्य । सदृशो देवदत्तेन । सदृशो देव-
दत्तस्य । अतुलोपमाभ्यामिति किम् । तुला देवदत्तस्य नास्ति । उपमा
कृष्णस्य न विद्यते । वेति वर्तमाने ऽन्यतरस्यांग्रहणमुत्तरसूत्रे तस्य चकारेणा-
नुकर्षणार्थम् । इतरथा हि तृतीयाऽनुकृष्येत ॥
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥ ७३ ॥
आशिषि गम्यमानायाम् आयुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतै
- 'न कर्मणी'ति कुत्र चित्रभ्रष्टः ।
॥ काशिका ॥ २ । ४ ॥ १२३
योगे चतुर्थी विभक्तिर्भवति । चकारो विकल्पानुकर्षणार्थः । शेषे चतुर्थीविधाना-
त्तस्या मुक्ते षष्ठी विभक्तिर्भवति । अत्रायुष्यादीनां पर्यायग्रहणं कर्तव्यम् ॥ * ॥ *
आयुष्यं देवदत्ताय भूयात् । आयुष्यं देवदत्तस्य भूयात् । चिरं जीवितं देवदत्ताय
देवदत्तस्य वा भूयात् । भद्रं देवदत्ताय भूयात् । भद्रं देवदत्तस्य । भद्रं देवद-
त्ताय । भद्रं देवदत्तस्य । कुशलं देवदत्ताय । कुशलं देवदत्तस्य । निरामयं देव-
दत्ताय । निरामयं देवदत्तस्य । सुखं देवदत्ताय । सुखं देवदत्तस्य । शं देवद-
त्ताय । शं देवदत्तस्य । अर्थो देवदत्ताय । अर्थो देवदत्तस्य । प्रयोजनं देवद-
त्ताय । प्रयोजनं देवदत्तस्य । हितं देवदत्ताय । हितं देवदत्तस्य । पथ्यं देवद-
त्ताय । पथ्यं देवदत्तस्य । आशिषीति किम् । आयुष्यं देवदत्तस्य तपः ॥
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ
द्वितीस्याध्यायस्य तृतीयः पादः ॥
॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥
द्विगुरेकवचनम् ॥ १ ॥
द्विगुः समासः एकवचनं भवति । एकस्य वचनमेकवचनम् । एकस्या-
र्थस्य वाचको भवतीत्यर्थः । तदनेन प्रकारेण द्विग्वर्थस्यैकवद्भावो विधीयते, द्वि-
ग्वर्थ एकवद्भवतीति । समाहारद्विगोश्चेदं ग्रहणं नान्यस्य । पञ्चपूलाः समा-
हृताः पञ्चपूली । दशपूली । द्विग्वर्थस्यैकत्वादनुप्रयोगेप्येकवचनं भवति । पञ्च-
पूलीयं शोभनेति ॥
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २ ॥
एकवचनमित्येव वर्तते । अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि
वाक्यानि संपद्यन्ते । प्राण्यङ्गानां द्वन्द्व एकवद्भवति, तथा तूर्याङ्गानां सेनाङ्गानां
च । प्राण्यङ्गानां तावत् । पाणिपादम् । शिरोग्रीवम् । तूर्याङ्गानाम् । मार्दङ्गिकपा-
णविकम् । वीणावादकपरिवादकम् । सेनाङ्गानाम् रथिकाश्वारोहम् । रथिकपा-
दातम् । हस्त्यश्वादिषु परत्वात्पशुद्वन्द्वे विभाषैकवद् भवति । इतरेतरयोगे
समाहारे च द्वन्द्वो विहितः, तत्र समाहारस्यैकत्वात्सिद्धमेवैकवचनम् ।
इदं तु प्रकरणं नियमविभागार्थम् । प्राण्यङ्गादीनां समाहार एव द्वन्द्वः । हस्ति-
प्रयश्वादीनाम1ितरेतरयोग एव । रुरुपृषतादीनामुभयथेति ॥
अनुवादे चरणानाम् ॥ ३ ॥
Footnotes
-
- अत्रेत्यारभ्य कर्तव्यमित्यन्तः पाठो बहुत्र नास्ति । (मूलपाठ में 'हस्त्यश्वादीनाम्' के स्थान पर 'हस्ति-प्रयश्वादीनाम्' छपा है)
' or 'ल्व'?
In Devanagari, 'न्त्य' is written with न, त, य.
Here: 'स', then consonant cluster, then 'पि'.
Could it be "सन्त्यपि"?
Wait, look at line 5: "प्रथमत एवोपदेशस्तदा" - 'स्त' has vertical.
Here: 'स', then 'न्' + 'त्व' = 'न्त्व'? Or 'न्त्य'?
If it is "सन्त्यपि", "सन्त्यपि कुरवश्च कुरुक्षेत्रं च..." doesn't make sense unless "सन्त्यपि"? No, "सत्यपि"?
Wait, look at the word: is it "साल्वः"? No, it ends in 'पि'.
Wait! Could it be "अस्त्यपि"?
Look at the first letter: it has an upper loop, a left curve... wait, is that 'अ'?
Compare with 'अ' in "अध्ययनतो" (line 16): 'अ' has a top bar, left shape like 3, middle bar, vertical.
In line 32, this letter has: left shape like 3, middle bar, vertical! It IS 'अ'!
Wait, look: is it 'अ' or 'स'?
Look at 'स' in "कुरवश्च": 'स' has a round head, left leg, crossbar, vertical.
In this word: it has the shape of 'अ'!
Wait, then what is the second letter:
॥ काशिका ॥ २ ॥ ४ ॥ १२५
कूलम् । विशिष्टलिङ्ग इति किम् । गङ्गायमुने । मद्रकेक्याः । नदी देश इति
किम् । कुक्कुटमयूर्यौ । अयामा इति किम् । जाम्बवश्च शालूकिनी च, जाम्बव-
शालूकिन्यौ । नदीग्रहणमदेशत्वात् । जनपदो हि देशः । तथा च पर्वतानां
ग्रहणं न भवति । कैलासश्च गन्धमादनं च, कैलासगन्धमादने ॥ अयामा
इत्यत्र नगराणां प्रतिषेधो वक्तव्यः ॥ * ॥ इह मा भूत् । मधुरा च पाटलिपुत्रं
च, मथुरापाटलिपुत्रम् ॥ उभयतश्च यामानां प्रतिषेधो वक्तव्यः ॥ * ॥ सौर्यं च
नगरं, केतवतं च यामः, सौर्यकेतवते ॥
क्षुद्रजन्तवः ॥ ८ ॥
अपरिचितपरिमाणः क्षुद्रः । क्षुद्रजन्तुवाचिनां द्वन्द्व एकवद्भवति । दंश-
मशकम् । यूकालिक्षम् । क्षुद्रजन्तव इति किम् । ब्राह्मणक्षत्रिया ॥
क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः ।
शतं वा प्रसृतो येषां के चिदा नकुलादपि ॥
सा नकुलादपीतीयमेव स्मृतिः प्रमाणमितरासां तद्विरोधात् ॥
येषां च विरोधः शा शाश्वतिकः ॥ ९ ॥
विरोधो बैरं, शाश्वतिको नित्यः । येषां शाश्वतिको विरोधस्तद्वाचिनां
शब्दानां द्वन्द्व एकवद्भवति । मार्जारमूषकम् । श्वशृगालम् । अहिनकुलम् ।
शाश्वतिक इति किम् । गौपालिशालङ्कायनाः कलहायन्ते । चकारः पुनरस्यैव
समुच्चयार्थः । तेन पशुशकुनिद्वन्द्वे विरोधिनामेनेन नित्यमेकवद्भावो भवति ।
अश्वमहिषम् । काकोलूकम् ॥
शूद्राणामनिरवसितानाम् ॥ १० ॥
निरवसानं, बहिष्कारणं । कुतो बहिष्कारणं, पात्रात् । यैर्भुक्ते पात्रं
संस्कारेणापि न शुध्यति ते निरवसिताः, न निरवसिताः, अनिरवसिताः । अनि-
रवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद्भवति । तक्षायस्कारम् । रजकतन्तु-
वायम् । अनिरवसितानामिति किम् । चण्डालमृतपाः ॥
गवाश्वप्रभृतीनि च ॥ ११ ॥
गवाश्वप्रभृतीनि ह्येकवद्भावानि द्वन्द्वरूपाणि साधूनि भवन्ति । गवा-
श्वम् । गवाविकम् । गवैडकम् । अजाविकम् । अजैडकम् । कुब्जवामनम् ।
कुब्जकैरातकम् । पुत्रपौत्रम् । श्वचण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् ।
शाटीपिच्छकम् । उष्ट्रखरम् । उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरीषम् । यकृन्मेदः ।
मांसशोणितम् । दर्भशरम् । दर्भपूतकिम् । अर्जुनशिरीषम् । तृणोलपम् । दाशी-
१२६ ॥ काशिका ॥ २ ॥ ४ ॥
द्वासम् । कुटीकुटम् । भागवतीभागवतम् । गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्व-
वृत्तं, रूपान्तरे तु नायं विधिर्भवति । गोश्वम् । गोश्वौ । पशुद्वन्द्वविभाषैव भवति ॥
विभाषावृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वा-
पराधरोत्तराणाम् ॥ १२ ॥
वृक्ष मृग तृण धान्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर
इत्येतेषां द्वन्द्वो विभाषैकवद्भवति । प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् ।
रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् ।
दधिघृते । गोमहिषम् । गोमहिषाः । तित्तिरिकपिज्जलम् । तित्तिरिकपिञ्जलाः ।
अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥ बहु-
प्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् ॥ * ॥ एषां बहुप्रकृ-
तिरेव द्वन्द्व एकवद्भवति, न द्विप्रकृतिः । बदरामलके । रथिकाश्वारोहौ। प्लक्षन्य-
ग्रोधौ । रुरुपृषतौ । हंसचक्रवाकौ । यूकालिक्षे । व्रीहियवौ । कुशकाशौ ॥
विप्रतिषिद्धं चानधिकरणवाचि ॥ १३ ॥
परस्परविरुद्धं विप्रतिषिद्धम् । विप्रतिषिद्धार्थानां शब्दानामनधिकरण-
वाचिनामद्रव्यवाचिनां द्वन्द्व एकवद्भवति । विभाषानुकर्षणार्थश्चकारः । शीतो-
ष्णम् । शीतोष्णे । सुखदुःखम् । सुखदुःखे । जीवितमरणम् । जीवितमरणे । विप्र-
तिषिद्धमिति किम् । कामक्रोधौ । अनधिकरणवाचीति किम् । शीतोष्णे उदके॥
न दधिपयआदीनि ॥ १४ ॥
यथायथमेकवद्भावे प्राप्ते प्रतिषेध आरभ्यते । दधिपयआदीनि शब्दरूपा-
णि नैकवद्भवन्ति। दधिपयसी । सर्पिर्मधुनी । मधुपर्पिषी । ब्रह्मप्रजापती । शिव-
वैश्रवणौ । स्कन्दविशाखौ । परिव्राट्कौशिकौ * । प्रवर्ग्योपसदौ । शुक्लकृष्णौ ।
इध्माबर्हिषी । निपातनाद्दीर्घः । दीक्षातपसी । श्रद्धातपसी । मेधातपसी । अध्य-
यनतपसी । उलूखलमुसले । ऋगवसाने । ऋक्सामे । वाङ्मनसे ॥
अधिकरणैतावत्त्वे च ॥ १५ ॥
नेति वर्तते । अधिकरणं वर्त्तिपदार्थः, स हि समासस्यार्थस्याधारः,
तस्यैतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो नैकवद्भवति । यथायथमेकवद्भावः प्राप्तः
प्रतिषिध्यते । दश दन्तोष्ठाः । दश मार्दङ्गिकपाणविकाः ॥
विभाषा समीपे ॥ १६ ॥
अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्व एकवद्भवति । उपदशं दन्तो-
ष्ठम् । उपदशा दन्तोष्ठाः । उपदशं मार्दङ्गिकपाणविकम् । उपदशा मार्दङ्गि-
- परिव्राजककौशिकौ । इति पा० २ ।
कपाशालिकाः । अव्ययस्य संख्याया ऽव्ययीभावोऽपि विहितो बहुव्रीहिरपि, तत्रै-
कवद्भावपक्षे ऽव्ययीभावो ऽनुयुज्यते, इतरत्र बहुव्रीहिः ॥
स नपुंसकम् ॥ १७ ॥
यस्यायमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च ।
पञ्चगवम् । दशगवम् । द्वन्द्वः खल्वपि । पाणिपादम् । शिरोग्रीवम् । परलि-
ङ्गतापवादो योगः ॥ अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते ॥ * ॥ पञ्च-
पूली । दशरथी ॥ वा ऽऽबन्तः स्त्रियामिष्टः ॥ * ॥ पञ्चखट्वम् । पञ्चखट्वी ॥
अनो नलोपश्च वा च द्विगुः स्त्रियाम् ॥ * ॥ पञ्चतक्षम् । पञ्चतक्षी ॥ पात्रा-
दिभ्यः प्रतिषेधो वक्तव्यः ॥ * ॥ पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥
अव्ययीभावश्च ॥ १८ ॥
अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति । अधिस्त्रि । उपकुमारि ।
उन्मत्तगङ्गम् । लोहितगङ्गम् । पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता, ऽन्यपदार्थप्र-
धानस्याभिधेयवल्लिङ्गता, ऽत इदमुच्यते । अनुक्तसमुच्चयार्थश्चकारः ॥ पुण्य-
सुदिनाभ्यामह्नः क्लीबतेष्यते ॥ * ॥ पुण्याहम् । सुदिनाहम् ॥ पथः संख्याव्य-
यादेः क्लीबतेष्यते ॥ * ॥ त्रिपथम् । चतुष्पथम् । विपथम् । सुपथम् ॥ क्रिया-
विशेषाणां च क्लीबतेष्यते ॥ * ॥ * मृदु पचति । शोभनं पचति ॥
तत्पुरुषो ऽनञ्कर्मधारयः ॥ १९ ॥
अधिकारोयमुत्तरसूत्रेषूपतिष्ठते । नञ्समासं कर्मधारयं च वर्जयित्वा
ऽन्यस्तत्पुरुषो नपुंसकलिङ्गो भवतीत्येतदधिकृतं वेदितव्यम् । यदित ऊर्ध्वमनु-
क्रमिष्यामस्तत्र । वक्ष्यति विभाषा सेनासुरेति । ब्राह्मणसेनम् । ब्राह्मणसेना ।
तत्पुरुष इति किम् । दृढसेनो राजा । अनञिति किम् । असेना । अकर्मधा-
रय इति किम् । परमसेना ॥
संज्ञायां कन्थोशीनरेषु ॥ २० ॥
संज्ञायां विषये कन्थान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् कन्था
उशीनरेषु भवति । सौशमिकन्थम् । आह्वरकन्थम् । संज्ञायामिति किम् । वीर-
कन्था । उशीनरेष्विति किम् । दाक्षिकन्था । परवलिङ्गतापवाद इदं प्रकरणम् ॥
उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥ २१ ॥
उपज्ञायतइत्युपज्ञा उपक्रम्यतइत्युपक्रमः । उपज्ञा च उपक्रमश्च उपज्ञो-
पक्रमम् । तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदाद्याचिख्यासायां तयोरुप-
ज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायां । आख्यातुमिच्छा आचिख्यासा ।
- क्रियाविशेषाणां कर्मत्वं नपुंसकलिङ्गता च वक्तव्या ॥ * ॥ इति पा० भै० ॥
१२८ ॥ काशिका ॥ २ ॥ ४ ॥
यद्युपज्ञेयस्योपक्रम्यस्य चार्थस्यादिराख्यातुमिष्यते तत एतद्भवति। पाणिन्युप-
ज्ञमाकालापकं* व्याकरणम्। पाणिनिनोपज्ञातेन प्रथमतः प्रणीतमाकालापकं
व्याकरणम्। व्याड्युपज्ञं दुष्करणम्। आपिशलोपक्रमं प्रासादः। नन्दोपक्रमाणि
मानानि। दर्शनीयोपक्रमं सुकुमारम्। उपज्ञोपक्रममिति किम्। वाल्मीकि-
श्लोकाः। तदाद्याचिख्यासायामिति किम्। देवदत्तोपज्ञो रथः। यज्ञदत्तो-
पक्रमो रथः॥
छाया बाहुल्ये ॥ २२ ॥
विभाषा सेनासुराच्छायेति विभाषां वक्ष्यति, नित्यार्थमिदं वचनम्।
छायान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने। पूर्वपदार्थधर्मो
बाहुल्यम्। शरभादीनां हि बहुत्वं गम्यते। शरभच्छायम्। इक्षुच्छायम्।
बाहुल्यदिति किम्। कुड्यच्छाया॥
[
॥ काशिका ॥ २ । ४ ॥ १२९
पिप्पल्याः, धनुःपिप्पली। धनुःकोशातकी। धनुर्नखरजनी॥ द्विगुप्राप्तापन्नालं-
पूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः ॥ * ॥ द्विगुः। पञ्चसु कपालेषु संस्कृतः
पुरोडाशः पञ्चकपालः। प्राप्तो जीविकां, प्राप्तजीविकः। आपन्नो जीविकाम्,
आपन्नजीविकः। अलं जीविकायै, अलंजीविकः। गतिसमास। निष्क्रान्तः कौ-
शाम्ब्याः, निष्कौशाम्बिः ॥
पूर्ववदश्ववडवौ ॥ २७ ॥
अश्ववडवयोर्र्विभाषैकवद्भाव उक्तस्तत्रैकवद्भावादन्यत्र परवल्लिङ्गतायां
प्राप्तायामिदमारभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा चा-
श्ववडवौ। अर्थातिदेशश्चायं न निपातनं, तत्र द्विवचनमतन्त्रं, वचनान्तरेपि पूर्व-
वल्लिङ्गता भवति। अश्ववडवान्, अश्ववडवैरिति ॥
हेमन्तशिशिरावहोरात्रे च च्छन्दसि ॥ २८ ॥
पूर्ववदिति वर्तते। हेमन्तशिशिरौ अहोरात्रे इत्येतयोश्छन्दसि विषये
पूर्ववल्लिङ्गं भवति। हेमन्तशिशिरावृतूनां प्रीणामि। अहोरात्रे इदं ब्रूमः। पर-
वल्लिङ्गतापवादो योगः। अर्थातिदेशश्चायं न निपातनं, तेन द्विवचनमतन्त्रं,
वचनान्तरेपि पूर्ववल्लिङ्गता भवति। पूर्वपक्षाश्चितयः, अपरपक्षाः पुरीषम्, अहो-
रात्राण्योष्टकाः। छन्दसीति किम्। दुःखे हेमन्तशिशिरे। अहोरात्राविमौ
पुण्यौ। छन्दसि लिङ्गव्यत्यय उक्तस्तस्यैवायं प्रपञ्चः ॥
रात्राह्नाहाः पुंसि ॥ २९ ॥
कृतसमासान्तानां निर्देशः। रात्र अह्न अह इत्येते पुंसि भाव्यन्ते। पर-
वल्लिङ्गतायां स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम्। द्विरात्रः। त्रिरात्रः। षडू-
रात्रः। पूर्वाह्णः। अपराह्नः। मध्याह्नः। द्व्यहः। त्र्यहः ॥ अनुवाकादयः पुंसीति
वक्तव्यम् ॥ * ॥ अनुवाकः। शंयुवाकः। सूक्तवाकः ॥
अपथं नपुंसकम् ॥ ३० ॥
अपथशब्दो नपुंसकलिङ्गो भवति। अपथमिदम्। अपथानि गाहते
मूढः। इह कस्मान्न भवति, अपथो देशो, ऽपथा नगरी। तत्पुरुष इति वर्तते ॥
अर्धर्चाः पुंसि च ॥ ३१ ॥
अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाव्यन्ते। अर्धर्चः। अर्धर्चम्।
गोमयः। गोमयम्। शब्दरूपाश्रया चेयं द्विलिङ्गता न विवक्षाभेदेनापि व्यव-
तिष्ठते। यथा पद्मशङ्खशब्दौ निधिवचनौ पुंलिङ्गौ। जलजे उभयलिङ्गौ। भूत-
शब्दः पिशाचे उभयलिङ्गः। क्रियाशब्दस्याभिधेयवल्लिङ्गम्। सैन्धवशब्दा लवणे
उभयलिङ्गः। योनिशब्दस्याभिधेयवल्लिङ्गम्। सारशब्द उत्कर्षे पुंलिङ्गः न्यायाद-
६