काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 134, कुल 828 में से
संदर्भ में पढ़ेंकपाशालिकाः । अव्ययस्य संख्याया ऽव्ययीभावोऽपि विहितो बहुव्रीहिरपि, तत्रै-
कवद्भावपक्षे ऽव्ययीभावो ऽनुयुज्यते, इतरत्र बहुव्रीहिः ॥
स नपुंसकम् ॥ १७ ॥
यस्यायमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च ।
पञ्चगवम् । दशगवम् । द्वन्द्वः खल्वपि । पाणिपादम् । शिरोग्रीवम् । परलि-
ङ्गतापवादो योगः ॥ अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते ॥ * ॥ पञ्च-
पूली । दशरथी ॥ वा ऽऽबन्तः स्त्रियामिष्टः ॥ * ॥ पञ्चखट्वम् । पञ्चखट्वी ॥
अनो नलोपश्च वा च द्विगुः स्त्रियाम् ॥ * ॥ पञ्चतक्षम् । पञ्चतक्षी ॥ पात्रा-
दिभ्यः प्रतिषेधो वक्तव्यः ॥ * ॥ पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥
अव्ययीभावश्च ॥ १८ ॥
अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति । अधिस्त्रि । उपकुमारि ।
उन्मत्तगङ्गम् । लोहितगङ्गम् । पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता, ऽन्यपदार्थप्र-
धानस्याभिधेयवल्लिङ्गता, ऽत इदमुच्यते । अनुक्तसमुच्चयार्थश्चकारः ॥ पुण्य-
सुदिनाभ्यामह्नः क्लीबतेष्यते ॥ * ॥ पुण्याहम् । सुदिनाहम् ॥ पथः संख्याव्य-
यादेः क्लीबतेष्यते ॥ * ॥ त्रिपथम् । चतुष्पथम् । विपथम् । सुपथम् ॥ क्रिया-
विशेषाणां च क्लीबतेष्यते ॥ * ॥ * मृदु पचति । शोभनं पचति ॥
तत्पुरुषो ऽनञ्कर्मधारयः ॥ १९ ॥
अधिकारोयमुत्तरसूत्रेषूपतिष्ठते । नञ्समासं कर्मधारयं च वर्जयित्वा
ऽन्यस्तत्पुरुषो नपुंसकलिङ्गो भवतीत्येतदधिकृतं वेदितव्यम् । यदित ऊर्ध्वमनु-
क्रमिष्यामस्तत्र । वक्ष्यति विभाषा सेनासुरेति । ब्राह्मणसेनम् । ब्राह्मणसेना ।
तत्पुरुष इति किम् । दृढसेनो राजा । अनञिति किम् । असेना । अकर्मधा-
रय इति किम् । परमसेना ॥
संज्ञायां कन्थोशीनरेषु ॥ २० ॥
संज्ञायां विषये कन्थान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् कन्था
उशीनरेषु भवति । सौशमिकन्थम् । आह्वरकन्थम् । संज्ञायामिति किम् । वीर-
कन्था । उशीनरेष्विति किम् । दाक्षिकन्था । परवलिङ्गतापवाद इदं प्रकरणम् ॥
उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥ २१ ॥
उपज्ञायतइत्युपज्ञा उपक्रम्यतइत्युपक्रमः । उपज्ञा च उपक्रमश्च उपज्ञो-
पक्रमम् । तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदाद्याचिख्यासायां तयोरुप-
ज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायां । आख्यातुमिच्छा आचिख्यासा ।
- क्रियाविशेषाणां कर्मत्वं नपुंसकलिङ्गता च वक्तव्या ॥ * ॥ इति पा० भै० ॥