सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 130, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 130

॥ काशिका ॥ २ । ४ ॥ १२३

योगे चतुर्थी विभक्तिर्भवति । चकारो विकल्पानुकर्षणार्थः । शेषे चतुर्थीविधाना-
त्तस्या मुक्ते षष्ठी विभक्तिर्भवति । अत्रायुष्यादीनां पर्यायग्रहणं कर्तव्यम् ॥ * ॥ *
आयुष्यं देवदत्ताय भूयात् । आयुष्यं देवदत्तस्य भूयात् । चिरं जीवितं देवदत्ताय
देवदत्तस्य वा भूयात् । भद्रं देवदत्ताय भूयात् । भद्रं देवदत्तस्य । भद्रं देवद-
त्ताय । भद्रं देवदत्तस्य । कुशलं देवदत्ताय । कुशलं देवदत्तस्य । निरामयं देव-
दत्ताय । निरामयं देवदत्तस्य । सुखं देवदत्ताय । सुखं देवदत्तस्य । शं देवद-
त्ताय । शं देवदत्तस्य । अर्थो देवदत्ताय । अर्थो देवदत्तस्य । प्रयोजनं देवद-
त्ताय । प्रयोजनं देवदत्तस्य । हितं देवदत्ताय । हितं देवदत्तस्य । पथ्यं देवद-
त्ताय । पथ्यं देवदत्तस्य । आशिषीति किम् । आयुष्यं देवदत्तस्य तपः ॥
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ
द्वितीस्याध्यायस्य तृतीयः पादः ॥
॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥
द्विगुरेकवचनम् ॥ १ ॥
द्विगुः समासः एकवचनं भवति । एकस्य वचनमेकवचनम् । एकस्या-
र्थस्य वाचको भवतीत्यर्थः । तदनेन प्रकारेण द्विग्वर्थस्यैकवद्भावो विधीयते, द्वि-
ग्वर्थ एकवद्भवतीति । समाहारद्विगोश्चेदं ग्रहणं नान्यस्य । पञ्चपूलाः समा-
हृताः पञ्चपूली । दशपूली । द्विग्वर्थस्यैकत्वादनुप्रयोगेप्येकवचनं भवति । पञ्च-
पूलीयं शोभनेति ॥
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २ ॥
एकवचनमित्येव वर्तते । अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि
वाक्यानि संपद्यन्ते । प्राण्यङ्गानां द्वन्द्व एकवद्भवति, तथा तूर्याङ्गानां सेनाङ्गानां
च । प्राण्यङ्गानां तावत् । पाणिपादम् । शिरोग्रीवम् । तूर्याङ्गानाम् । मार्दङ्गिकपा-
णविकम् । वीणावादकपरिवादकम् । सेनाङ्गानाम् रथिकाश्वारोहम् । रथिकपा-
दातम् । हस्त्यश्वादिषु परत्वात्पशुद्वन्द्वे विभाषैकवद् भवति । इतरेतरयोगे
समाहारे च द्वन्द्वो विहितः, तत्र समाहारस्यैकत्वात्सिद्धमेवैकवचनम् ।
इदं तु प्रकरणं नियमविभागार्थम् । प्राण्यङ्गादीनां समाहार एव द्वन्द्वः । हस्ति-
प्रयश्वादीनाम1ितरेतरयोग एव । रुरुपृषतादीनामुभयथेति ॥
अनुवादे चरणानाम् ॥ ३ ॥


Footnotes

    • अत्रेत्यारभ्य कर्तव्यमित्यन्तः पाठो बहुत्र नास्ति । (मूलपाठ में 'हस्त्यश्वादीनाम्' के स्थान पर 'हस्ति-प्रयश्वादीनाम्' छपा है)
    ↩