काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 135, कुल 828 में से
संदर्भ में पढ़ें१२८ ॥ काशिका ॥ २ ॥ ४ ॥
यद्युपज्ञेयस्योपक्रम्यस्य चार्थस्यादिराख्यातुमिष्यते तत एतद्भवति। पाणिन्युप-
ज्ञमाकालापकं* व्याकरणम्। पाणिनिनोपज्ञातेन प्रथमतः प्रणीतमाकालापकं
व्याकरणम्। व्याड्युपज्ञं दुष्करणम्। आपिशलोपक्रमं प्रासादः। नन्दोपक्रमाणि
मानानि। दर्शनीयोपक्रमं सुकुमारम्। उपज्ञोपक्रममिति किम्। वाल्मीकि-
श्लोकाः। तदाद्याचिख्यासायामिति किम्। देवदत्तोपज्ञो रथः। यज्ञदत्तो-
पक्रमो रथः॥
छाया बाहुल्ये ॥ २२ ॥
विभाषा सेनासुराच्छायेति विभाषां वक्ष्यति, नित्यार्थमिदं वचनम्।
छायान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने। पूर्वपदार्थधर्मो
बाहुल्यम्। शरभादीनां हि बहुत्वं गम्यते। शरभच्छायम्। इक्षुच्छायम्।
बाहुल्यदिति किम्। कुड्यच्छाया॥
[