सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 136, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 136

॥ काशिका ॥ २ । ४ ॥ १२९
पिप्पल्याः, धनुःपिप्पली। धनुःकोशातकी। धनुर्नखरजनी॥ द्विगुप्राप्तापन्नालं-
पूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः ॥ * ॥ द्विगुः। पञ्चसु कपालेषु संस्कृतः
पुरोडाशः पञ्चकपालः। प्राप्तो जीविकां, प्राप्तजीविकः। आपन्नो जीविकाम्,
आपन्नजीविकः। अलं जीविकायै, अलंजीविकः। गतिसमास। निष्क्रान्तः कौ-
शाम्ब्याः, निष्कौशाम्बिः ॥
पूर्ववदश्ववडवौ ॥ २७ ॥
अश्ववडवयोर्र्विभाषैकवद्भाव उक्तस्तत्रैकवद्भावादन्यत्र परवल्लिङ्गतायां
प्राप्तायामिदमारभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा चा-
श्ववडवौ। अर्थातिदेशश्चायं न निपातनं, तत्र द्विवचनमतन्त्रं, वचनान्तरेपि पूर्व-
वल्लिङ्गता भवति। अश्ववडवान्, अश्ववडवैरिति ॥
हेमन्तशिशिरावहोरात्रे च च्छन्दसि ॥ २८ ॥
पूर्ववदिति वर्तते। हेमन्तशिशिरौ अहोरात्रे इत्येतयोश्छन्दसि विषये
पूर्ववल्लिङ्गं भवति। हेमन्तशिशिरावृतूनां प्रीणामि। अहोरात्रे इदं ब्रूमः। पर-
वल्लिङ्गतापवादो योगः। अर्थातिदेशश्चायं न निपातनं, तेन द्विवचनमतन्त्रं,
वचनान्तरेपि पूर्ववल्लिङ्गता भवति। पूर्वपक्षाश्चितयः, अपरपक्षाः पुरीषम्, अहो-
रात्राण्योष्टकाः। छन्दसीति किम्। दुःखे हेमन्तशिशिरे। अहोरात्राविमौ
पुण्यौ। छन्दसि लिङ्गव्यत्यय उक्तस्तस्यैवायं प्रपञ्चः ॥
रात्राह्नाहाः पुंसि ॥ २९ ॥
कृतसमासान्तानां निर्देशः। रात्र अह्न अह इत्येते पुंसि भाव्यन्ते। पर-
वल्लिङ्गतायां स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम्। द्विरात्रः। त्रिरात्रः। षडू-
रात्रः। पूर्वाह्णः। अपराह्नः। मध्याह्नः। द्व्यहः। त्र्यहः ॥ अनुवाकादयः पुंसीति
वक्तव्यम् ॥ * ॥ अनुवाकः। शंयुवाकः। सूक्तवाकः ॥
अपथं नपुंसकम् ॥ ३० ॥
अपथशब्दो नपुंसकलिङ्गो भवति। अपथमिदम्। अपथानि गाहते
मूढः। इह कस्मान्न भवति, अपथो देशो, ऽपथा नगरी। तत्पुरुष इति वर्तते ॥
अर्धर्चाः पुंसि च ॥ ३१ ॥
अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाव्यन्ते। अर्धर्चः। अर्धर्चम्।
गोमयः। गोमयम्। शब्दरूपाश्रया चेयं द्विलिङ्गता न विवक्षाभेदेनापि व्यव-
तिष्ठते। यथा पद्मशङ्खशब्दौ निधिवचनौ पुंलिङ्गौ। जलजे उभयलिङ्गौ। भूत-
शब्दः पिशाचे उभयलिङ्गः। क्रियाशब्दस्याभिधेयवल्लिङ्गम्। सैन्धवशब्दा लवणे
उभयलिङ्गः। योनिशब्दस्याभिधेयवल्लिङ्गम्। सारशब्द उत्कर्षे पुंलिङ्गः न्यायाद-
६