काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 126, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ २ ॥ ३ ॥ १९८
कारके षष्ठी विभक्तिर्भवति । जसु हिंसायां, जसु ताडने, इति च चुरादौ पठ्यते
तस्येदं ग्रहणं, न दैवादिकस्य जसु मोक्षणे इत्यस्य *। चौरस्योज्जासयति। वृषल-
स्योज्जासयति । निप्रहण इति संघातविगृहीतविपर्यस्तग्रहणम्। चौरस्य निप्रघ्न-
न्ति। चौरस्य निहन्ति। चौरस्य प्रहन्ति। चौरस्य प्रणिहन्ति। चौरस्योन्नाटयति ।
वृषलस्योन्नाटयति । चौरस्य क्राथयति । वृषलस्य क्राथयति । निपातनाद् दीर्घः ।
अयं हि घटादौ पठ्यते अथ क्रथ क्लथ क्रथ हिंसायां इति, तत्र घटादयो मित इति
मित्संज्ञायां मितां ह्रस्व इति ह्रस्वत्वं स्यात् । चौरस्य पिनष्टि। वृषलस्य पिनष्टि।
हिंसायामिति किम् । धानाः पिनष्टि। शेषइत्येव । चौरमुज्जासयति । एषामिति
किम् । चौरं हिनस्ति । निप्रहण इति किम् । चौरं विहन्ति † ॥
व्यवहृपणोः समर्थयोः ॥ ५७ ॥
व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभ-
क्तिर्भवति । द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः । शतस्य व्यवहरति ।
सहस्रस्य व्यवहरति । शतस्य पणते। सहस्रस्य पणते। आयप्रत्ययः कस्मान्न भवति।
स्तुत्यर्थस्य पणतेरायप्रत्यय इष्यते ‡॥ समर्थयोरिति किम् । शलाकां व्यवहरति ।
विक्षिपतीत्यर्थ