हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
५२६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
तत्र श्लोकः—
इत्येते त्वभिविज्ञेयाः प्रदेशा दन्तयोर्दश ।
यथावदनुपूर्वेण शिक्षाविद्भिरुदाहृताः ॥
बहिर्मुखे दन्तान्तरे प्रतिमानम् । तस्य पार्श्वयोः शम्बुके । प्रतिमानस्योपरि
मध्ये मुखस्य वाहित्थम् १ । तस्य पार्श्वयोर्विलागौ । विलागयोरुपरि कर्कटम-
ध्ययोः कटस्रोतसी । कटस्रोतसोरधस्तात्कटप्रस्रावौ । कटप्रस्रावयोरधस्ता-
द्गण्डौ । गण्डयोरधस्तात्कपोलौ । कपोलयोर्मध्ये रोमकूर्चौ । रोमकूर्चयोरध-
स्ताद्धनू । हन्वोरधस्तात्सगदे । तयोः संधिः सगदासंधिः । एतयोरन्तरं सग-
दान्तरम् । कटयोः पार्श्वतो घाटे । घाटयोरुपरि कटसंधी । कटसंध्याश्रितौ
श्रवणाविति ॥
तत्र श्लोकः—
त्रयस्त्रिंशदिह प्रोक्ताः प्रदेशा मुखमाश्रिताः ॥
प्रतिमानप्रभृत्येते क्रमशः शास्त्रनिश्चिताः ॥
चक्षुषोरक्षिगुहे । अक्ष्णोरुपर्यक्षिकूटौ । अक्ष्णोरधस्तादक्षिस्रावौ ।
अक्ष्णोः पूर्वभागयोः कनीनिके । पश्चाद्भागयोरपाङ्गौ । पक्ष्ममण्डले वर्त्ममण्डले
शुक्रमण्डले कृष्णमण्डले दृष्टिमण्डले पक्ष्मवर्त्मसंधी वर्त्मशुक्रसंधी शुक्लकृष्ण-
संधी कृष्णदृष्टिसंधी कनीनिकासंधी चेति ॥
तत्र श्लोकः—
प्रदेशा नेत्रयोरेते द्वात्रिंशदिह कीर्तिताः ।
दृष्टिमण्डलसंयुक्ता व्यक्ता द्वादश संधिजाः ॥
शिरसि वाहित्थम् । वाहित्थस्योपरि कुम्भौ । एतस्याभ्यन्तरे कुम्भान्त-
रम् । एतस्याग्रे कुम्भस्योपरि बिम्बकौ । बिम्बकपार्श्वयोः पाकले । अक्षिकू-
टोपरीषीके । इषीकयोर्मध्य इषीकान्तरादूर्ध्वं इषीकाग्रे । इषीकाग्रयोर्बहिः
पार्श्वे निर्याणम् । पार्श्वयोरधस्तान्निर्याणसंधी । निर्याणसंध्योरूर्ध्वं बिम्बकस्यो-
परीषीकाग्रमध्ये तिर्यगायतोऽवग्रहः । अवग्रहस्योपरि पुरस्कारः । पुरस्कारस्यो-
परि निर्याणम् । तयोरन्तर उभता तिर्यगायताऽवग्रहवर्तिः । अवग्रहवर्त्या
उपरि मस्तको । मस्तकयोर्मध्ये बिंदुः । मस्तकयोर्बहिःपार्श्वयोर्विताने निर्या-
णयोः पश्चात्पार्श्वयोः कूर्ममस्तकसंघी केशाश्चेति ॥
तत्र श्लोकः—
१ क. ख. प्रदेशे । २ क. ख. ॰वगाहः । ३ क. ख. विदू ।
चतुर्विंशतिरित्युक्ताः शिरसः क्रमशः मया ।
यथावदनुपूर्वेण प्रदेशा हस्तिनामिह ॥
कर्णयोः कर्णाग्रे कर्णपर्वतौ । कर्णयोरधस्तात्प्राक्कर्णौ कर्णमध्ययोः । तयोः
पर्यन्तौ मध्यकर्णी । कर्णयोरधस्तात्कर्णपाली । कर्णयोर्बहिर्बहिष्कर्णी, अन्तरेऽ-
न्तष्कर्णी कर्णपर्वतौ । कर्णयोः कर्णपिञ्जूषौ । कर्णावर्तपार्श्वयोः कर्णपिञ्जूकौ ।
कर्णावर्तपार्श्वपार्श्वयोः कर्णपञ्जुकौ । अधस्तात्कर्णसंधि । ततः श्रोत्रे । श्रोत्रपा-
र्श्वयोर्वातालके कर्णचूलिके कर्णपिप्पल्यावुचानवत्पावुचातौ चेति ॥
तत्र श्लोकः—
एते कर्णाश्रिताः शास्त्रे संख्यया दन्तिनामिह ।
त्रिंशत्प्रदेशा व्याख्याता यथावदनुपूर्वशः ॥
ग्रीवायां ग्रीवापृष्ठम् । तस्याधस्ताद्गलः । ततः कण्ठपार्श्वयोर्धमन्यौ । गल-
पार्श्वयोर्दुर्दुरौ । दुर्दुरयोरुपरि मन्ये । मन्ययोरुपरि (†गुहे । गुहाभ्यां समुद्रौ ।
समुद्रपार्श्वयोः पिण्डिके । पिण्डकयोरुपरि गुहाभागौ । तयोर्पतस्थाने) । यत-
स्थानपार्श्वयोः पाष्णिर्घातौ । पाष्णिर्घातयोरुपर्युत्सङ्गो । उरसङ्गयोरुपरि
स्कन्धः । स्कन्धमध्ये पणवकश्चेति ॥
तत्र श्लोकः—
त्रयोविंशतिरित्येते संख्यया परिकीर्तिताः ।
ग्रीवाप्रदेशा नागानां क्रमशः शास्त्रनिश्चिताः ॥
उरसि ग्रीवासंध्याश्रितोऽन्तर्मणिः । अन्तर्मणेरधस्तादुरोमणिः । उरोमणि-
पार्श्वयोर्गात्रसंध्याश्रितो विक्षोभो । विक्षोभयोर्मध्य आवर्तमणिः । आवर्तमणेः
प्रभृति हृदयम् । हृदयादुरः । ततः संधिः । उरोगात्रमध्ये चतुरक्षान्तरमिति ॥
तत्र श्लोकः—
प्रदेशाः सप्त संख्याता उरसस्तु नृपोत्तम ।
हृदयस्थानप्रदेशान्प्रवक्ष्याम्यत उत्तरम् ॥
हृदय(ये) स्तनौ । (यं) चूचुकयोर्मध्ये क्षीरिके इति ॥
तत्र श्लोकः—
हृदयस्थानसह (?) ते व्यक्ता मे जठराश्रयाः ।
दश प्रदेशा व्याख्याता दन्तिनामिह संख्यया ॥
गात्रयोरासनपार्श्वयोः प्रतीकासो । प्रतीकासयोरधस्तादंसौ । अंसाधस्तात्प्र-
त्यंसौ । प्रत्यंसाधस्ताद्बाहू । बाहुमध्ययोरुपरि प्रत्यंसफलकौ । अंसफलकाध-
† धनुश्चिह्नगतं कपुस्तके न ।
स्ताद्गात्रसंधयः । संघयोरधस्तात्क्षयौ । क्षययोरधस्तात्पृष्ठतो वहिः । तयोरधः
पुरस्तात्पिण्डिकौ । पिण्डकयोरधस्ताद्वेशाखौ । वेशाखयोरधस्ताज्जवभागौ ।
जबभागयोरधस्ताद्विशेषौ । विशेषयोरधस्तादुत्सङ्गौ । उत्सङ्गयोरधस्तात्प्रो-
त्साहौ । प्रोत्साहयोरधस्तात्पर्वेणी । पर्वेण्योरधस्तात्संधानभागौ । संदानभाग-
योरधः पश्चिपादौ । तयोरधः कूर्मौ । ततो दश नखाः । ततो दश नखविशि-
खाः, दश नखाग्राणि । ततो राज्यः । ततः पश्चात्पादयोर्दश नखाः । तेषा-
मुभौ पुरोनखौ । पुरोनखद्वयस्य प्रत्येकं बहिःपार्श्वे द्वौ सनखौ । अन्तःपार्श्वे नख-
श्रा(स्रा)वौ । तेषां चतुर्णां बहिःपार्श्वतश्चत्वारः पार्श्वे नखाः । इत्येवं नखा
विंशतिः । पार्श्वनखयोरुपरि बहिःपार्श्वेऽपराजयः । अन्तःपार्श्वे नखयोरुपरि
तलमोहौ । तलमोहयोरुपरि विक्षे । विक्षयोरुपरि पलिहस्तौ । पलिहस्ताभ्य-
न्तरे निवाहू । पलिहस्तयोरधस्तात्माकर्णौ *नवहौ । पलिहस्तयोरुपर्यप-
स्कारौ । अपस्कारयोरुपरि पाद्यौ । पाद्ययोरधस्ताद्गात्रग्रहो ॥
तत्र श्लोकः—
षडेते नवतिश्चैव प्रदेशा गात्रसंश्रिताः ॥
आसनात्प्रभृति †श्रीमन्ना तलात्परिकीर्तिताः ॥
काय आसनम् । आसनात्परो वंशः । वंशपार्श्वे तलपलौ । वंशादुपरि कुवंशः ।
कुवंशस्य मध्ये पश्चिमासनम् । पश्चिमासनात्परं त्र्यस्थि । तस्योभयपार्श्वयोरु-
त्कृष्टौ । अस्यः परो लाङ्गूलवंशः । पश्चिमवंश इत्येके । अपरवंश इत्यपरे ।
लाङ्गूलवंशस्याधस्ताल्लाङ्गूलसंधिः । लाङ्गूलसंधेरधस्तात्पेचकः । पेचकाधस्ता-
द्गुदः । पायुरित्येके । गुदाधस्तात्करीषस्रावः । कायस्य मध्ये कक्षाभागौ ।
कक्षाभागपार्श्वयोः करणौ । ततः पृष्ठतः पादौ पत्र प्रतिबद्धाः पर्युकाः । पक्ष-
योरुपर्यवतारौ । पक्षपश्चाद्भागयोः कुक्षी । कुक्षिमध्ये निष्कोसौ । ततः
संकोसौ । तयोरुपरि मृदुकुक्षी । वंशस्य पश्चाद्भागाश्रितौ पक्षसंधी । ततः पक्षयो-
रधस्तादायामकाण्डौ । तयोरधः कक्षौ । आयामकाण्डयोः पश्चादपरसंधिः ।
अपरसंधेरधस्तादनुसारी । तत्र आहृदयाज्जठरम् । जठरमध्ये कोशम् । कोशस्या-
ग्रतो नाभिः । तत एव हृदपादानुस्रुतान्तरं स्तनाः । तस्याः पार्श्वे स्तनौ ।
उत्कृष्टसंधयोरधस्तादुत्कृष्टसंधी इति ॥
तत्र श्लोकः—
* निवाह्वोः पलिहस्तयोरिति भवेत् । † 'श्रीमन्ना तलात्' इति भवेत् ।
१ ख. प्रोत्सयो° । २ क. प्रदेशे ।
्योरधस्तात्तलप्रोहो- wait, the first syllable isप्र, second is हो? Wait, is it तलप्रहोorतलप्रोहो? Look at the letter after ल: it has प्र(noो!), then हो. So तलप्रहो! Wait, in line 7: पाष्ण्योरधस्तात्तलप्रहो तयोरभ्यन्तरपार्श्वे कचाः । बहिःपार्श्वे राज्यः । तलप्रो- हयोरधस्तात्तलकर्णौ । Ah! Line 7 hasतलप्रहो, and at the end of line 7 it has तलप्रो-, and line 8 has हयोरधस्तात्! So one is तलप्रहो, the other is तलप्रोहयो-`! That's an inconsistency in the print, perfectly typical.
Check Line 16:
मेढ्रर्नस्तलः ।
Wait, is there a footnote marker?
Footnote 4 says: ४ क. ॰नस्तानळः ।
In text: मेढ्रर्नस्तलः ।
Wait, is मेढ्रर्नस्तलः or मेढ्रनस्तलः?
Look at मेढ्रर्नस्तलः: मेढ्र + र्नस्तलः with a repha over
एतानि पञ्च दश च हस्तिमोऽङ्गानि ये श्रिताः ।
चतुःषष्टिशतं प्रोक्तं ते प्रदेशाः प्रमाणतः ॥
शरीरं हि चिकित्सायाः प्रदेशज्ञानमुच्यते ।
शरीरमेवं विज्ञाय प्रदेशैर्बहुभिर्वृतम् ॥
वारणानां यथाशास्त्रं प्रतिकर्म प्रयोजयेत् ।
विदितेषु प्रदेशेषु सुखं कर्माणि वेदिषुः (?) ॥
कर्मणामनेभिज्ञस्तु गजं व्यापादयेद्भिषक् ।
वातेनैव विना तस्याः प्रयोगो नेष्यते क्वचित् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने प्रदेशज्ञानं
नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
अथ त्रिंशोऽध्यायः ।
अथासनस्थमासीनमभिवाद्याङ्गराजो रोमपाद*(एव)मब्रवीत् — 'भगवञ्छास्त्रे
छेद्यभेद्यलेख्यविस्रावणविदारणैषणसीवनान्युक्तानि कर्माणि । तत्र कीदृशेन
किंसमुत्थेन वा शस्त्रेण कीदृशं किं कर्म चानुष्ठेयम् ॥
अथोवाच भगवान्पालकाप्यः— इह खलु भो हस्तिनामागन्तवो दोषसमु-
त्थाश्च व्रणविधयो बहुविधा भवन्ति । तेषां दोषप्रशमनार्थं शस्त्रविधानं
संस्थानप्रमाणतश्च वक्ष्यामः ॥
तत्र कुण्ठं खरधारं वक्रं ह्रस्वर्मनतिस्थूलं दीर्घमानतं खण्डं वर्जयेत् । गुण-
वद्विपरीतं न चातिनिशितं शस्त्रमवचारयेत् ॥
तत्र तीक्ष्णेनायसा विधिवन्निष्पन्नेन कुशलकर्म्मारः शस्त्राणि कुर्यात् । तदु-
त्त्तमेन हि द्रव्येणोत्तमेन चाऽऽचार्येण क्रियया चोत्तमया कृतं शस्त्रं कार्यं
साधयेदिति । तस्मात्प्रयत्नः कार्यः शस्त्राणामुत्तमानां करणे ॥
तत्र शस्त्राणि दशनामसंस्थानानि भवन्ति । तद्यथा—वृद्धिपत्रम्, कुशप-
त्रम्, मण्डलाग्रम्, व्रीहिमुखम्, कुठाराकृति, वत्सदन्तम्, उत्पलपत्रम्,
शलाका, सूची, रम्पकश्चेति । फालजाम्बेवतापिंकादर्व्याकृतयश्चेति । एतान्य-
ग्निकर्मविधाने चत्वारि चान्यानि शल्योद्धरणानि यथायोगं सिंहदंष्ट्रं गोधामुखं
* आदर्शद्वयेऽप्यदृष्टः पूरितः ।
१ क. ॰नसाऽभि॰ । २ ख. वातोऽनेन । ३ क. चक्रं । ४ क. ॰मति॰ ।
५ क. ॰तिशीतं । ६ क. ॰म्ब्वौष्ठता॰ ।
३० शस्त्रविध्यध्यायः ] हस्त्यायुर्वेदः । ५३१
कङ्कमुखं कुलिशमुखं चेति । तिस्र एषिण्यः । एकविंशतिरेव वाऽयोमयानि
साधनानि भवन्ति । तेषां संस्थानं प्रमाणं कर्माणि वक्ष्यामः-तत्र दशाङ्गुल-
प्रमाणं वृद्धिपत्रम् । षडङ्गुलप्रमाणं वृत्तम् । चतुरङ्गुलप्रमाणं पत्रम् । त्र्यङ्गुल-
विस्तीर्णं पाटनार्थं छेदनार्थं चेति । षडङ्गुलवृत्तमर्धाङ्गुलं सर्वतः । तत्र पूर्णच-
न्द्राकृतिरग्रे मण्डलाग्रम् । लेखनार्थमक्ष्णोर्व्रीहिमुखम् । उत्पलपत्रकमष्टाङ्गुलमेवै-
कम् । तच्चाष्टाङ्गुलप्रमाणमध्यर्धाङ्गुलविस्तृतमुभयतोधारं ( * व्रीहिमुखाकृति
व्रीहिमुखम् । मुखभेदनार्थं छेदनभेदनार्थं चेति । नवाङ्गुलं कुशपत्रम् । पञ्चा-
ङ्गुलं वृत्तम् । चतुरङ्गुलं पत्रम् । अध्यर्धाङ्गुलतुलविस्तृतमुभयतोधारं ) कुशप-
त्राकृति गम्भीरपाकभेदनार्थं षडङ्गुलं वृत्तम् । अध्यर्धाङ्गुलं पत्रम् । पूर्णचन्द्रा-
कृत्याग्रमण्डलाग्रम् । लेखनार्थमक्ष्णोर्व्रीहिमुखप्रमाणमुत्पलपत्रं भेदनार्थं कुठा-
राकृति कुर्यात् । कुठारो (?) शस्त्रप्रच्छेदनार्थम् । वत्सदन्ताकृति वत्सदन्तं
दशाङ्गुलम् । एकैकमध्यर्धाङ्गुलमुखम् । एवमेतानि च त्रीण्यपि यथायोगं प्रच्छ-
नार्थम् । सूची सेवनार्थम् । अष्टाङ्गुलं नागदन्ताकृति । त्र्यस्रा चतुरस्रा वा दृढा
समाहिता समा वा शलाका वने वर्त्मविधृत्यर्थम् । रम्पकस्त्र्यङ्गुलमुखो दशाङ्गुल-
वृत्तः पादशोधनार्थं नखच्छेदनार्थं चेति। एषणी दशाङ्गुला विंशत्यङ्गुला त्रिंशद-
ङ्गुला यथायोगमञ्जनशलाकाकृति मुखतः श्लक्ष्णा समा चैवेतास्तिस्र
एषण्यः प्रमाणतः कार्याः । कोरण्टकपुष्पाकृति मुखनेत्रताम्रामयं षोडशाङ्गुल-
मनुपूर्वं व्रणानां प्रक्षालनं कुर्याद्विदिशं चक्राग्रमष्टाङ्गुलप्रमाणमक्ष्णोः पटलोद्धर-
णार्थं चेति ॥
तत्र श्लोकः--
यथोक्तान्येवमेतानि शस्त्राणि विधिवद्भिषक् ।
कारयित्वा यथायोगं कुर्याद्व्रणविदारणम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
त्रिंशः शस्त्रविधिरध्यायः ॥ ३० ॥
अथैकत्रिंशोऽध्यायः ।
क्षारयोगं प्रवक्ष्यामि यथा सिध्यति कुर्वतः ॥
विविधानां विकाराणां क्षारः प्रशमने हितः ॥ १ ॥
- धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ॥
५३२ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
देशे प्रशस्ते जातं तु प्रशस्तं ग्राहयेद्द्रुमम् ॥
मुष्ककं मध्यपयसं कोण्डशस्तं प्रकल्पयेत् ॥ २ ॥
अङ्गेरकं दाहयित्वा तु तिलैनालेन संमितम् ॥
तद्भस्म परिनिर्वातं सुनिगुप्तं निधापयेत् ॥ ३ ॥
गोगजाश्वखरमूत्रैरालोड्य विधिवद्भिषक् ॥
परिश्रा(स्रा)व्य च तद्भस्म सप्तकृत्वः पुनः पुनः ॥ ४ ॥
परिश्रु(स्रु)तं तु तं क्षारमायसे भाजने पचेत् ॥
पञ्चभागावहीनं तु तत्र वापं समाचरेत् ॥ ५ ॥
सुवर्चिका सुधाचूर्णं यवक्षारो विडं तथा ॥
कासीसं शङ्खचूर्णं च तथा सौराष्ट्रिकामपि ॥ ६ ॥
चूर्णीकृत्यैतदावापं पच्यमाने विनिक्षिपेत् ॥
दर्व्या च घट्टयेत्सम्यग्यावद्दर्विप्रलेपनम् ॥ ७ ॥
उत्तार्य स्थापयेद्गुप्तं ततो वैद्यः प्रयोजयेत् ॥
व्रणा येऽल्पव्रणा राजन्दुष्टमांसार्चितांश्च ये ॥ ८ ॥
सास्रावा नाडिका जन्तोः कृमिदुष्टाश्च ये व्रणाः ॥
कण्डूमन्तः प्रदुष्टाश्च ये च केशाः प्रकीर्तिताः ॥ ९ ॥
वातिकाः पैत्तिकाश्चापि श्लैष्मिकाश्चापि ये व्रणाः ॥
क्षारेणानेन साध्यास्तु यथायोगं भिषग्जिता ॥ १० ॥
गम्भीरानुशया ये च व्रणास्ते राजसत्तम ॥
सुरा सौवीरकं चापि व्रणप्रक्षालनं हितम् ॥
इत्ययं क्षारयोगस्तु पालकाप्येन कीर्तितः ॥ ११ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थान
एकत्रिंशः क्षाराध्यायः ॥ ३१ ॥
अथ द्वात्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
भग्नं कतिविधं दृष्टं भगवन्ब्रूहि तत्त्वतः ॥ १ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शरीरे पूर्वमुक्तानि यानि चास्थीनि दन्तिनाम् ॥ २ ॥
१ ख. काण्डशस्त्रं । २ क. ॰लताले॰ । ३ क. ॰नुगता ये ।
३२ भग्नचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । ५३३
अस्थ्नां तेषां प्रवक्ष्यामि यथावद्भङ्गकारणम् ॥
पतने ह्यवपाते च समरेऽभिहतस्य च ॥ ३ ॥
स्खलनभ्रंशनावेधैः पतनैरपि दन्तिनाम् ॥
नागानामभिघातैर्वा भज्यन्तेऽस्थीनि सर्वशः ॥ ४ ॥
तेषां नामापि वक्ष्यामि भग्नानां मनुजाधिप ॥
निष्पिष्टमथ विश्लिष्टं तथा प्रक्षिप्तमेव च ॥ ५ ॥
तिर्यक्क्षिप्तमतिक्षिप्तं मुक्तकाण्डं च यद्भवेत् ॥
स्थापितं जर्जरीभूतं चूर्णितं मथितं च्युतम् ॥ ६ ॥
मज्जानुजातं मथितं भग्नं चैव तथा स्मृतम् ॥
त्रयोदशविधं त्वेवं भग्नं भवति दन्तिनाम् ॥ ७ ॥
यथावदनुपूर्वेण कीर्तितं ते मया नृप ॥
पालकाप्यवचः श्रुत्वा ततः प्रोवाच पार्थिवः ॥ ८ ॥
तत्र यच्छिन्नभिन्नं च स्फोटितं मोटितं तथा ॥
त्वङ्मांसममृतं चैव स्थानभ्रष्टं च यद्भवेत् ॥ ९ ॥
कथं तदभिजानीयात्काण्डमुक्तं तथैव च ॥
एतन्मे पृच्छतः सर्वं भगवन्वक्तुमर्हसि ॥ १० ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
नातिमात्रं भवेच्छोफो वेदना च न शाम्यति ॥ ११ ॥
अस्थिस्थाने स्थितं दृष्ट्वा निष्पिष्ट इति तं विदुः ॥
यः संधिदेशे श्वयथुर्यदा वा स्याद्रुजाऽन्वितः ॥ १२ ॥
एभिर्लिङ्गैर्महाराज विद्याद्विश्लिष्टमेव तु ॥
निवृत्तो विषमः संधिर्गात्रदेशे यथा भवेत् ॥ १३ ॥
वेदना वर्धते वाऽपि तथा ह्युत्क्षिप्तमादिशेत् ॥
यद्वै पार्श्वगतं स्थानात्तिर्यक्क्षतमिति स्मृतम् ॥ १४ ॥
अतिक्रान्तं भवेत्संधिं तद्वा निक्षिप्तमुच्यते ॥
वेदना शूनभावश्च केवलं विच्युते सदा ॥ १५ ॥
मथितं पृथुलं विद्धि चूर्णितं तु महारुजम् ॥
स्फालितं स्फोटतं नाम जर्जरं जर्जरीकृतम् ॥ १६ ॥
वेदना परिशोषश्च भृशमस्योपजायते ॥
सशल्यमिव चाऽऽध्मातं सरुजं जर्जरं तु यत् ॥ १७ ॥
१ क. ख. ॰त्क्षिप्यमा॰ ।
५३४ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने-
वारणानां महीपाल यथावदुपलक्षयेत् ॥
यदा न क्षमते स्पृष्टं विस्रष्टं शब्दवत्तथा ॥ १८ ॥
विषण्णो वाऽनुवृत्तो वा वारणो न लभेत्सुखम् ॥
भग्नस्यास्थ्नस्तु विज्ञानं वेदना चाभिवर्धते ॥ १९ ॥
स्फालितं त्वस्थिमध्येऽन्यन्मज्जानुगतमेव तत् ॥
काण्डमुक्तं तु यत्किंचिद्भेल्लितं तत्प्रकीर्तितम् ॥ २० ॥
चतुर्विधानामस्थ्नां तु तेषां वक्ष्यामि लक्षणम् ॥
कपालास्थीनि भिद्यन्ते भज्यन्ते नालिकास्तथा ॥ २१ ॥
नाम्यन्ते तरुणास्थीनि स्फुटन्ति रुचका नृप ॥
अत्यर्थमभिघाताच्च मन्यते चूर्ण्यते तथा ॥ २२ ॥
अस्थित्रयं नृपश्रेष्ठस्तरुणास्थिसुखक्रियाम् ॥
इति भङ्गाः समुद्दिष्टा यथावदनुपूर्वशः ॥ २३ ॥
चिकित्सोपक्रमस्तेषां साध्यासाध्यं च वक्ष्यते ॥
( * अप्राप्तं .... .... .... .... .... .... .... .... ) ॥ २४ ॥
अत ऊर्ध्वं महाराज चिकित्सां न प्रयोजयेत् ॥
स्थानस्थश( † यनं चात्र) यन्त्रे वाऽपि प्रतिष्ठिते ॥ २५ ॥
वारणं शीतलेनाथ जलेन परिषेचयेत् ॥
( * .... .... .... .... .... .... लभते सुखम्) ॥ २६ ॥
यस्त्वपर्वणि भङ्गः स्यादसाध्यः स नु कीर्त्यते ॥
ऊर्ध्वं संवत्सराच्चाऽप्यो भङ्गो भवति हस्तिनाम् ॥ २७ ॥
च्युतप्रम्लानविश्लिष्टव्याविद्धेषु महीपते ॥
सर्वेषामेव भग्नानामेतदेव चिकित्सितम् ॥ २८ ॥
कर्तव्यं च मनुष्येण नागानां हितमिच्छता ॥
एवं हि कीर्तितं सर्वं मया भग्नचिकित्सितम् ॥ २९ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्यस्थाने
भग्नचिकित्सितं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
- धनुराकारमध्यस्थौ पाठौ न स्तः कपुस्तके ॥ † धनुराकारमध्यस्थः पाठो
नास्ति खपुस्तके ॥
१ क. मनुष्येन्द्र ।
३३ मूढगर्भापनयनाध्यायः ] हस्त्यायुर्वेदः । ५३५
अथ त्रयस्त्रिंशोऽध्यायः ।
परापरज्ञं तत्त्वज्ञं वेदवेदाङ्गपारगम् ॥
पालकाप्यं महात्मानं रोमपादः स्म पृच्छति ॥ १ ॥
कथं व्यापद्यते कुक्षौ मूढगर्भः कथं भवेत् ॥
लक्षणं मूढगर्भाया गर्भनिर्हरणं तथा ॥ २ ॥
श्र(स्र)वणं लपनं चैव वक्तुमर्हसि(ति) तद्भवान् ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥
विषमशय्यान्पानैश्चौषधिभिश्च क्षुधा तथा ॥
अतियानातिभाराद्वा लङ्घनप्लवनादपि ॥ ४ ॥
वातमूत्रपुरीषाणां धारणादभिघातनात् ॥
उपद्रवान्मनस्तापात्कुक्षौ गर्भो विपद्यते ॥ ५ ॥
आचतुर्थाच्च मासाच्च रक्तं श्र(स्र)वति संनिभम् ॥
ऊर्ध्वं संघातभूतस्तु पतेदासप्तमादपि ॥ ६ ॥
यथापर्यागतं काले फलं वृन्तात्प्रमुच्यते ॥
एवं विमुच्यते गर्भस्तन्तुमुक्तश्च जायते ॥ ७ ॥
पूर्वोक्तकारणैर्वाऽपि यस्याः कुक्षौ विपद्यते ॥
मृतगर्भा तदाऽत्यर्थं पूतिमूत्रपुरीषिणी ॥ ८ ॥
पूतिनिःश्वासिनी क्षामा नै चाऽऽहाराभिलाषिणी ॥
दुर्मना दुर्मनस्का च गुरुप्राणा च हस्तिनी ॥ ९ ॥
विपन्नमत्स्यगन्धा वा मृतगर्भेति तां विदुः ॥
धर्मार्थं च यशोर्थं च मित्रार्थं च भिषग्वरः ॥ १० ॥
भर्तुस्त्वनुमतेनास्या गर्भे शल्यं तु निर्हरेत् ॥
सर्पिषा कल्कमिश्रेण शाल्मल्या धन्वनस्य च ॥ ११ ॥
दक्षिणं करमभ्यर्च्य योनिद्वारं च सर्वशः ॥
विश्वासयित्वा सर्वस्वं पन्नापित्वा च हस्तिनीम् ॥ १२ ॥
प्रवेश्य हस्तं योनौ तु गर्भमार्गेण वा हरेत् ॥
ऋजुमार्गेण नाऽऽगच्छेत्तं तु शस्त्रेण निर्हरेत् ॥
छित्त्वा तथाऽऽनुपूर्व्येण तस्याङ्गानि पृथक् पृथक् ॥ १३ ॥
१ क. नवाहाराविभाषि° । २ क. भर्तुः स्वभिम° । ३ ख. °ल्यं मुनि° ।
५३६ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
अक्लीबो दारुणो भूत्वा त्वरमाणो जितेन्द्रियः ॥
सूतिकारक्षणार्थं तु निःशेषं निर्हरेत्तु तम् ॥ १४ ॥
यदि वाऽपि विशल्योऽयं जरायुर्न प्रमुच्यते ॥
तत्र लाङ्गलकीकन्दं पानमस्यै प्रदापयेत् ॥ १५ ॥
एलागुडसमायुक्तं न चेदेतेन सिध्यति ॥
ततः पूर्वोक्तविधिना हस्तैनैव तु निर्हरेत् ॥
⁕विमृश्य नारीगर्भं च तस्यास्तमपंसंहरेत् ॥
उपाचरेद्विशल्यां च सूतिकाविधिना भिषक् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने मूढग-
र्भापनयनं नाम त्रयास्त्रिंशोऽध्यायः ॥ ३३ ॥
अथ चतुर्त्रिंशोऽध्यायः ।
इदमन्यत्प्रवक्ष्यामि शल्यभूते चिकित्सितम् ॥
प्रशस्ते तिथिनक्षत्रे मुहूर्ते करणे तथा ॥
१४ दन्तोद्धरणाध्यायः ] हस्त्यायुर्वेदः । ५१७
शनैः प्रवेशयेत्सूचींर्यापत्तिर्न भवेद्यथा ॥
तालुस्रोतः करश्रो(स्रो)तस्तथा नेत्रनिबन्धनम् ॥ ९ ॥
शिराः स्नायूश्च रक्षेत्तु उन्मार्गगमनं तथा ॥
त्र्यहात्त्र्यहान्प्रवेशयेतान्यङ्गुलं द्व्यङ्गुलं भिषक् ॥ १० ॥
क्षारेण लेपयेच्चाग्रं तेन मांसं विशुष्यति ॥
प्रवेशयित्वाऽङ्गुलानि विंशतिस्त्रिंशदेव ताः ॥ ११ ॥
चतुर्विंशत्यङ्गुलं वा ततोऽस्थीनि विनिर्दिशेत् ॥
मुखप्रमाणं सत्त्वस्य स्वबुद्ध्या विभजेद्भिषक् ॥ १२ ॥
यदा विमुक्तो मांसेन बन्धमूलाच्चलत्यपि ॥
यन्त्राद्यपायविधिमोक्तैर्बन्धैर्बद्ध्वा मतङ्गजम् ॥ १३ ॥
त्रिभागे वेधयेद्दन्तं शलाकां चानुकारयेत् ॥
तत्र सूत्रमयीं रज्जुं दन्ते बद्ध्वा नवां दृढाम् ॥ १४ ॥
ततोऽन्यां वर्धयेत्तस्मिन्न्रज्जुं वा रज्जुकां(?)दृढाम् ॥
वक्त्रभ्रमरकं यन्त्रं ततोत्सेधायमेव च ॥ १५ ॥
यन्त्रमेकतमं तस्मिन्पुरस्तात्संनिवेशयेत् ॥
ततस्तं योजयेत्प्राज्ञो यन्त्रयोगेन बुद्धिमान् ॥ १६ ॥
प्रक्षिपेच्च बलाद्रज्जुं यथा दन्तो निपात्यते ॥
दन्तमार्गं च नागस्य पूरयेन्मधुसर्पिषा ॥ १७ ॥
जलेऽवगाहयेच्चैनं विमले शीतले च तम् ॥
पानार्थं दापयेत्क्षीरं घृतयुक्तं नराधिप ॥ १८ ॥
शाल्योदनं च सघृतं भोजनाय प्रदापयेत् ॥
पूर्वमेकं च नागाय सर्पिषा दापयेद्भिषक् ॥ १९ ॥
द्विव्रणीयोपचारस्य कर्तव्यं स्यादतः परम् ॥
असाध्यदन्तनाडी या दन्ते यस्येह जायते ॥ २० ॥
दन्तस्रावीति तं विद्यात्तस्योपायः प्रवक्ष्यते ॥
विद्ध्वा दन्तं विभागेन दूषयित्वा करीरकाम् ॥ २१ ॥
तस्मात्तु चालितं रक्तं कृत्वा तु सुपरिश्रु(स्रु)तम् ॥
पूर्वोक्तेनैव विधिना दन्तं नागस्य साधयेत् ॥ २२ ॥
भोजनं चास्य तेनैव क्रमेणोपचरेद्भिषक् ॥
भज्यते यस्य वा दन्तः पतेद्वा सकरीरकः ॥ २३ ॥
६८
५३८ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
वनं प्रस्थापयेत्तं तु न तस्मै प्रतिकारयेत् ॥
उन्मार्गगमने सूची दोषानुत्पादयेद्बहून् ॥ २४ ॥
व्यापदश्चास्य जायन्ते यास्ता निगदतः शृणु ॥
शोफोऽस्य कूर्मसंस्थानो मांसं दूषयते यदा ॥ २५ ॥
मांसधावनतुल्यस्तु श्रा(स्रा)वश्चास्य प्रवर्तते ॥
श्रो(स्रो)तसा प्रस्रवत्युग्रं श्रो(स्रो)तः संदूषयेद्यदा ॥ २६ ॥
व्यापत्संजायते नेत्रे दूषिते नेत्रबन्धने ॥
वेदना गद्गदत्वं च स्नायुच्छेदे प्रजायते ॥ २७ ॥
यवनिकाथतुल्यस्तु श्रा(स्रा)वस्तस्य प्रवर्तते ॥
करकर्णास्यसंतप्तः शिराः संदूषयेद्यदा ॥ २८ ॥
श्रा(स्रा)वो माञ्जिष्ठतुल्यो वा रक्तो वाऽथ प्रवर्तते ॥
वैकल्यं जायते चास्य प्राणेर्वाऽपि प्रयुज्यते ॥ २९ ॥
अतोऽर्थं रक्षयेद्राजन्नुन्मार्गगमनाद्भिषक् ॥
सद्यः क्रियामथोत्सृज्य मेत्वाऽवस्थां च पीडितः ॥ ३० ॥
सद्यःक्षतविधानोक्तां क्रियां तस्येह कारयेत् ॥
शोफस्योपशमं दृष्ट्वा वेदमायास्तथैव च ॥ ३१ ॥
आरभेत्स(त) ततो दन्तं पूर्वोक्तेनैव कर्मणा ॥
मन्दोष्मा जायते शोफो वेदना च तथा भवेत् ॥ ३२ ॥
सम्यक्श्रा(स्रा)वसमये सूच्याः छेदश्चैवोपजायते ॥
अत्यर्थं च यदा सूची दन्तं नागस्य कर्षति ॥ ३३ ॥
तदा सुखं न लभते भज्यते वा न संशयः ॥
तत उत्सृज्य तां सूचीं पुनः सम्यक्प्रवेशयेत् ॥ ३४ ॥
पूर्वोदितविधानेन व्यापत्तिर्न भवेद्यथा ॥
.... .... .... .... .... .... .... .... ॥ ३५ ॥
.... .... .... .... .... .... .... .... ॥
इत्युक्तो भूमिपालेन पालकाप्यस्ततोऽब्रवीत् ॥ ३६ ॥
यष्टिदन्ताः सदन्ताश्च प्रशलाकास्तथाऽपरे ॥
राजिदन्ता ग्रन्थिदन्ताः पर्वदन्तास्तथाऽपरे ॥ ३७ ॥
१ ख. सत्त्वावस्थां । २ ख. उत्सृजतां । ३ क. पूर्वोद्दिष्टवि० । ४ क. ख.
०न्तास्तु द० ।
३४ दन्तोद्धरणाध्यायः ] हस्त्यायुर्वेदः । ५३९
वल्लीदन्ताश्च वक्राश्च द्विपुटात्रिपुटास्तथा ॥
अतिदीर्घाश्च ह्रस्वाश्च अतिस्थूलाः कृशास्तथा ॥ ३८ ॥
भवन्ति दन्ता नागानां दुर्भगा विषमास्तथा ।¹
एवं बहुविधा भेदा दन्तानां दन्तिनां नृप ॥ ३९ ॥
महाविफलपाश्चत्वारः शृणु कीर्तयतो मम ॥
अन्तर्मुखावृर्ध्वमुखावधःपार्श्वगतौ तथा ॥ ४० ॥
दन्तावृर्ध्वमुखौ यौ तौ करालाविति निर्दिशेत् ॥
आपाण्डुरौ पार्श्वमुखावाग्यो.........वाऽप्यधोमुखौ ॥ ४१ ॥
दन्तावनुगतौ हस्तं मानं हस्तौ तु तौ विदुः ॥
आभ्यन्तरगतौ यस्य सदन्तः स तु कीर्तितः ॥ ४२ ॥
संमुखौ संकटौ ज्ञेयौ विशालौ चास्थिसंमितौ ॥
एकपार्श्वां मुखाभ्यां² तु सं³ साधीत्युच्यते नृप ॥ ४३ ॥
एते विशल्या⁴ व्याख्याताः शृणु दोषानुपक्रमम् ॥
पूर्वोक्तैः कारणैर्युक्तो दन्तो यस्येह दृश्यते ॥ ४४ ॥
कल्पयित्वा तु तं दन्तं लक्षयेद्यत उद्यतः ॥
अनुपूर्वं ततः कृत्वा तत्रान्यं योजयेद्दृढम् ॥ ४५ ॥
काष्ठदन्तोपमं कृत्वा माहिषं शृङ्गमवे च ॥
मूले तु कर्तरि कृत्वा दन्तमूलसमं नृप ॥ ४६ ॥
कुशलं शिल्पिनं चैव ग्राहयित्वा समन्ततः ॥
आपसैश्च त्रिभिः पट्टैः कीलां चास्यानुकारयेत् ॥ ४७ ॥
सूचीप्रयोगाद्दतस्य तथा पीडनमेव च ॥
तेनेव विधिना राजन्यो मया परिकीर्तितः ॥ ४८ ॥
—:() :—
अतः परं प्रवक्ष्यामि दन्तानां संभवं नृप ॥
वातकुम्भादधस्तात्तु वृत्ताः स्युः सकरीरिकाः ॥ ४९ ॥
संभूता नृपशार्दूल विज्ञेयो वातसंभवाः ॥
रन्ध्रधुवाश्च विज्ञेया दन्तमध्ये व्यवस्थिताः ॥ ५० ॥
सप्तत्रिंशच्च पञ्चाशत्त्रिंशच्चैव प्रमाणतः ॥
नधुंभपाद्रिवा(चा)रीणामङ्गुलानि करीरिकाः ॥ ५१ ॥
१ क. दुर्गता । २ क. मुखाभ्यां । ३ क. समाधी° । ४ ख. विशल्या ।
५ ख. सचाप° । ६ क. °या क्षत° । ७ क. °धुर्भवाद्रि° ।
५४० पालकाप्यमुनिविरचितो-
षडङ्गुला नदीजस्य वृद्धिर्भवति दन्तयोः ॥
अष्टाधं विश्वरूपस्य त्र्यङ्गुलं गिरिचारिणः ॥ ५२ ॥
मारुतस्तु यदा चे(वे)ष्टौ दूषयित्वोष्मणा सह ॥
मत्कुणस्तेन जायेत अग्राह्यः स तु दन्तिनाम् ॥ ५३ ॥
एकवेष्टनिरोधेन एकदन्तो भवेन्नृप ॥
द्विदन्तानां तु नागानां प्रकृत्या जायते नृप ॥ ५४ ॥
त्रिदन्ताश्चापि जायन्ते चतुर्दन्तास्तथाऽपरे ॥
पिशाचाश्चासुराश्चैव न तेषां ग्रहणं स्मृतम् ॥ ५५ ॥
गृहीताः पापमिच्छन्ति स्वभावानुगतास्तथा ॥
स्पृशन्ते यस्य सङ्गाय दृश्यन्ते वा नराधिप ॥ ५६ ॥
न तस्य ग्रहणं कार्यं परराष्ट्रं तमुत्सृजेत् ॥
न्यूनाधिकत्वं नागानां वैषम्यं वैकृतं तथा ॥ ५७ ॥
तत्सर्वं मारुताद्विद्धि समत्वं चैव यद्भवेत् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रणोदितः ॥ ५८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे वृद्धोपदेशे तृतीये
शल्यस्थाने दन्तोद्धरणं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
समाप्तं चेदं तृतीयं शल्यस्थानम् ॥
१ क. मारुतस्य ।
इममाख्याहि पृच्छतः ॥
- तैर्हि मे वाहनं तुल्यमन्यद्भुवि न विद्यते ॥ ८ ॥
- तेषां कतिविधः स्नेहः कीदृशः किंप्रयोजनः ॥
- कत्युपायाः कथं चापि प्रदातव्यो विजानता ॥ ९ ॥
- यच्चान्यदपि नागानां कर्तव्यं हितमिच्छता ॥
- तदशेषेण भगवन्सर्वं व्याख्यातुमर्हसि ॥ १० ॥
- ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
- पृच्छते रोमपादाय प्रश्नं गजहितं शुभम् ॥ ११ ॥
- सर्पिस्तैलं वसा मज्जा संस्कृतासंस्कृतं भवेत् ॥
- वारणेभ्यः प्रदातव्यं स्नेहजातं चतुर्विधम् ॥ १२ ॥
- सर्वौषधप्रयोगेभ्यः स्नेहपानं मतं मम ॥
- स्नेहपानं प्रशंसन्ति पूर्वाचार्या मनीषिणः ॥ १३ ॥
- तद्धि वर्णकरं बल्यं सर्वव्याधिहरं स्म
स्नेहपाने विधिं कृत्स्नं तमिमं प्रवरं शृणु ॥
आषाढे समतिक्रान्ते श्रावणे पर्युपस्थिते ॥ १५ ॥
बहुलेऽवातिक्रान्ते च शुक्ले स्नेहं समावपेत् ॥
यदाऽल्पसारं तरुणं तृणं वर्षासु लक्ष्यते ॥ १६ ॥
स्नेहपानं तथा कार्यं रोगघ्नं बलवर्धनम् ॥
सम्यक्परिणमेच्छिष्य(च्छष्प)मल्पसारं तथाऽसितम् ॥ १७ ॥
लघुत्वात्तैलवृद्धौ च हितं न हितमन्यथा ॥
॰शीतकालश्च विहितः शीतसात्म्या हि हस्तिनः ॥ १८ ॥
भूर्यम्बुपानेन तदा मन्दतृष्णा तदा भवेत् ॥
अहितं मृत्तिकादीनां सततं यन्निषेवते ॥ १९ ॥
तद्वह्निव्यक्तिं निष्पिष्टं तैलं काले निषेवितम् ॥
ऋतुसंधौ विशेषेण यो देहे कुपितोऽनिलः ॥ २० ॥
तं तैलं हन्ति सहसा शक्रः शत्रुमिवौजसा ॥
आर्तवं तु यथाकामं पाययेन्नत्वनार्तवम् ॥ २१ ॥
मन्यन्तेऽनार्तवेऽप्यन्ये स्नेहं प्रायोगिकं जनाः ॥
मदकोदकदुग्धैश्च सुरया विधयाऽपि वा ॥ २२ ॥
संयुक्तं दन्तिनां देयं क्वचित्क्वचिदसंप्रुतम् ॥
तेषामभ्यञ्जने पाने नस्तकर्मानुवासने ॥ २३ ॥
मेढ्रतः कटतश्चैव प्रदानं षड्विधं स्मृतम् ॥
व्याधिनिर्ग्रहणार्थं च बलार्थं चैव दन्तिनाम् ॥ २४ ॥
स्नेहपानं महीपाल हितं तद्धि प्रयोजनम् ॥
तत्र तैलं प्रदातव्यं सुकृतं चक्रसंभवम् ॥ २५ ॥
गजानाममलं चैव सद्यःकृतमपूतिकम् ॥
विश्रं(स्रं) पुराणमत्यर्थं विवर्णं कटुकं च यत् ॥ २६ ॥
पूतिकं चातिदग्धं च घृतमेतद्विवर्जितम् ॥
॰मांसपक्वनिर्दग्धरसौषधिसमन्वितम् ॥ २७ ॥
त्रिवृतं दन्तिनां देयं सर्वस्नेहसमुद्भवम् ॥
महिषाजवराहाणां वसा सद्यो विनिःसृता ॥ २८ ॥
१ क. ॰ले च तथाक्रा॰ । २ ॰क. घ. समाचरेत् । ३ क. लभ्यते । ४ क.
॰क्तिभिः श्रेष्ठं तै॰। घ. ॰क्तिनिःश्रेष्ठं तै॰। ५ क. प्रयोजयेत् । ६ ख. घ. ॰द्यःक्षत॰।
७ क. ॰तपानं प्रशस्यते ॥ मां॰ ।
१ स्नेहपानाध्यायः ] हस्त्यायुर्वेदः । ५४३
त्रिवृतार्थे प्रदातव्या गात्राभ्यङ्गे च दन्तिनाम् ॥
हेमन्ते तैलपानं तु वर्षासु च विधीयते ।१। २९ ॥
वसा मज्जा च नागानां वसन्ते संप्रदीयते ॥
शरत्काले निदाघे च घृतपानं प्रशस्यते ॥ ३० ॥
एवं यथर्तुसामान्यात्स्नेहं नागेषु दापयेत् ॥
वर्षासु पुष्टा नागेन्द्राः स्नेहादिभिरुपक्रमम् ॥ ३१ ॥
तुरङ्गा रणदक्षाश्च योधाश्च रणकर्कशाः ॥
वैशेषिकं बलं लब्ध्वा व्यायामेश्च स्थिरीकृताः ॥ ३२ ॥
प्रवातवर्षे कुर्वीत राज्ञः कर्माष्टमासिकम् ॥
न मार्गप्रतिपन्नेषु परेषाम् विषयेऽपि वा ॥ ३३ ॥
शक्यं बलिक्रियां कर्तुं रोगाणां वा प्रतिक्रियाम् ॥
हेमन्तकाले च पुनर्निदाघसमयेऽपि च ॥ ३४ ॥
स्नेहपानं बद्धफले तृणे शुष्के च वर्जितम् ॥
दोषाः शुष्कतृणे हेष्टा तथा बद्धफले तृणे ॥ ३५ ॥
शुष्केणानह्यते नागः सफलेनास्य जीर्यति ॥
दिनेहैमन्तिकैः पीतं पानं सम्यङ्न जीर्यति ॥ ३६ ॥
अथ सर्पिः पिबेन्नागः शीते तदपि लीयते ॥
निदाघे तैलपानेन मूर्छा तन्द्रा प्रजायते ॥ ३७ ॥
पिपासा वमथुश्चापि त्वग्दोषाश्चैव दन्तिनाम् ॥
तस्माद्धेमन्तकालं च ग्रीष्मकालं च वर्जयेत् ॥ ३८ ॥
हिताहितज्ञो नागानां कालाकालविभागवित् ॥
काले वा यदि वाऽकाले तैलं दत्तमजानता ॥ ३९ ॥
सर्वानुपद्रवान्कुर्याद्व्यापादयेति वा गजम् ॥
रक्षेद्यत्नेन वैद्यस्तु स्नेहपीतं मतङ्गजम् ॥ ४० ॥
आतपाच्च प्रवाताच्च अजीर्णाध्यशनादपि ॥
अतितोयावगाहाच्च पानाच्छीतस्य चाम्भसः ॥ ४१ ॥
सात्म्यासात्म्यविपर्यासादातिक्षुत्क्रमणादपि ॥
निदाघे स्नेहपीतस्य दोषाः पूर्वं प्रकीर्तिताः ॥ ४२ ॥
१ ख. दृष्टा । २ क. दिने हेमन्तिके । ३ क. ख. घ. तिलपानेन । ४ क.
०सा च मधुश्चा० ।
५४४ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने—
स्नेहं प्रवाते पिबतो वायुरङ्गानि बाधते ॥
अजीर्णाध्यशनाद्वाऽपि स्नेहे कोष्ठे व्यवस्थिते ॥ ४३॥
आनाहो वा भवेत्तस्य मरणं वाऽपि जायते ॥
अतितोपावगाहाच्च कायाग्निरुपशाम्यति ॥ ४४ ॥
पिपासा वर्धते चापि स्नेहस्तस्य न पच्यते ॥
यदि पीत्वा गजः स्नेहं जलमकथितं पिबेत् ॥ ४५ ॥
तेन तस्यापचारेण स्नेहो भवति दुर्जरः ॥
वेदना सर्वगात्रेषु वमथुश्चापि जायते ॥ ४६ ॥
कुक्षिर्विहन्यते चास्य दौर्मनस्यं भवत्यपि ॥
सात्म्यासात्म्यविपर्यासात्स्नेहपीतस्य दन्तिनः ॥ ४७ ॥
जायते चापि दौर्बल्यं रोगाः प्रादुर्भवन्ति च ॥
अतिचङ्क्रमणाद्वाऽपि सद्योऽपायामसंभवः ॥ ४८ ॥
वायुः प्रचलितः स्थानात्सर्वाण्यङ्गानि बोधते ॥
पाकलस्तस्य भवति प्रैवोपो(?) वाऽतिदारुणः ॥ ४९ ॥
भेदश्च पर्वणां चापि गात्राणामपि वेष्टनम् ॥
स्नेहोपयोगाद्विगुणः परिहारो विधीयते ॥ ५० ॥
विरूक्षणं बृंहणं च कर्मणश्च प्रवर्तनम् ॥
तस्मात्कुर्याद्बहुधो वैद्यस्तैलपाने त्ववेक्षणम् ॥ ५१ ॥
दुर्युक्तं तैलपानं तु विषं हालाहलं भवेत् ॥
इत्येष स्नेहपानस्य कालाकालविधिः स्मृतः ॥ ५२ ॥
स्थावरो जङ्गमश्चैव द्विविधः स्नेह उच्यते ॥
तस्य चैवं प्रयुक्तस्य विकल्पा बहवः स्मृताः ॥ ५३ ॥
सर्पिस्तैलं वसा मज्जा मेदो मांसं पयो दधि ॥
एवमादि विजानीयात्स्नेहजातं पृथग्विधम् ॥ ५४ ॥
तिलादिजस्तु यः स्नेहः स्वशास्त्रे परिकीर्तितः ॥
स्थावरस्तु समाख्यातो नानाफलसमाश्रयः ॥ ५५ ॥
तत्र सर्पिर्वसा मज्जा तैलं चैवोत्तमं स्मृतम् ॥
घृतं तु सविशेषत्वात्तेषु श्रेष्ठतमं स्मृतम् ॥ ५६ ॥
यथावदनुपूर्वेण गुणांस्तस्य निबोध मे ॥
मधुरं शीतवीर्यं च लघु चैवाविदाहि च ॥ ५७ ॥
१ ख. घ. साधते । २ क. प्रवापो ।
१ स्नेहपानाध्यायः ] हस्त्यायुर्वेदः । ५४५
हितं वाते च पित्ते च मेदःशुक्रविवर्धनम् ॥
दारुणानां मृदुकरं बलवृद्धिकरं तथा ॥ ५८ ॥
प्रसृष्टमल्पमूत्रं च ग्रहणीदीपनं तथा ॥
सुकुमारकरं बल्यमायुष्यं चक्षुषोर्हितम् ॥ ५९ ॥
अल्पक्लेशं सुखस्पर्शं स्नेहानामपि चोत्तमम् ॥
घृतान्यन्यानि वक्ष्यामि भेषज्यं सर्वदेहिनाम् ॥ ६० ॥
तत्र ये पित्तला नागाः प्रकृत्याऽवनताश्च ये ॥
मदक्षीणाश्च वृद्धाश्च धेनुकासु च निश्रु(स्रु)ताः ॥ ६१ ॥
बाला दुर्बलपादाश्च ये च नेत्रातुरा गजाः ॥
तेभ्यः सर्पिः प्रदातव्यं गजा ये च नवग्रहाः ॥ ६२ ॥
घृतादनन्तरं तैलमृषिभिः समुदाहृतम् ॥
गुणांस्तस्य प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ६३ ॥
तैल