सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 550, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 550

३० शस्त्रविध्यध्यायः ] हस्त्यायुर्वेदः । ५३१
कङ्कमुखं कुलिशमुखं चेति । तिस्र एषिण्यः । एकविंशतिरेव वाऽयोमयानि
साधनानि भवन्ति । तेषां संस्थानं प्रमाणं कर्माणि वक्ष्यामः-तत्र दशाङ्गुल-
प्रमाणं वृद्धिपत्रम् । षडङ्गुलप्रमाणं वृत्तम् । चतुरङ्गुलप्रमाणं पत्रम् । त्र्यङ्गुल-
विस्तीर्णं पाटनार्थं छेदनार्थं चेति । षडङ्गुलवृत्तमर्धाङ्गुलं सर्वतः । तत्र पूर्णच-
न्द्राकृतिरग्रे मण्डलाग्रम् । लेखनार्थमक्ष्णोर्व्रीहिमुखम् । उत्पलपत्रकमष्टाङ्गुलमेवै-
कम् । तच्चाष्टाङ्गुलप्रमाणमध्यर्धाङ्गुलविस्तृतमुभयतोधारं ( * व्रीहिमुखाकृति
व्रीहिमुखम् । मुखभेदनार्थं छेदनभेदनार्थं चेति । नवाङ्गुलं कुशपत्रम् । पञ्चा-
ङ्गुलं वृत्तम् । चतुरङ्गुलं पत्रम् । अध्यर्धाङ्गुलतुलविस्तृतमुभयतोधारं ) कुशप-
त्राकृति गम्भीरपाकभेदनार्थं षडङ्गुलं वृत्तम् । अध्यर्धाङ्गुलं पत्रम् । पूर्णचन्द्रा-
कृत्याग्रमण्डलाग्रम् । लेखनार्थमक्ष्णोर्व्रीहिमुखप्रमाणमुत्पलपत्रं भेदनार्थं कुठा-
राकृति कुर्यात् । कुठारो (?) शस्त्रप्रच्छेदनार्थम् । वत्सदन्ताकृति वत्सदन्तं
दशाङ्गुलम् । एकैकमध्यर्धाङ्गुलमुखम् । एवमेतानि च त्रीण्यपि यथायोगं प्रच्छ-
नार्थम् । सूची सेवनार्थम् । अष्टाङ्गुलं नागदन्ताकृति । त्र्यस्रा चतुरस्रा वा दृढा
समाहिता समा वा शलाका वने वर्त्मविधृत्यर्थम् । रम्पकस्त्र्यङ्गुलमुखो दशाङ्गुल-
वृत्तः पादशोधनार्थं नखच्छेदनार्थं चेति। एषणी दशाङ्गुला विंशत्यङ्गुला त्रिंशद-
ङ्गुला यथायोगमञ्जनशलाकाकृति मुखतः श्लक्ष्णा समा चैवेतास्तिस्र
एषण्यः प्रमाणतः कार्याः । कोरण्टकपुष्पाकृति मुखनेत्रताम्रामयं षोडशाङ्गुल-
मनुपूर्वं व्रणानां प्रक्षालनं कुर्याद्विदिशं चक्राग्रमष्टाङ्गुलप्रमाणमक्ष्णोः पटलोद्धर-
णार्थं चेति ॥
तत्र श्लोकः--
यथोक्तान्येवमेतानि शस्त्राणि विधिवद्भिषक् ।
कारयित्वा यथायोगं कुर्याद्व्रणविदारणम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
त्रिंशः शस्त्रविधिरध्यायः ॥ ३० ॥
अथैकत्रिंशोऽध्यायः ।
क्षारयोगं प्रवक्ष्यामि यथा सिध्यति कुर्वतः ॥
विविधानां विकाराणां क्षारः प्रशमने हितः ॥ १ ॥

  • धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ॥