हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 556, कुल 742 में से
संदर्भ में पढ़ें१४ दन्तोद्धरणाध्यायः ] हस्त्यायुर्वेदः । ५१७
शनैः प्रवेशयेत्सूचींर्यापत्तिर्न भवेद्यथा ॥
तालुस्रोतः करश्रो(स्रो)तस्तथा नेत्रनिबन्धनम् ॥ ९ ॥
शिराः स्नायूश्च रक्षेत्तु उन्मार्गगमनं तथा ॥
त्र्यहात्त्र्यहान्प्रवेशयेतान्यङ्गुलं द्व्यङ्गुलं भिषक् ॥ १० ॥
क्षारेण लेपयेच्चाग्रं तेन मांसं विशुष्यति ॥
प्रवेशयित्वाऽङ्गुलानि विंशतिस्त्रिंशदेव ताः ॥ ११ ॥
चतुर्विंशत्यङ्गुलं वा ततोऽस्थीनि विनिर्दिशेत् ॥
मुखप्रमाणं सत्त्वस्य स्वबुद्ध्या विभजेद्भिषक् ॥ १२ ॥
यदा विमुक्तो मांसेन बन्धमूलाच्चलत्यपि ॥
यन्त्राद्यपायविधिमोक्तैर्बन्धैर्बद्ध्वा मतङ्गजम् ॥ १३ ॥
त्रिभागे वेधयेद्दन्तं शलाकां चानुकारयेत् ॥
तत्र सूत्रमयीं रज्जुं दन्ते बद्ध्वा नवां दृढाम् ॥ १४ ॥
ततोऽन्यां वर्धयेत्तस्मिन्न्रज्जुं वा रज्जुकां(?)दृढाम् ॥
वक्त्रभ्रमरकं यन्त्रं ततोत्सेधायमेव च ॥ १५ ॥
यन्त्रमेकतमं तस्मिन्पुरस्तात्संनिवेशयेत् ॥
ततस्तं योजयेत्प्राज्ञो यन्त्रयोगेन बुद्धिमान् ॥ १६ ॥
प्रक्षिपेच्च बलाद्रज्जुं यथा दन्तो निपात्यते ॥
दन्तमार्गं च नागस्य पूरयेन्मधुसर्पिषा ॥ १७ ॥
जलेऽवगाहयेच्चैनं विमले शीतले च तम् ॥
पानार्थं दापयेत्क्षीरं घृतयुक्तं नराधिप ॥ १८ ॥
शाल्योदनं च सघृतं भोजनाय प्रदापयेत् ॥
पूर्वमेकं च नागाय सर्पिषा दापयेद्भिषक् ॥ १९ ॥
द्विव्रणीयोपचारस्य कर्तव्यं स्यादतः परम् ॥
असाध्यदन्तनाडी या दन्ते यस्येह जायते ॥ २० ॥
दन्तस्रावीति तं विद्यात्तस्योपायः प्रवक्ष्यते ॥
विद्ध्वा दन्तं विभागेन दूषयित्वा करीरकाम् ॥ २१ ॥
तस्मात्तु चालितं रक्तं कृत्वा तु सुपरिश्रु(स्रु)तम् ॥
पूर्वोक्तेनैव विधिना दन्तं नागस्य साधयेत् ॥ २२ ॥
भोजनं चास्य तेनैव क्रमेणोपचरेद्भिषक् ॥
भज्यते यस्य वा दन्तः पतेद्वा सकरीरकः ॥ २३ ॥
६८