सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 559, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 559

५४० पालकाप्यमुनिविरचितो-
षडङ्गुला नदीजस्य वृद्धिर्भवति दन्तयोः ॥
अष्टाधं विश्वरूपस्य त्र्यङ्गुलं गिरिचारिणः ॥ ५२ ॥
मारुतस्तु यदा चे(वे)ष्टौ दूषयित्वोष्मणा सह ॥
मत्कुणस्तेन जायेत अग्राह्यः स तु दन्तिनाम् ॥ ५३ ॥
एकवेष्टनिरोधेन एकदन्तो भवेन्नृप ॥
द्विदन्तानां तु नागानां प्रकृत्या जायते नृप ॥ ५४ ॥
त्रिदन्ताश्चापि जायन्ते चतुर्दन्तास्तथाऽपरे ॥
पिशाचाश्चासुराश्चैव न तेषां ग्रहणं स्मृतम् ॥ ५५ ॥
गृहीताः पापमिच्छन्ति स्वभावानुगतास्तथा ॥
स्पृशन्ते यस्य सङ्गाय दृश्यन्ते वा नराधिप ॥ ५६ ॥
न तस्य ग्रहणं कार्यं परराष्ट्रं तमुत्सृजेत् ॥
न्यूनाधिकत्वं नागानां वैषम्यं वैकृतं तथा ॥ ५७ ॥
तत्सर्वं मारुताद्विद्धि समत्वं चैव यद्भवेत् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रणोदितः ॥ ५८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे वृद्धोपदेशे तृतीये
शल्यस्थाने दन्तोद्धरणं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
समाप्तं चेदं तृतीयं शल्यस्थानम् ॥
१ क. मारुतस्य ।