सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 560, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 560

इममाख्याहि पृच्छतः ॥

  • तैर्हि मे वाहनं तुल्यमन्यद्भुवि न विद्यते ॥ ८ ॥
  • तेषां कतिविधः स्नेहः कीदृशः किंप्रयोजनः ॥
  • कत्युपायाः कथं चापि प्रदातव्यो विजानता ॥ ९ ॥
  • यच्चान्यदपि नागानां कर्तव्यं हितमिच्छता ॥
  • तदशेषेण भगवन्सर्वं व्याख्यातुमर्हसि ॥ १० ॥
  • ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
  • पृच्छते रोमपादाय प्रश्नं गजहितं शुभम् ॥ ११ ॥
  • सर्पिस्तैलं वसा मज्जा संस्कृतासंस्कृतं भवेत् ॥
  • वारणेभ्यः प्रदातव्यं स्नेहजातं चतुर्विधम् ॥ १२ ॥
  • सर्वौषधप्रयोगेभ्यः स्नेहपानं मतं मम ॥
  • स्नेहपानं प्रशंसन्ति पूर्वाचार्या मनीषिणः ॥ १३ ॥
  • तद्धि वर्णकरं बल्यं सर्वव्याधिहरं स्म