हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
३६४ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
अधिकारं सदा ब्रूयादचिन्त्यं परिवर्जयेत् ॥
मतिमान्कुशलो वैद्यः शास्त्रमाश्रित्य युक्तितः ॥ २२६ ॥
इतीह पृष्टो भगवानङ्गराजेन धीमता ॥
प्राह शास्त्रविदं प्राज्ञः पालकाप्यो यथातथम् ॥ २२७ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
शरीरविचयो नाम नवमोऽध्यायः ॥ ९ ॥
अथ दशमोऽध्यायः ।
शस्त्राग्निप्रणिधानं तु पालकाप्यो महामुनिः ॥
गजानां वदतां श्रेष्ठः प्रोवाचाङ्गेन चोदितः ॥ १ ॥
प्रत्यासन्नोदके देशे समे सुस्वपरिक्रमे ॥
विश्वासयन्द्दढे स्तम्भे यन्त्रयित्वाऽथ वारणम् ॥ २ ॥
विन्यस्योदककुम्भं च समेध्याग्निं चिकित्सकः ॥
वांशीकुठारपरशुं विमोक्षार्थमुपार्जयेत् ॥ ३ ॥
१० शस्त्राभिप्रणिधानाध्यायः ] हस्त्यायुर्वेदः । ४५५
तनुप्रदेशे बहुलो बहुले च तनूद्गतः ॥
तिर्यगायतमगम्भीरो विसर्पोत्सङ्गवानपि ॥ १२ ॥
सर्वानेतानविदित्वाऽथ प्रदेशा ये च मर्मजाः ॥
अविचक्षुरसंभ्रान्तः सुस्थानः सुस्थितो लघुः ॥ १३ ॥
स्नायुसंधिसिरामर्म रक्षञ्शस्त्रमथो नयेत् ॥
भङ्गुलं वा वसाधं वा शिरा भिन्ना न दुष्यति ॥ १४ ॥
आभग्नश्वयथोरेतद्द्रामन्वपक्ष्मनमिष्यते ॥
अशेषतो न विश्वा(स्रा)व्येत्तिर्यग्गूध्वंमथापि वा ॥ १५ ॥
वहेच्च दोषः संस्थायी निरुत्सङ्गं ततश्च तम् ॥
सुकरालं व्रणं छिन्द्यादनुलोमं समं गतौ ॥ १६ ॥
नासृक्पादप्रकारं च त्रिपादं छेदयेद्व्रणम् ॥
पादप्रमाणं कुर्यात्तु व्रणस्य चतुरङ्गुलम् ॥ १७ ॥
कुर्याच्चथोदरं चापि सुभिषग्गुणदोषतः ॥
भैषज्योत्तरपूर्वाणि कारयेत्तु ऋजूनि च ॥ १८ ॥
आयते चतुरस्रे वा वृत्तेऽथापि परिग्रहे ॥
दोषनिर्हरणार्थाय सर्वान्कुर्यादधोमुखान् ॥ १९ ॥
यथौषधानि च वहेत्तं दोषं परिशोधयेत् ॥
अंगतिर्यंत्र चाङ्गुल्यास्तनुगम्भीरमर्मसु ॥ २० ॥
एषण्या श्वयथोर्यत्र तत्र शस्त्रं न पातयेत् ॥
पित्तदुष्टं तु यत्कालं हरितं पीतकं तथा ॥ २१ ॥
उष्णं चाशु श्र(स्र)वति यत्स्कन्दत्यपि तेजसा ॥
बहुलं पिच्छिलं पाण्डु चिराच्छ्र(त्स्र)वति स्कन्दति ॥ २२ ॥
श्लेष्मदोषान्वितं रक्तं विद्यादेतद्विचक्षणः ॥
तनुकं फेनिलं श्यावं रक्तं वातान्वितं भवेत् ॥ २३ ॥
संनिपातान्वितं रक्तं सर्वदोषैः समन्वितम् ॥
पाटने लेखने वेध्ये प्रच्छन्ने वाऽपि सीवने ॥ २४ ॥
सदोषरुधिरं यावत्तावन्न प्रतिषेधयेत् ॥
इंद्रगोपकवर्णं यत्तद्वै प्रकृतिशोणितम् ॥ २५ ॥
अदोषलिङ्गं शुद्धं यद्वहेत्तत्प्रतिषेधयेत् ॥
दुष्टं यदा कायगतं न विश्वा(स्रा)व्येत शोणितम् ॥ २६ ॥
४५६ पालकाप्यमुनिविरचितो- [३ शल्यस्थाने-
संदूषयति तद्धातून्बहून्दोषानुदीरयेत् ॥
अतिप्रवृत्तं श्र(स्र)वति निर्दोषे शोणितेऽधिकम् ॥ २७ ॥
पूर्वोक्तैश्चूर्णयोगैस्तु स्थापनं प्रतिचूर्णनैः ॥
स्थाने प्रधाने निर्दोषे शीतले स्थापयेद्गजम् ॥ २८ ॥
न चास्मै लवणं देयं नात्युष्णं नाम्लमेव च ॥
भक्ष्यं भोज्यं तथा पेयं सर्वं च परिवर्जयेत् ॥ २९ ॥
यावद्रक्तं तु तिष्ठेत्तु स्थिते स्यादपरो विधिः ॥
आहारस्य च सौहित्यात्स्पर्शाच्छब्दाद्रसादपि ॥ ३० ॥
यस्मात्प्रसिच्यते रक्तं तस्मात्तेभ्यो निवर्तयेत् ॥
भयात्क्रोधाच्च रुधिरं स्थितं यस्मात्प्रवर्तते ॥ ३१ ॥
तस्मान्न कोपयेदेनं न चास्य भयमादिशेत् ॥
परिषेकैः प्रदेहेश्च शीतलैः समुपाचरेत् ॥ ३२ ॥
नलवञ्जुलमूलैश्च मृणालैः सबिसोत्पलैः ॥
पद्मोशीरमञ्जिष्ठासारिवाचन्दनैरपि ॥ ३३ ॥
प्रदिह्य बहुशश्चूर्णै शीतलेभ्यश्च वारणम् ॥
आर्द्रैर्वेत्रैः परिच्छाद्य वीजयेद्व्यजनैः शुभैः ॥ ३४ ॥
क्रियाभिरेवं सूक्ष्माभिर्यदि रक्तं न तिष्ठति ॥
अग्निकर्म ततः कुर्याद्यथायोगं समाहितः ॥ ३५ ॥
ततोऽग्निकर्मणि कृते घृततैलवसादिभिः ॥
मधूच्छिष्टसमायुक्तैरभ्यङ्गो रक्तनिग्रहः ॥ ३६ ॥
न तु सर्वस्य कर्तव्यमग्निकर्म विजानता ॥
रोगाभिभूते क्षीणे च हतमर्मणि च द्विपे ॥ ३७ ॥
अनिर्वातपतशल्ये च तृष्णार्ते मूर्छितेऽपि च ॥
बहुव्रणे च मातङ्गे संतप्ते ज्वरितेऽपि च ॥ ३८ ॥
अग्निकर्म न कर्तव्यं नागानां हितमिच्छता ॥
षडत्यया भवन्त्येते शस्त्रे मिथ्या प्रचारिते ॥ ३९ ॥
संक्षोभः पाण्डुता चैव शोणितस्यातिसेचनम् ॥
प्रवेपनं च स्तम्भं च जीवस्यापि च मोक्षणम् ॥ ४० ॥
इत्येते षट्समुद्दिष्टाः क्रमशो ह्यत्यया नृप ॥
हीनं वाऽप्यतिरिक्तं वा वक्रं वा कर्म कस्यचित् ॥ ४१ ॥
मर्मसंधिसिराच्छेदो गजं प्राणैर्वियोजयेत् ॥
मूलं स्कन्धश्च शाखाश्च यथा वृक्षस्य पार्थिव ॥ ४२ ॥
१० शस्त्राग्निप्रणिध्यध्यायः ] हस्त्यायुर्वेदः । १५७
सिरास्नाव्वस्थिमांसानि त्वक्चैव दन्तिनां भवेत् ॥
शरीरे मूर्तिंस्तु भवेद्द्वमेतच्छरीरिणाम् ॥ ४३ ॥
तत्र प्राणावृतो ह्यात्मा देहं धारयतीश्वरः ॥
प्राणान्मर्माश्रितान्विद्धि पोगवाहसमायुतान् ॥ ४४ ॥
तस्मान्मर्माणि संरक्षेच्छस्त्रकर्मणि शास्त्रवित् ॥
इति शस्त्रविधौ सम्यक्प्रणिधानं प्रकीर्तितम् ॥ ४५ ॥
—:():—
अत ऊर्ध्वं प्रवक्ष्यामि व्रणेऽग्निप्रणिधौ विधिम् ॥
व्रणाः संधिगता ये स्युस्तथा मेण्ड्रगुदाश्रिताः ॥ ४६ ॥
स्थि(शि)रास्थिमर्मधमनीकोष्ठकण्ठाश्रिताश्च ये ॥
एतेष्वङ्गमदेशेषु नाग्निर्दैयः कथंचन ॥ ४७ ॥
मोहात्तस्तु वैकल्यं प्राणैर्वा विप्रयोजयेत् ॥
दुष्यन्ति बहुशो ये तु व्रणा दुःखप्ररोहिणः ॥ ४८ ॥
नाडीजाताः सपिटकाः कृमिदुष्टाश्च ये व्रणाः ॥
उत्सन्नमांसगम्भीराः साश्र(स्र)वाः शर्कराचिताः ॥ ४९ ॥
नीलावनिच्छन्नमांसाश्च वल्मीकाकृतयश्च ये ॥
व्रणो यो मांसशोषी च बहलौष्ठश्च यो व्रणः ॥ ५० ॥
एतेषु च यथायोगमग्निकर्म विधीयते ॥
शूनं विलापयत्यग्निः शुष्कमुत्सादयत्यपि ॥ ५१ ॥
व्रणसंशोधनस्त्वग्नी रोपणः परिकीर्तितः ॥
शोफापहाराच्चमतो वातानां चानुलोमतः ॥ ५२ ॥
न जायतेऽग्निना नाडीव्रणश्च न विसर्पति ॥
मृदुं करोति प्रस्तब्धं प्रस्तब्धं मृदुतां नयेत् ॥ ५३ ॥
उत्सन्नं सादयत्यग्निः सन्नमुत्सादयत्यपि ॥
एतेऽग्निकर्मणि गुणा यैस्मात्तस्माद्विजानता ॥ ५४ ॥
कार्योऽग्निप्रणिधिः सम्यङ्नागानां हितमिच्छता ॥
कपोतवर्णं रूक्षं तु तथा संकुचितं समम् ॥ ५५ ॥
सम्यग्दग्धं विजानीयान्निराश्र(स्र)वमवेदनम् ॥
व्रणानां परिपोटाश्च स्फोटाः संश्र(स्र)वर्णं तथा ॥ ५६ ॥
दुर्दग्धमेतज्ज्ञानीयाद्दहेत्सम्यक्ततः पुनः ॥
ज्वरोऽत्यर्थं भ्रमो मूर्च्छा तृष्णा स्यान्मुखशोषणम् ॥ ५७ ॥
५८
४५८ • पालकाप्यमुनिविरचितो- * [३ शल्यस्थाने-
अतिदग्धे भवन्त्येतद्व्रणे नागस्य पार्थिव ॥
शीर्णमांसाः सुगम्भीरा व्रणा दुःखप्ररोहिणः ॥ ५८ ॥
अतिरिक्ते भवन्त्यग्नौ व्रणे दोषश्च दारुणः ॥
परिषेकैः प्रदेहेश्च शीतलैस्तमुपाचरेत् ॥ ५९ ॥
द्विव्रणीये 'यथा प्रोक्तं तथा व्रणमुपाचरेत् ॥
इति सम्यक्समाख्यातः शस्त्राग्निप्रणिधौ विधिः ॥ ६० ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
शस्त्राग्निप्रणिधिर्नाम दशमोऽध्यायः ॥ १० ॥
अथैकादशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कृतजप्यमृषिश्रेष्ठं विनयेन कृताञ्जलिः ॥ १ ॥
शस्त्राग्निप्रणिधाने यत्परिकर्मसु हस्तिनाम् ॥
सर्वं भगवता प्रोक्तं दृढे स्तम्भे निबन्धनम् ॥ २ ॥
तत्कथं वारणेन्द्राणां कर्तव्यमृषिसत्तम ॥
स्तम्भ एव निबद्धानामनल्पबलतेजसाम् ॥ ३ ॥
कथं न हस्तवालाभ्यां हिंस्युर्गात्रापरेण वा ॥
प्रतिकर्मक्रियाकाले बन्धेनैकेन संयताः ॥ ४ ॥
यथा येन निराबाधं निराबाधं च हस्तिनाम् ॥
भवेत्तु विधिवत्सर्वं तथा मे वक्तुमर्हसि ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
शृणु राजन्यथा कार्यः प्रतिकर्मक्रियाविधिः ॥ ६ ॥
आलाने चैव बद्धानां कार्यस्तु पृथिवीपते ॥
शस्त्राग्निक्षारसंयुक्तः प्रतिकर्मक्रियाविधिः ॥ ७ ॥
अपयन्त्रितमबद्धं वा यो नागमुपसर्पति ॥
प्रतिकर्मक्रियां कर्तुं बालिशस्त्वरयाऽपि वा ॥ ८ ॥
जीविते संशयस्तस्य वैकल्यं वा ध्रुवं भवेत् ॥
न च सम्यक्क्रियां कर्तुं स शक्नोति नराधिप ॥ ९ ॥
स्नाव्यस्थीनि सिरा वाऽपि मर्म चाप्युपहन्त्यपि ॥
तिर्यग्वा पातयेच्छस्त्रं वेपमानो ह्यशिक्षितः ॥ १० ॥
११ व्रणविध्यध्यायः] हस्त्यायुर्वेदः । ४५९
तस्मात्सुपयंत्रितं कृत्वा पूर्वमेव तु वारणम् ॥
स्तम्भालितं तु यत्नेन नित्यकालमुपाचरेत् ॥ ११ ॥
पूर्वापरपरिक्षेपस्तवालानमुपयामकम् ॥
उपरिग्रहबन्धश्च हस्ते वासनमेव च ॥ १२ ॥
दन्ते सकटिके चैव अपस्फारे तथैव च ॥
दन्तोदानीं शिरोदानीं कायोदानीं तथैव च ॥ १३ ॥
वालं वासनमेवात्र इति बन्धास्त्रयोदश ॥
प्रतिकर्मक्रियाकाले प्रयोक्तव्यास्तु दन्तिनाम् ॥ १४ ॥
एतैः समस्तैर्बद्धस्य बन्धनैर्नागस्य पार्थिव ॥
प्रतिकर्मविधिं कुर्याद्गुप्तस्याऽऽरक्षरक्षिभिः ॥ १५ ॥
--:०:--
रोमपादस्ततो राजा विनयात्पुनरुत्थितः ॥
पप्रच्छ पालकाप्यं तु पुनः प्रश्नमनन्तरम् ॥ १६ ॥
भगवंश्शिष्यभावेन किंचित्पृच्छामि संशयम् ॥
तदशेषेण विधिवत्सर्वमाख्यातुमर्हसि ॥ १७ ॥
आलिते बहवो दोषा बद्धगात्रापरस्य च ॥
रज्जुवाद्येन सुगुप्तस्य वारणस्य महीपते ॥ १८ ॥
उद्विग्नो भयसंत्रस्तः प्रतिकर्मक्रियासु वै ॥
पतेद्वा निष्पतेद्वाऽपि ततो बाध्येत वा गजः ॥ १९ ॥
बन्धादींश्छेदयेत्सर्वानलानं वाऽपि वारणः ॥
तस्य प्रतिक्रियां काले कथं वैद्यो ह्युपाचरेत् ॥ २० ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
शृणु सर्वं महाराज यथा कार्यं भिषग्जिता ॥ २१ ॥
भूमिः पाषाणबहुला विषमा शर्करान्विता ॥
कर्दमत्तृणयुक्तावा प्रतिकर्मणि वर्जिता ॥ २२ ॥
या तु नात्यर्थसिकता पांशुला नष्टशर्करा ॥
निष्कर्दमा समा चैव सा भूमिः कर्मणो हिता ॥ २३ ॥
पूर्वापरपरिक्षिप्तं तत्र नागं निषादयेत् ॥
रज्जुं च निर्णयेत्पक्षे पक्षबन्धं च कारयेत् ॥ २४ ॥
पक्षबन्धविधानं च कर्तव्यं विधिना भवेत् ॥
अपस्फारे दृढं बद्ध्वा अष्ठीव्ये च नराधिप ॥ २५ ॥
४६४ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
बन्धयित्वा तु तं रज्जुं यूपे कपो(ये)ऽवलम्बयेत् ॥
तयोः प्रदेशयोर्मन्यायुक्त्या स्तम्भौ निखानयेत् ॥ २६ ॥
अच्छिद्रौ सुदृढौ ह्रस्वौ बन्धनार्थं विचक्षणः ॥
वालं वासनमप्यस्य निक्षिपेदपरान्तरे ॥ २७ ॥
अनुवृत्तस्यं निर्दिष्टः प्रतिकर्मक्रियाविधिः ॥
वारणस्य यथान्यायमेश ते पृथिवीपते ॥ २८ ॥
—:०:—
भूयोऽङ्गराजः पप्रच्छ पालकाप्यं महामुनिम् ॥
तत्रापि बहवो दोषा दृश्यन्ते मुनिसत्तम ॥ २९ ॥
दृश्यते क्षयभागेषु अंश(स)योः कटयोरपि ॥
विक्षिप्त्यपि गात्राणि कर्म चापि न विन्दति ॥ ३० ॥
यथा वै पश्य च भवेन्निराबाधं च दन्तिनः ॥
भवेत्तु विधिवत्सत्वं तथा मे वक्तुमर्हसि ॥ ३१ ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
शृणु यन्त्रविधानं मे वारणानां नराधिप ॥ ३२ ॥
प्रत्यासन्नोदके देशे समे सुखपरिक्रमे ॥
शिवे रम्येऽथ वृक्षे वा देवायतनवर्जिते ॥ ३३ ॥
अना••••••श्मशानस्य नगरस्यापि दूरतः ॥
कार्यः प्रागुत्तरे देशे यन्त्र सिद्धिरभीप्सिता ॥ ३४ ॥
आवासाः पक्षिणां ये च ये वा स्युर्गर्हितद्रुमाः ॥
ये चापि दग्धास्तु भृशमशन्यभिहतास्तु ये ॥ ३५ ॥
अर्धशुष्कास्तु ये वृक्षास्तथैव देवताश्रिताः ॥
देवायतने चैव उद्याने चाऽऽश्रमेषु च ॥ ३६ ॥
चैत्यश्मशानजा ये च न योज्या यन्त्रकर्मणि ॥
इत्यप्रशस्ता व्याख्याताः प्रशस्ताञ्शृणु मे नृप ॥ ३७ ॥
अञ्जनः खदिरः सालः कदरो वा समाहितः ॥
मधूकः सोमवल्को वा शा(Sशो)को वा सर्ज एव च ॥ ३८ ॥
अष्टानां वृक्षजातीनां ये द्रुमा ह्युपपत्तितः ॥
अवल्मीके शुभे देशे सारवन्तः समाहिताः ॥ ३९ ॥
ज्ञाता न चाग्निना स्पृष्टा वल्लीभिः पिण्डिताश्च ये ॥
अकोटरास्तु जाताश्च योग्यास्ते यन्त्रकर्मणि ॥ ४० ॥
११ यन्त्रविध्यध्यायः ] हस्त्यायुर्वेदः । १६१
प्रशस्ते तिथिनक्षत्रे मुहूर्ते चापि पूजिते ॥
देवान्यष्ट्वा यथान्यायं स्वस्ति वाच्य द्विजांस्तथा ॥ ४१ ॥
वृक्षाणां ग्रहणार्थाय कुर्याच्चेमान्बलीन्नपि ॥
शुचिः स्नातस्ततो वैद्यो वृक्षं समुपवासयेत् ॥ ४२ ॥
तस्योपवासना कार्या सुरभिः सुमनोक्षतैः ॥
रक्तमाल्यं प्रियङ्गुं च खदिरस्योपवासने ॥ ४३ ॥
सूपौदनेन मांसेन चित्रैर्माल्यैस्तथैव च ॥
अञ्जनस्य बलिः कार्यः सुरयाऽपि विधीयते ॥ ४४ ॥
गुडौदनेन पयसा पूपसोल्लासिकासवैः ॥
कदरस्य बलिः कार्यः कर्मसिद्धिमभीप्सता ॥ ४५ ॥
एतेश्च विधिवत्कृत्वा बलिं समुपवास्य च ॥
वृक्षमूले स्थितो वैद्यस्त्रीन्वारान्वाचयेदिह ॥ ४६ ॥
स्थावरे यानि भूतानि निवसन्ति वि(च)राणि वै ॥
[
६२ पालकाप्यमुनिविरचितो- [१ शल्यस्थाने-
आयतं चतुरो हस्तान्हस्ताद्वा द्वादशाङ्गुलात् ॥
कोष्ठ्यः षडङ्गुलं चैव मधूकं शाकमेव च ॥ ५६ ॥
त्र्यङ्गुलं त्ववगाढं च चतुरस्रं समन्ततः ॥
चतुरङ्गुलविस्तीर्णाः कोष्ठ्यस्तत्र च कारयेत् ॥ ५७ ॥
असंभ्रान्तमतिर्वैद्यः सत्त्वमार्गं समाश्रितः ॥
ये त्रयोदश बन्धा वै मया पूर्वं प्रकीर्तिताः ॥ ५८ ॥
यन्त्रे प्रवेश्य वै नागो बन्धितव्यो नराधिप ॥
ततोऽस्य फलके हस्तं वासयेत विचक्षणः ॥ ५९ ॥
नस्यकर्मणि नागानामन्येषु च न वासयेत् ॥
सूचीभिरुपधेयश्च ततः स पृथिवीपते ॥ ६० ॥
उरस्येका ततो देया एकैकाऽष्ठीवयोः पुनः ॥
अपस्कारे तथा ह्येका एका च जघने भवेत् ॥ ६१ ॥
एका मस्तकपिण्डे तु सूची देया नराधिप ॥
एकैवाथाऽऽसने देया तथैका पश्चिमासने ॥ ६२ ॥
लाङ्गूलवंशे दातव्या चैका सूची महीपते ॥
एवमष्टौ विधातव्याः पञ्च सूच्यः समाहिताः ॥ ६३ ॥
ताभिः परिगृहीतस्य बन्धाः कार्यास्त्वेमे पुनः ॥
उत्सङ्गी परिदामी च तथा चैवोरसी पुनः ॥ ६४ ॥
पाददानी च कर्तव्या सुदृढा यन्त्रकर्मणि ॥
उदानाश्चापि कर्तव्याश्चत्वारः साधुपूजिताः ॥ ६५ ॥
एवं यन्त्रे निबद्धस्य बन्धैः सर्वैश्च हस्तिनः ॥
प्रतिकर्म ततः कार्यं भिषजा सिद्धिमिच्छता ॥ ६६ ॥
ज्येष्ठयन्त्रविधानं तु सम्यगेतदुदाहृतम् ॥
यथाप्रमाणविहितं वारणानां महीपते ॥ ६७ ॥
यन्त्रं तु मध्यमं कार्यं प्रमाणेन समाहितम् ॥
त्रिभागपरिहीणं स्यादुत्तमात्पृथिवीपते ॥ ६८ ॥
कन्यसं मध्यमात्किंचिदूनं यन्त्रमिहोच्यते ॥
अथवा विभजेद्यन्त्रं यथाहस्तिप्रमाणतः ॥ ६९ ॥
आयामार्धेन नागस्य विस्तारः समुदाहृतः ॥
त्रयाणामपि नागानां यथावदनुपूर्वशः ॥ ७० ॥
१२ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । १६३
वारणानां यथान्यायमारोग्याय भिषग्वरः ॥
कर्म कुर्यादसंभ्रान्तस्तिथ्यादौ पूजिते यदा ॥ ७१ ॥
शुचिः सुप्रयतो भूत्वा कृत्वा ब्राह्मणवाचनम् ॥
स्नापयेच्च ततः पादान्यन्त्रस्याथ तुलास्तथा ॥ ७२ ॥
अलंकृत्य कृतास्रञ्च प्रदाक्षिण्येन रोपयेत् ॥
सुबद्धां सग्रहां कृत्वा ततस्तमवतारयेत् ॥ ७३ ॥
आकोटयित्वा विधिवन्निष्प्रकम्पश्च कारयेत् ॥
फलकैराश्रितैर्भूमिं निश्चलैः सुसमे दृढे ॥ ७४ ॥
स्नापयित्वा ततो यन्त्रं सर्वाङ्गं विरलं कृतम् ॥
गन्धपङ्काकुलं कृत्वा पताकावस्त्रसंकुलम् ॥ ७५ ॥
ततः पूर्वं तथाऽऽहृत्य संभारांस्तत्र कारयेत् ॥
यन्त्रस्य पश्चिमे देशे जुहुयाद्धव्यवाहनम् ॥ ७६ ॥
हुत्वाऽग्निं च यथान्यायमाज्यशेषेण म्रक्षयेत् ॥
यन्त्रं यन्त्रतुलाश्चापि शोणितेन समालभेत् ॥ ७७ ॥
पक्त्वाऽऽमकेन मांसेन तथा सीधुसुरासवैः ॥
भूतो(तो)दनेन कुल्माषैर्मत्स्यैर्मांसैः फलैस्तथा ॥ ७८ ॥
अष्टापदं जपेत्तत्र ............ देवताः ॥
सनत्कुमारं सेनान्यं देवं चाप्यपराजितम् ॥ ७९ ॥
उग्रानन्यान्परिषदान्देवान्सेनापतिं तथा ॥
नमस्कृत्य ततो वैद्यः शुक्लाम्बरधरः शुचिः ॥ ८० ॥
कृत्वा भूतोपहारं च स्वस्ति वाच्य द्विजांस्तथा ॥
यन्त्रं प्रदक्षिणीकृत्य तास्ता हि स्वाङ्गदेवताः ॥
ततः प्रवर्तयेत्कर्म वारणानां भिषग्वरः ॥ ८१ ॥
इति यन्त्रविधानं च बन्धाश्च परिकर्मणि ॥
हस्तिनां पालकाप्येन रोमपादाय कीर्तिताः ॥ ८२ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
यन्त्रविधिर्नामैकादशोऽध्यायः ॥ ११ ॥
अथ द्वादशोऽध्यायः ।
कृतजप्यमृषिश्रेष्ठं विनयेन कृताञ्जलिः ॥
रोमपादो महाप्राज्ञः पालकाप्यं स्म पृच्छति ॥ १ ॥
प्रनष्टशल्याहरणं यथावद्वक्तुमर्हसि ॥
यष्टितोमरशक्त्युष्ट्रिकिणयः सपरश्वधैः ॥ २ ॥
शरैश्च विविधैर्घोरैः परप्राणापहारिभिः ॥
नाराचैरर्धनाराचैरर्धचन्द्रनिभैस्तथा ॥ ३ ॥
भल्लैर्वराहकर्णैश्च क्षुरमैरिक्षुपत्रकैः ॥
पीलुशङ्कुप्रमथनः शिखराग्रैः सकण्टकैः ॥ ४ ॥
सावरैरर्धकर्णैश्च शृङ्गशीर्षैस्तु कण्टकैः ॥
नालीकेरैर्धनालीकैस्तथा वेतसपत्रकैः ॥ ५ ॥
मुकुलाग्रैर्विकीर्णैश्च मुद्गरैः कूटमुद्गरैः ॥
एतैश्चान्यैश्च विद्धानां विप्रनष्टैर्महामुने ॥ ६ ॥
दृश्यन्ते वारणेन्द्राणां गूढशल्याः सुदारुणाः ॥
व्रणा हि बहुविश्रा(स्रा)वा दुर्गन्धाः कठिनास्तथा ॥ ७ ॥
गम्भीरा वेदनाप्रायाः सशोणितपरिश्र(स्र)वाः ॥
न शोधनैः कषायैर्वा विशुध्यन्ति कदाचन ॥ ८ ॥
तेषां यथा चिकित्सा च शोधनं तु सुखं भवेत् ॥
कर्तुं यथा च विज्ञेया यत्समुत्थाश्च ये व्रणाः ॥ ९ ॥
असंशयं मे भगवंस्तत्सर्वं वक्तुमर्हसि ॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ १० ॥
ब्रह्मा शास्त्रमिदं प्राह पूर्वमेव प्रजापतेः ॥
प्रजापतिरथेन्द्राय सोऽश्विभ्यां पाकशासनः ॥ ११ ॥
अश्विनौ चापि तौ देवानृषिभ्यः प्रत्यभाषताम् ॥
प्रनष्टशल्याहरणं पालकाप्यो महायशाः ॥ १२ ॥
सद्यःक्षतविधाने च द्विव्रणीये च तन्मया ॥
व्रणानां लक्षणं कृत्स्नं विस्तरेण प्रकीर्तितम् ॥ १३ ॥
शल्यस्य विप्रनष्टस्य लक्षणं शृणु पार्थिव ॥
स्थानान्येतानि जानीयाद्येषु शल्यं प्रणश्यति ॥ १४ ॥
तानि सर्वाणि वक्ष्यामि पृथक्त्वेन निबोध मे ॥
छविर्मांसं तथा मेदः संधिः स्नायुस्तथाऽस्थि च ॥ १५ ॥
कोष्ठश्चो(स्रो)तांसि चैवैषां स्थानान्येतानि विद्धि वै ॥
तृणं काष्ठं च विज्ञेयं तथा लोहमयं च यत् ॥ १६ ॥
११ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । ४५६
बाह्यमेतद्भवेच्छल्यं प्रकारैर्बहुभिर्युतम् ॥
शोणितं त्वस्थि मांसं च शिरा स्नायुभि वाऽप्यथ ॥ १७ ॥
पूपं(पूयं) चापि भवेच्छल्यमेतत्सर्वं शरीरजम् ॥
तत्र बाह्यानि सर्वत्र सर्वमेव नराधिप ॥ १८ ॥
शरीरजेषु चास्थीनि दारुणानि विनिर्दिशेत् ॥
शोणितादीनि शेषाणि यानि शल्यानि पार्थिव ॥ १९ ॥
निर्वहन्त्यौषधीस्तानि मुखे वा विकृते कृते ॥
यानि दारुणशल्यानि तानि सर्वाणि भूपते ॥ २० ॥
गूढतां याति कालेन शरीरस्थानि दन्तिनाम् ॥
अत ऊर्ध्वं प्रवक्ष्यामि सशल्ये लक्षणं नृप ॥ २१ ॥
वेदनाऽथ परिश्रा(स्रा)वः शोफः स्तम्भः परिग्रहः ॥
व्रणं शल्यमुखस्तेषां कठिनौष्ठश्च लक्ष्यते ॥ २२ ॥
दुर्गन्धः पिच्छिलश्चापि स्रावस्तत्र प्रवर्तते ॥
स लोहितश्च विच्छिन्नः कदाचिच्चापि संहतः ॥ २३ ॥
अष्टानां व्रणवस्तूनां यच्च वस्तु समाश्रितम् ॥
सादृश्यं तस्य च पुनः कदाचिच्छ्र(स्र)वति श्र(स्र)वम् ॥ २४ ॥
एतैर्लिङ्गैस्तु विज्ञेया व्रणाः सम्यग्भिषग्वरैः ॥
ईषंदुन्नत उत्सन्नं त्वचं लक्षेत दन्तिनः ॥ २५ ॥
मांसस्था कूर्मसंस्थाने मेदःस्थे तु विसर्पति ॥
शिरास्नायुगते कुब्जस्तब्धाङ्गो वा भवेद्विपः ॥ २६ ॥
चेष्टानिरोधः संधौ तु महांश्च श्वयथुर्भवेत् ॥
अस्थिभेदस्त्वस्थिगते तेन न श्र(स्र)वति व्रणः ॥ २७ ॥
गुणोपरोधः श्रो(स्रो)तः स्याद्यस्मिंस्तिष्ठति श्रोतसि ॥
कोष्ठस्थे रक्तसंसृष्टं विसंश्र(स्र)वति च व्रणः ॥ २८ ॥
गुदः श्र(स्र)वति चात्यर्थं द्विपस्त्वानह्यते च सः ॥
संध्यस्थिधमनीस्नायौ सद्यःप्राणहरेषु च ॥ २९ ॥
वेदनालिङ्गबाहुल्यादसाध्यं तं विनिर्दिशेत् ॥
मर्मज्ञानं यथोक्तेन विधिना तु विशारदः ॥ ३० ॥
अत ऊर्ध्वं प्रवक्ष्यामि सशल्ये लक्षणं व्रणे ॥
अनिर्हतानि तिष्ठन्ति वर्षाणि सुबहून्यपि ॥ ३१ ॥
५९
४६६ पालकाप्यमुनिबिरचितो— [ १ शल्यस्थाने-
शल्यानि नैवं दृश्यन्ते भिद्यन्ते नैव दन्तिनाम् ॥
निर्व्रणाश्चापि जायन्ते कदाचिच्चापि सव्रणाः ॥ ३२ ॥
न कदाचित्प्रदृश्यन्ते सुनिक्षिप्ततया नृप ॥
भूयस्तु संप्रवक्ष्यामि सशल्पव्रणलक्षणम् ॥ ३३ ॥
व्रणे प्रभिन्ने तस्याथ श्रा(स्रा)वगन्धं च लक्षयेत् ॥
सगदापानसंस्थानः खराणां वाजिनां तथा ॥ ३४ ॥
नृणां च गुदसंस्थानो नाभीभूतश्च जायते ॥
दुर्गन्धः पिच्छिलश्चापि श्रा(स्रा)वस्तत्र प्रवर्त्तते ॥ ३५ ॥
स लोहितश्च विच्छिन्नः काञ्जिकौदनगन्धवान् ॥
कण्डूयते दह्यते च शुष्यंश्च परिपोच्यते ॥ ३६ ॥
वालुकाकर्दमैश्चैनं पांशुभिश्च करेण च ॥
वीजते जिघ्रति तथा सशल्यं व्रणमादिशेत् ॥ ३७ ॥
व्रणोपचारैस्तस्येह वारणस्य महीपते ॥
यदि शल्यं न दृश्येत तस्य वक्ष्याम्युपक्रमम् ॥ ३८ ॥
स्वभ्यक्तं तिलतैलेन ससि(शि)रस्कं घृतेन वा ॥
मेदसा वा प्रलिम्पेत्तु वसया त्रिवृतेन वा ॥ ३९ ॥
निवाते स्वेदयेद्वैद्यो यथोक्तैः स्वेदनैस्तु तम् ॥
विमर्दनं विमार्गं च सर्वेष्वङ्गेषु कारयेत् ॥ ४० ॥
परिमर्दैन नागस्य शल्यं तदुपलभ्यते ॥
अपूर्वो वाऽपि संयोगः शिराणां चैव दृश्यते ॥ ४१ ॥
यत्र वा सज्जते स्पर्शस्तत्र शल्यं विनिर्दिशेत् ॥
यथै(द्ये)वं नोपलभ्येत मृदा तमुपलेपयेत् ॥ ४२ ॥
निवाते तु समावेश्य यत्र पूर्वं विशुष्यति ॥
तनौ तमथ नागस्य तत्र शल्यं विनिर्दिशेत् ॥ ४३ ॥
तत्र शल्यं विदित्वा तु क्षिप्रं तदुपनाहयेत् ॥
मृदुं विवर्णं शिथिलं पक्वं शस्त्रेण पाटयेत् ॥ ४४ ॥
एषिण्या गतिमासाद्य गजानां राजसत्तम ॥
विष्कम्भेन विमार्गे(मर्जये)नं पश्चाच्चेवोपनाहात् ॥ ४५ ॥
सकर्णं वाऽप्यकर्णं वा प्रच्छन्नं तत्र दृश्यते ॥
उपस्थितं तु यच्छल्यं यन्त्रेण ग्राहयेद्दृढम् ॥ ४६ ॥
१२ शल्योद्धरणाध्यायः ] हस्तिआयुर्वेदः । ४१७
वामेन तु मुखाभ्यास उत्तानेनैव पाणिना ॥
दक्षिणेन तु हस्तेन दृढं यन्त्रं निपीडयेत् ॥ ४७ ॥
आहरेत्तु ततः शल्यं क्रियायोगेन दन्तिनाम् ॥
त्वग्गतं शल्यमेवं स्यादाहर्त्तव्यं विजानता ॥ ४८ ॥
मांसोपचितदेहस्य मांसभागमुपाष्ट(श्रि)तम् ॥
यदा न दृश्यते शल्यं तस्य वक्ष्याम्युपक्रमम् ॥ ४९ ॥
स्वभ्यक्तं स्वेदयित्वा तु पूर्ववच्छल्यमुद्धरेत् ॥
शिराजालगतं शल्यं यदा नागे न दृश्यते ॥ ५० ॥
तस्योपायं प्रवक्ष्यामि यथा शल्यं प्रदृश्यते ॥
गोमूत्रं मण्डलं चैव लङ्घनं मर्दनं तथा ॥ ५१ ॥
व्यायामं कारयेत्तस्य तथैव विषमेऽध्वनि ॥
भृशं संकुच्यमानस्य व्यायामोद्भावितं बलात् ॥ ५२ ॥
शीघ्रं प्रच्यवते स्थानात्तस्मादेनं विचारयेत् ॥
वेदनां कुरुते तीव्रां यत्र तेनोपनाहयेत् ॥ ५३ ॥
एषिण्या गतिमासाद्य पूर्ववच्छल्यमुद्धरेत् ॥
स्नायुजालगतं शल्यं वनजस्य न दृश्यते ॥ ५४ ॥
सिराजालमते शल्ये या क्रिया तां समाचरेत् ॥
यदि संधिगतं शल्यं वारणस्य न दृश्यते ॥ ५५ ॥
चर्मणा त्वथ रज्ज्वा वा वेष्टयित्वा पटेन वा ॥
बद्ध्वा चङ्क्रमयेच्छीघ्रं लङ्घयेत्प्लावयेदपि ॥ ५६ ॥
संधौ व्यापृच्छमानस्य रुजा शोफश्च जायते ॥
ततस्तं पूर्ववद्बद्ध्वा यन्त्रैः शल्यं समुद्धरेत् ॥ ५७ ॥
यदा न दृश्यते शल्यमस्थिकायप्रतिष्ठितम् ॥
बहुमांसशरीरत्वाद्विजानां तु नराधिप ॥ ५८ ॥
स्वभ्यक्तं स्वेदयित्वा तु पूर्वेण विधिना भिषक् ॥
यथोक्तां मांसदेशस्थे क्रियां तद्वत्समाचरेत् ॥ ५९ ॥
अथ शल्यं न कम्पेत दृढं लग्नं यथा स्थितम् ॥
वा(?)ङ्गमूले तद्बद्ध्वा दृढरज्ज्वा समाहरेत् ॥ ६० ॥
स्रोतःसु च यदा शल्यं सिराणां संगमेषु च ॥
घटयन्नेव तत्प्राज्ञो मर्मदेशे च यद्भवेत् ॥ ६१ ॥
१६४ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने
एतेष्वेव प्रदेशेषु शस्त्रकर्म न कारयेत् ॥
न चापके न चाछिन्ने न च तिर्यङ्निपातयेत् ॥ ६२ ॥
न मुक्ताशिथिले मांसे मृदुभूते न हस्तिनः ॥
विदग्धे वाऽप्यपक्के वा निर्दोषं हरणं भवेत् ॥ ६३ ॥
एवं स्रोतोगतं शल्यमाहर्त्तव्यं विजानता ॥
कुम्भस्रोतोगतं शल्यं यदा नागे न दृश्यते ॥ ६४ ॥
पूर्वं शिरोभितापेषु जत्रुप्रधमनं स्मृतम् ॥
स्निग्धस्विन्नस्य नागस्य करस्रोतसि दापयेत् ॥ ६५ ॥
ततस्तं बृंहमाणस्य वनथोविन(?)मूर्च्छितम् ॥
क्लेदितं दोषसंसृष्टं मुखं श्रो(स्रो)तः प्रपद्यते ॥ ६६ ॥
ततस्तत्प्रच्युतं स्थानाद्भूमौ पतति हस्तिनः ॥
कोष्ठप्राप्ते तु कवलं दद्यात्तस्य विरेचनम् ॥ ६७ ॥
पुरीषदोषसंसृष्टं तस्मादेतद्भिरस्यते ॥
अथवा मर्दनात्तस्य पाणिघाताद्विलीपते ॥ ६८ ॥
सहसा प्रतिपद्येत मार्गवेगसमीरितम् ॥
एवं कोष्ठगतं शल्यमाहर्तव्यं विजानता ॥ ६९ ॥
इति स्थानेषु सर्वेषु ज्ञात्वा शल्यं समुद्धरेत् ॥
ततोऽपहृतशल्यस्य घृतेन परिषेचनम् ॥ ७० ॥
कर्तव्यं हस्तिनस्तस्य सलिले चावगाहनम् ॥
अशुद्धे शोधनं चापि शुद्धे संरोपणं भवेत् ॥ ७१ ॥
सवर्णकरणं चापि द्विव्रणीये प्रकीर्तितम् ॥
एवं प्रनष्टे विज्ञानं शल्ये नागस्य कीर्तितम् ॥ ७२ ॥
शल्येनोपहृतं सम्यगेभिर्योगैरुपाचरेत् ॥
.... .... .... .... ....ञ्चे यन्त्रं सिंहमुखं तथा ॥ ७३ ॥
यष्ट्यग्रं कर्कटकं दात्यूहं सर्वकायिकम् ॥
गोधामुखं मकरकं दन्तेरुभय .... .... .... ॥ ७४ ॥
....शङ्कुमेकदन्तं च मुष्टिशार्दूलमुष्टिकम् ॥
आकृतिर्यन्त्रयोनिश्च यथावदनुकीर्तिता ॥ ७५ ॥
तस्माद्युक्तं च वचनात्साङ्ख्यादागमादपि ॥
दर्शनाच्चान्ययन्त्राणां कारयेद्यन्त्रसंग्रहम् ॥ ७६ ॥
११ शल्योद्धरणाध्यायः ] हस्त्वायुर्वेदः । ४६१
अतः परं प्रवक्ष्यामि मर्माणि मनुजाधिप ॥
मूर्ध्नि चत्वारि मर्माणि सर्वाणि च समन्ततः ॥ ७७ ॥
येषु विद्धो महाराज मुहूर्तं न स जीवति ॥
अण्डकोशे बस्तिशीर्षे शिश्ने च वृषणे तथा ॥ ७८ ॥
विद्धः शरेण हि गजो न जीवेच्चेन केनचित् ॥
सद्यः प्राणहरेष्वेव सद्यः प्राणैर्विमुज्यते ॥ ७९ ॥
कालान्तरविनाशेषु विद्धः कालाद्विपद्यते ॥
शोणिते च्याविते स्थानाद्भागः प्राणैर्विमुच्यते ॥ ८० ॥
यानि कर्माणि राजेन्द्र मयोद्दिष्टानि दन्तिनाम् ॥
मर्माश्रितेषु सर्वेषु यो भवेत्ताडितो गजः ॥ ८१ ॥
तेषु तेष्वेव शल्येषु विप्रनष्टेषु दन्तिनाम् ॥
तेषामाहरणे यन्त्राण्यशेषेण निबोध मे ॥ ८२ ॥
त्र्यस्रं तथैकदंष्ट्रं च मुष्टिं शार्दूलमुष्टिकम् ॥
नन्दीमुखं शङ्कुकपार्श्वं यन्त्रं सिंहमुखं तथा ॥ ८३ ॥
यन्त्रजातिभिरेताभिः शल्यं विनिहरेद्बुधः ॥
अङ्गुल्येवाप्यथैषण्या परिमृश्य नखेन च ॥ ८४ ॥
सम्यक्शल्यं तु विज्ञाय प्रतिकर्म समाचरेत् ॥
वृद्धिपत्रेण शस्त्रेण निकृन्तेद्व्रणमादितः ॥ ८५ ॥
नन्दीमुखेन यन्त्रेण तेन तच्छल्यमानयेत् ॥
शोणितं पीडयेच्चैव व्रणं वांश्चा च शोधयेत् ॥ ८६ ॥
विडङ्गचूर्णसंसृष्टघृतं स्याद्व्रणसेचनम् ॥
आपसेनाग्निवर्णेन समन्ताद्दाहयेद्व्रणम् ॥ ८७ ॥
घृतपानं च दातव्यं वारणस्य महीपते ॥
कङ्कादिकृतयन्त्रेण सर्वेषामनुपूर्वशः ॥ ८८ ॥
कार्यमुद्धरणं तेषां शल्यानां पृथिवीपते ॥
विशीर्णं साबरेत्कर्णं शङ्कुशीर्षं त्रिकण्टकम् ॥ ८९ ॥
भक्तेन प्रतिषिद्धस्य शल्यस्याऽऽनयने हितम् ॥
पूर्वोक्तेन विधानेन सेचनं स्यान्महीपते ॥ ९० ॥
विद्धो वराहकर्णेन क्षुरेण क्षरेण वा ॥
वृद्धिपत्रेण सर्वास्ताः क्षिप्रमेव समानयेत् ॥ ९१ ॥
१७० पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने ]
पीलुशृङ्गमथनैः शिखराग्रैस्त्रिकण्टकैः ॥
शल्यैरेभिस्तु विद्धस्य वारणस्य महीपते ॥ ९२ ॥
गोधामुखेन यन्त्रेण सर्वेषामनुपूर्वशः ॥
कार्यमुद्धरणं तेषां शल्यानां पृथिवीपते ॥ ९३ ॥
इति कर्णसीचारकं शृङ्गशीर्षं त्रिकण्टकम् ॥
तालीकमर्धतालीकं तथा वेतसपत्रकम् ॥ ९४ ॥
शल्यजातिभिरेताभिः प्रतिविद्धस्य हस्तिनः ॥
अन्यैस्तु कीर्तितैः शल्यैः कृत्वा चान्वेषणं तथा ॥ ९५ ॥
कर्णभङ्गेन भङ्क्त्वाऽथ कर्णतस्य(?)प्रवर्तयेत् ॥
अकरालं व्रणं कृत्वा विष्कम्भित्वा च तं व्रणम् ॥ ९६ ॥
यन्त्रयित्वा च तं सम्यक्सिद्धार्थः कुशलो भिषक् ॥
यन्त्रं सिंहमुखं नाम तेन तानुद्धरेच्छनैः ॥ ९७ ॥
पूर्वोक्तश्च क्रियायोगः पानम्रक्षणकर्मणि ॥
नाराचं चार्धनाराचं सिंहदंष्ट्रेण निर्हरेत् ॥ ९८ ॥
मुकुलाग्रं च कर्तव्यं मण्डूकवक्त्रेण पार्थिव ॥
यन्त्राणां च विभागं च शल्यानां च महीपते ॥ ९९ ॥
कीर्तितास्ते मया सम्यगत ऊर्ध्वं निबोध मे ॥
मर्मकर्माणि चत्वारि पूर्वोक्तानि मयाऽनघ ॥ १०० ॥
तेषु विद्धस्य नागस्य शल्यं सद्भिप्रणश्यति ॥
अनिर्गतेषु तं प्राप्य निर्गते न स जीवति ॥ १ ॥
युक्तिभिर्यापनीयाभिस्तस्मात्तमनुवर्तयेत् ॥
अभ्यङ्गालेपनाद्याभिः सिद्धार्थव्रणशोधनम् ॥ २ ॥
मस्तकेऽथ शरेणेव विद्धस्यान्येन केनचित् ॥
अनिर्गते निर्गते वा न स जीवति वारणः ॥ ३ ॥
आसने जघने वाऽपि श्लक्ष्णेनाथ खरेण वा ॥
अनिर्गतेषु तद्याप्यं निर्गते न स जीवति ॥ ४ ॥
उपर्यापामभिन्नस्य कोष्ठभिन्नश्च यो भवेत् ॥
शोणितानुगतो भूत्वा स्याद्घातव्याधिरन्तकः ॥ १०५ ॥
कंधरासंधिषु तथा शिरास्नायुषु पार्श्वयोः ॥
विद्धस्यापनयेच्छल्यं मर्माणि परिरक्षयेत् ॥ ६ ॥
१२ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । ४७१
अप्राप्तसंधिशल्ये च शल्यनिर्हरणं भवेत् ॥
विशल्यं च व्रणं कृत्वा प्रतिकर्म समाचरेत् ॥ ७ ॥
लम्बितं व्यथितं छिन्नमवकृतं च यद्भवेत् ॥
दुर्जातं च व्रणं दृष्ट्वा प्रतिकर्मास्य कारयेत् ॥ ८ ॥
क्षौमसूत्रेण मेधावी सीवनं चास्य कारयेत् ॥
पूर्वोक्ता च क्रिया तस्य कारयेद्व्रणशान्तये ॥ ९ ॥
विद्धः शरेण काकोला ..........च्छिन्नरोहयोः ॥
.................... चूर्णैश्च प्रतिचूर्णयेत् ॥ ११० ॥
अथास्य शोफो भवति तेनैव प्रतिलेपयेत् ॥
क्षीरवृक्षकषायेण सर्पिषा चैव धारयेत् ॥ ११ ॥
शुध्यते च व्रणं तस्य क्षिप्रं चैव प्ररोहति ॥
अथ दिग्धेन विद्धस्य वक्ष्यते भेषजक्रमः ॥ १२ ॥
स्व(श्व)पथोर्दिग्धविद्धस्य पूतिमांससमुद्भवः ॥
श्रा(स्रा)वो भवत्यशुद्धश्च भिन्नवर्णश्च जायते ॥ १३ ॥
स तप्तदेहश्च भवेच्छोफशेषश्च जायते ॥
एतानि पूर्वरूपाणि दिग्घविद्धस्य हस्तिनः ॥ १४ ॥
व्रणं तच्छोधयित्वाऽथ संस्कृतेनाथ सर्पिषा ॥
नस्यं तस्य ततो दद्याद् गदं चानुपाचयेत् ॥ ११५ ॥
शीतप्रदेहं कुर्याच्च तथा सिध्यति पार्थिव ॥
स्तब्धो विवर्णो निःसुप्तो(?) व्रणो यस्य तु हस्तिनः ॥ १६ ॥
स्थापयित्वा युतं स्थाने पञ्चापित्वा यथाक्रमम् ॥
तन्तुसूत्रपटैर्वाऽपि क्षौमसूत्रेण वा भिषक् ॥ १७ ॥
सुसीवनं व्रणं कृत्वा नागस्यैवं समाचरेत् ॥
मधुव्रणविधानेन प्रतिकुर्याद्द्विपगवरः ॥ १८ ॥
इतीह पृष्टो भगवानङ्गराजेन धीमता ॥
पालकाप्यः क्रियामाह शल्यस्योद्धरणं प्रति ॥ ११९ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
शल्योद्धरणो नाम द्वादशोऽध्यायः ॥ १२ ॥
१७२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने
अथ त्रयोदशोऽध्यायः।
'अथातो विद्रधिचिकित्सितं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पाल-
काप्यः ॥
इह भो वातपित्तकफसंनिपातैर्विद्रधयः संभवन्ति । तत्र कटुकषायरूक्ष-
भोजनैर्वातलैः प्रकुप्यत्यनिलः । प्रदुष्टो मांसशोणितमभिमूद्य कृकणवृक्कण-
प्लीहायकृद्धृदयक्लोमवस्तिमुत्समेहानानामन्यतममधिष्ठाय घनीभवति गम्भीरो
ग्रन्थिः, तं वातविद्रधिमाचक्ष्महे । तत्र वातविद्रधिरनिमित्तं पच्यते । लिक्कुम्-
पकमुश्रा(स्रा)वं विच्छिन्नं फेनिलमरुणवर्णं रूक्षं स्रवति ॥
यदा तु कटुकाम्लानि पित्तप्रकोपनीयानि भोज्यते नागः, तस्य पित्तं प्रकुपितं
विद्रधिमापाद)यति । तत्र पित्तविद्रधिराशु प्रपच्यते । पक्वस्तीव्रो दुर्गन्धिः
कुलत्थरससदृशः स्रावो दोहप्रायश्च भवति ॥
यदा तु मधुरं दिवास्वप्नं चोपसेवते, तस्य श्लेष्मा प्रकुपितो विद्रधिमापाद-
यति । स चिरात्पच्यते बहुश्वेतो बहुलसान्द्रपिच्छिलो मेदोमज्जासदृशस्रावो
भवति स कफविद्रधिः ॥
संनिपातजे विद्रधौ सर्वरूपदर्शनम् । विशेषतश्च प्लीहश्वासारोचकाश्च
भवन्ति । तस्मादविरोध्यतस्य चिकित्सितं कुर्यात् । स्नेहकल्पोक्तेयेनं स्नेहेने-
वोप(क्र)मेत ॥
तत्र श्लोको—
पञ्चाहं सप्तरात्रं वा व्रणं स्नेहेस्तु सेचयेत् ॥
संजातधा(प्रा)णमांसस्य प्रतिपूर्णेषु धातुषु ॥ १ ॥
स्नेहपानोपचारेण स्नेहं चास्मै प्रदापयेत् ॥
शोधनं रोपणं चोक्तं प्रतिव्रणचिकित्सितम् ॥ २ ॥
यथावत्कुशलेपोंडपं श्रा(स्रा)वणं भेदनं तथा ॥
अथ विद्रधयः प्राह वातपित्तकफात्मकाः ॥ ३ ॥
संनिपाताश्च राजेन्द्र वक्ष्यन्ते तु यथाक्रमम् ॥
रसांस्तु तिक्तकटुकान्कषायानिवषमान्यदा ॥ ४ ॥
शीतांभिःस्नेहलवणानाहारानपि सेवतः ॥
बृंहितेनाथ विषमं स्वपतः कंठिनेन वा ॥ ५ ॥
१ ख. दाहश्च । २ क. कण्ठितेन ।
१३ विद्रधिरोगाध्यायः ] हस्त्यायुर्वेदः । १७३
गजस्य कुपितो वायुर्धमनीः संसृ(श्चि)तो यदा ॥
तदाऽस्यान्यतमे देशे प्रपाचयति शोणितम् ॥ ६ ॥
अथास्य रक्तसंसृष्टो जनयत्याशु विद्रधिम् ॥
मन्यादेशे च कक्षायां तथा गात्रापरेषु च ॥ ७ ॥
जघेनाभ्यन्तरे कोशे स्तेनास्थाने च भूपते ॥
नाभौ *चलेषु देशेषु तथाऽन्येष्वपि दन्तिनः ॥ ८ ॥
प्रदेशेषु नरश्रेष्ठ सर्वव्यापी प्रभञ्जनः ॥
जायते स्व(श्व)यथुस्तेन सविदाहः सवेदनः ॥ ९ ॥
─:०:─
किंचिद्विवर्णो गम्भीरः संप्रलुप्तश्च भक्ष्यते ॥
अतः परं सम्यगस्य वारणस्य महीपते ॥ १० ॥
प्रदुष्टश्चैव लक्ष्येत अप्रदुष्टश्च लक्ष्यते ॥
मन्दकोपस्तथाऽऽयामकठिनो नद्ध एव च ॥ ११ ॥
मन्दं विक्षिपते देहं याति कण्डूयतः शमम् ॥
भवेत्तस्य गतिः सूक्ष्मा सदाहा सपरिस्रवा ॥ १२ ॥
उष्णे शान्तिं स लभते शीतेन च विवर्धते ॥
इति वातसमुत्थाया लक्षणं संप्रकीर्तितम् ॥ १३ ॥
─;०:─
उष्णादत्यर्थलवणात्तथाऽम्लरससेवनात् ॥
संरम्भोद्धर्मसंतापादध्वनो गमनेन वा ॥ १४ ॥
एवं प्रकुपितं पित्तं धमनीः प्रतिपद्यते ॥
आक्षिप्तं वायुमाक्षिप्तं देहे समुपँलीयते ॥ १५ ॥
लीनं स्थानाच्च्युतं चास्य श्वयथुं जनयेद्भृशम् ॥
तेन ज्वरश्च तापश्च तीव्रा तृष्णा च जायते ॥ १६ ॥
दह्यते चाग्निनेवास्य स देशस्तुद्यतेऽपि च ॥
हारिद्रो हारितो वाऽथ स देशः संप्रकाशते ॥ १७ ॥
पाकं चान्वेति सहसा तदेवान्तकरं तथा ॥
सुवर्णसदृशश्चास्य ततः श्रा(स्रा)वः प्रवर्तते ॥ १८ ॥
- 'च तेषु' इति पाठो भवेत् ।
१ क. ॰घन्याम्य॰ । २ क. स्थनास्थाने । ३ ख. वलेषु । ४ क. ॰व्यापि-
प्रभञ्जनम् ॥ जा॰ । ५ क. लक्षेते अवदुष्टश्च लुक्षते । ६ ख. ॰म्भावर्मसंपाताद॰ ।
७ क. ॰पचीय॰ । ८ ख. कृष्णा ।
६०